श्रीभगवान्-
ततो देवयुगेऽतीते देवा वै समकल्पयन्
यज्ञं वेदप्रमाणेन विधिवद्यष्टुमीप्सवः
कल्पयामासुरथ ते साधनानि हवींषि च
भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च
ते वै रुद्रमजानन्त्यो याथातथ्येन भारत
नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप
सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः
तपसा यज्ञमन्विच्छन्धनुरग्रे ससर्ज ह
लोकयज्ञः क्रियायज्ञो गृहयज्ञस्सनातनः
पञ्चभूतनृयज्ञश्च जज्ञे सर्वमिदं जगत्
लोकयज्ञनृयज्ञैश्च कपर्दी विदधे धनुः
तत्सर्वमभवत्तस्य षष्टिकिष्कुप्रमाणतः
वषट्कारोऽभवज्ज्या तु धनुषस्तस्य भारत
यज्ञाङ्गानि च चत्वारि तस्य सन्नहनेऽभवन्
ततः क्रुद्धो महादेवस्तदुपादाय कार्मुकम्
आजगामाथ तत्रैव यत्र देवास्समीजिरे
तमात्तकार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम्
विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे
न ववौ पवनश्चैव नाग्निर्जज्वाल चैधितः
व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम्
न बभौ भास्करश्चापि सोमश्श्रीमुक्तमण्डलः
तिमिरेणावृतं सर्वमाकाशं चाभवत्तदा
अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे
न प्रत्यभाच्च यज्ञस्स देवतास्त्रेसिरे तथा
ततस्स यज्ञं विव्याध रौद्रेण हृदि पत्रिणा
अपक्रान्स्ततो यज्ञो मृगो भूत्वा सपावकः
स तु तेनैव रूपेण दिविस्थो वै व्यराजत
अन्वीयमानो रुद्रेण युधिष्ठिर नभस्थले
अपक्रान्ते ततो यज्ञे सञ्ज्ञा न प्रत्यभात्सुरान्
नष्टसञ्ज्ञेषु देवेषु न प्राज्ञायत किञ्चन
त्र्यम्बकस्सवितुर्बाहू भगस्य नयने तथा
पूष्णश्च दशनान्क्रुद्धो धनुष्कोट्या व्यशातयत्
प्राद्रवन्त ततो देवा यज्ञाङ्गानि च सर्वशः
केचित्तत्रैव घूर्णन्तो गतासव इवाभवन्
स तु विद्राव्य तत्सर्वं शितिकम्ठोऽपहस्य च
अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस्ततः
ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत्
अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः
ततो विधनुषं देवा देवश्रेष्ठमुपागमन्
शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः
ततः प्रसन्नो भगवान्प्रास्यत्कोपं जलाशये
स जलं पावको भूत्वा शोषयत्यखिलं विभो
भगस्य नयने चैव बाहू च सवितुस्तथा
प्रादात्पूष्णश्च दशनान्पुनर्यज्ञं च पाण्डव
ततस्स्वस्थमिदं सर्वं बभूव पुनरेव हि
सर्वाणि च हवींष्यस्य देवा भागमकल्पयन्
तस्मिन्क्रुद्धेऽभवत्सर्वमस्वस्थं भुवनं प्रभो
प्रसन्ने च पुनस्स्वस्थं जगद्भवति भारत
ततस्ते निहता तेन तव पुत्रा महारथाः
अन्ये च बहवश्शूराः पाञ्चालास्सपदानुगाः
न तन्मनसि कर्तव्यं न च तद्द्रौणिना कृतम्
महादेवप्रसादस्स कुरु कार्यमनन्तरम्