वैशम्पायनः-
इङ्गितेनैव दाशार्हस्तस्याभिप्रायमादितः
द्रौणेर्बुद्ध्वा महाबाहुरभ्यभाषत फल्गुनम्
वैशम्पायनः-
अर्जुनार्जुन यद्दिव्यमस्त्रं ते हृदि वर्तते
द्रोणोपदिष्टं तस्यायं कालस्सम्परिवर्तते
भ्रातॄणामात्मनश्चैव परित्राणाय भारत
विसृजैतत्त्वमप्याजावस्त्रमस्त्रनिवारणम्
वैशम्पायनः-
केशवेनैवमुक्तस्तु पाण्डवः परवीरहा
रथादवातरत्तूर्णं प्रगृह्य सशरं धनुः
पूर्वमाचार्यपुत्राय ततोऽनन्तरमात्मने
भ्रातॄणां चैव सर्वेषां स्वस्तीत्युक्त्वा परन्तपः
देवताभ्यो नमस्कृत्य गुरुभ्यश्चैव सर्वशः
उत्ससर्ज शिवं ध्यायन्नस्त्रमस्त्रेण शाम्यताम्
ततस्तदस्त्रं सहसा सृष्टं गाण्डीवधन्वना
प्रजज्वाल महाज्वालं युगान्तानलसन्निभम्
तथैव द्रोणपुत्रस्य तदस्त्रं तिग्मतेजसः
प्रजज्वाल महाज्वालं तेजोमण्डलसंवृतम्
निर्घाता बहवश्चासन्पेतुरुल्कास्सहस्रशः
महद्भयं च भूतानां सर्वेषां समजायत
सशब्दमभवद्व्योम ज्वालामालाकुलं भृशम्
चचाल च मही कृत्स्ना सपर्वतवनद्रुमा
तावस्त्रतेजसा लोकांस्त्रासयन्तौ ततस्स्थितौ
महर्षी सहितौ तत्र दर्शयामासतुस्तदा
नारदस्सर्वधर्मात्मा भरतानां पितामहः
उभौ शमयितुं वीरौ भारद्वाजधनञ्जयौ
तौ मुनी सर्वधर्मज्ञौ सर्वभूतहितैषिणौ
दीप्तयोरस्त्रयोर्मध्ये स्थितौ परमतेजसौ
तदन्तरमनाधृष्यावुपगम्य यशस्विनौ
आस्तामृषिवरौ तत्र ज्वलिताविव पावकौ
प्राणभृद्भिरनाधृष्यौ देवदानवसम्मतौ
अस्त्रतेजश्शमयितुं लोकानां हितकाम्यया
ऋषी-
नानाशस्त्रविदः पूर्वे ये व्यतीता महारथाः
नैतदस्त्रं मनुष्येषु तैः प्रयुक्तं कथञ्चन