वैशम्पायनः-
दृष्टैव मुनिशार्दूलौ तावग्निसमतेजसौ
गाण्डीवधन्वा सञ्चिन्त्य प्राप्तकालं महारथः
सञ्जहार शरं दिव्यं त्वरमाणो धनञ्जयः
अर्जुनः-
उवाच च नरश्रेष्ठः प्राञ्जलिस्तावुभावृषी
प्रमुक्तमस्त्रमस्त्रेण शाम्यतामिति वै मया
संहृते परमास्त्रेऽस्मिन्सर्वानस्मानशेषतः
पापकर्मा ध्रुवं द्रौणिः प्रधक्ष्यत्यस्त्रतेजसा
यदत्र हितमस्माकं लोकानां चैव सर्वथा
भवन्तौ देवसङ्काशौ तथा सम्मन्तुमर्हतः
वैशम्पायनः-
इत्युक्त्वा सञ्जहारास्त्रं पुनरेव धनञ्जयः
संहारो दुष्करस्तस्य देवैरपि च संयुगे
विसृष्टस्य रणे तस्य परमास्त्रस्य संयुगे
अशक्तः पाण्डवादन्यस्साक्षादपि शतक्रतुः
ब्रह्मतेजोद्भवं तद्धि विसृष्टमकृतात्मना
न शक्यमावर्तयितुं ब्रह्मचारिव्रतादृते
अचीर्णब्रह्मचर्यो यस्सृष्ट्वाऽऽवर्तयते पुनः
तदस्त्रं सानुबन्धस्य मूर्धानं तस्य कृन्तति
ब्रह्मचारी व्रती चापि दुरवापमवाप्य तत्
परमव्यसनार्तोऽपि नार्जुनोऽस्त्रं व्यमुञ्चत
सत्यव्रतधरश्शूरो ब्रह्मचारी च पाण्डवः
गुरुवर्ती च तेनास्त्रं सञ्जहारार्जुनः पुनः
द्रौणिरप्यथ सम्प्रेक्ष्य सोऽन्तरा तावृषी स्थितौ
न शशाक पुनर्घोरमस्त्रं संहर्तुमोजसा
अशक्तः प्रतिसंहारे परमास्त्रस्य संयुगे
द्रौणिर्दीनमना राजन्द्वैपायनमभाषत
द्रौणिः-
उत्तमव्यसनार्तेन प्राणत्राणमभीप्सुना
मयेदमस्त्रमुत्सृष्टं भीमसेनभयान्मुने
अधर्मश्च कृतोऽनेन धार्तराष्ट्रं जिघांसता
मिथ्याचारेण भगवन्भीमसेनेन संयुगे
अतस्सृष्टमिदं ब्रह्मन्मयाऽस्त्रमकृतात्मना
तस्य भूयोऽपि संहारं कर्तुं नाहमिहोत्सहे
निसृष्टं हि मया दिव्यमेतदस्त्रं दुरासदम्
अपाण्डवायेति मुने वह्नितेजोऽनुमन्त्र्य वै
तदिदं पाण्डुपुत्राणामन्तायैव सुसंहितम्
अद्य पाण्डुसुतान्सर्वाञ्जीविताद्भ्रंशयिष्यति
कृतं पापमिदं ब्रह्मन्क्रोधाविष्टचेतसा
वधमाशास्य पार्थानां मयाऽस्त्रं सृजता रणे
व्यासः-
अस्त्रं ब्रह्मशिरस्तात विद्वान्पार्थो धनञ्जयः
उत्सृष्टवानहिंसार्थं न रोषेण तवाहवे
अस्त्रमस्त्रेण तु रणे तव संशमयिष्यता
विसृष्टमर्जुनेनेदं पुनश्च प्रतिसंहृतम्
ब्रह्मास्त्रमप्यवाप्यैतदुपदेशात्पितुस्तव
क्षत्रधर्मान्महाबुद्धिर्नाकम्पत धनञ्जयः
एवं धृतिमतस्साधोस्सर्वास्त्रविदुषस्सतः
सभ्रातृबन्धोः कस्मात्त्वं वधमस्य चिकीर्षसि
अस्त्रं ब्रह्मशिरो यत्र परमास्त्रेण वध्यते
समा द्वादश पर्जन्यस्तद्राष्ट्रं नाभिवर्षति
एतदर्थं महाबाहुश्शक्तिमानपि पाण्डवः
उपसंहृतवानस्त्रं प्रजाहितचिकीर्षया
पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव नः
तस्मात्संहर दिव्यं त्वमस्त्रमेतन्महाभुज
अरोषस्तव चैवास्तु पार्थास्सन्तु निरामयाः
न ह्यधर्मेण राजर्षिः पाण्डवो जेतुमिच्छति
मणिं चैनं प्रयच्छैभ्यो यस्ते शिरसि तिष्ठति
एतदादाय ते प्राणान्प्रतिदास्यन्ति पाण्डवाः
द्रौणिः-
पाण्डवैर्यानि रत्नानि यद्वाऽन्यत्कौरवैर्धनम्
अवाप्तानीह तेभ्योऽयं मणिर्मम विशिष्यते
यमाबध्य भयं नास्ति शस्त्रव्याधिक्षुधाश्रयम्
देवेभ्यो दानवेभ्यो वा नागेभ्यो वा कदाचन
न च रक्षोगणभयं न तस्करभयं तथा
एवं वीर्यो मणिरयं न मे त्याज्यः कथञ्चन
यत्तु मे भगवानाह तन्मे कार्यमनन्तरम्
अयं मणिरयं चाहमिषीका तु पतिष्यति
गर्भेषु पाण्डुपुत्राणामुत्तरायास्तथोदरे
वैशम्पायनः-
न च शक्नोमि भगवन्संहर्तुं पुनरुद्यतम्
न च वाक्यं भगवतो न करिष्ये महामुने
प्राह द्रोणसुतं तत्र व्यासः परमदुर्मनाः
व्यासः-
एवं कुरु न चान्यत्र बुद्धिः कार्या कथञ्चन
गर्भेषु पाण्डवेयानां विसृज्यैतदुपारम
वैशम्पायनः-
तमुवाच हृषीकेशः पाण्डवानां हिते रतः
श्रीभगवान्-
भविष्यमेकमुत्सृज्य गर्भेष्वस्त्रं निपात्यताम्
अहमेनं ददाम्येषां पिण्डदं कीर्तिवर्धनम्
राजर्षिं पुण्यकर्माणमनेकक्रतुयाजिनम्
एवं कुरु न चान्या ते बुद्धिः कार्या कथञ्चन
आगर्भात्पाण्डवेयानां कृत्वा पातं विनङ्क्ष्यति
वैशम्पायनः-
एवं ब्रुवाणं गोविन्दं वृषभं सर्वसात्वताम्
द्रौणिः परमसङ्क्रुद्धः प्रत्युवाचेदमुत्तरम्
द्रौणिः-
नैतदेवं यदात्थ त्वं पक्षपातेन केशव
वचनात्पुण्डरीकाक्ष तव मद्वाक्यमन्यथा
पतिष्यत्येतदस्त्रं वै गर्भे तस्या मयोद्यतम्
विराटदुहितुः कृष्ण यं त्वं रक्षितुमर्हसि
श्रीभगवान्-
अमोघः परमास्त्रस्य पातस्त्वद्य भविष्यति
अभिमन्योस्सृजैषीकां गर्भस्थश्शाम्यतां शिशुः
अहमेनं मृतं जातं जीवयिष्यामि बालकम्
स तु गर्भो मृतो जातो दीर्घमायुरवाप्स्यति
वैशम्पायनः-
द्रौणिः-
इत्युक्तः प्रत्युवाचैनं द्रोणपुत्रस्स्मयन्निव
यद्यस्त्रदग्धं गोविन्द जीवयस्येवमस्त्विति
वैशम्पायनः-
ततः परममस्त्रं तु द्रौणिरुद्यतमाहवे
द्वैपायनमनादृत्य गर्भेषु प्रमुमोच ह