वैशम्पायनः-
एवमुक्त्वा कुरुश्रेष्ठं सर्वयादवनन्दनः
सर्वायुधवरोपेतमारुरोह रथोत्तमम्
युक्तं परमकाम्भोजैस्तुरगैर्हेममालिभिः
उदितादित्यसङ्काशं सर्वरत्नविभूषितम्
दक्षिणेऽस्यावहत्सैन्यस्सुग्रीवस्सव्यतो धुरम्
पार्ष्णिवाहौ तु तस्याऽऽस्तां मेघपुष्पवलाहकौ
विश्वकर्मकृता दिव्या नानारत्नविभूषिता
उच्छ्रिता च रथे तस्मिन्ध्वजयष्टिरदृश्यत
वैनतेयस्स्थितस्तस्यां प्रभामण्डलरश्मिवान् |
तस्य सत्यवतः केतुर्भुजङ्गारिरदृश्यत
अन्वारोहद्धृषीकेशः केतुस्सर्वधनुष्मताम्
अर्जुनस्सत्यकर्मा च कुरुराजो युधिष्ठिरः
शुशुभाते तु तौ वीरौ दाशार्हमभितस्स्थितौ
रथस्थं शार्ङ्गधन्वानमश्विनाविव वासवम्
उभावारोप्य दाशार्हस्स्यन्दनं लोकपूजितम्
प्रतोदेन जवोपेतान्परमाश्वानचोदयत्
ते हयास्सहसोत्पेतुर्गृहीत्वा स्यन्दनोत्तमम्
आस्थितं पाण्डवेयाभ्यां यदूनामृषभेण च
वहतां शार्ङ्गधन्वानमश्वानां शीघ्रगामिनाम्
प्रादुरासीन्महाञ्शब्दः पक्षिणां पततामिव
ते समर्थं महाबाहुं क्षणेन भरतर्षभ
भीमसेनं महात्मानमनुस्मृत्य सुवेगिताः
क्रोधदीप्तं तु कौन्तेयं द्विषदर्थे समुद्यतम्
नाशक्नुवन्वारयितुं समेत्यापि महारथाः
स तेषामग्रतश्शूरश्श्रीमतां दृढधन्विनाम्
ययौ भागीरथीकच्छं हरिभिर्हेममालिभिः
यत्र स श्रूयते द्रौणिः पुत्रहन्ता दुरात्मवान्
स ददर्श महात्मानमुदकान्ते यशस्विनम्
कृष्णद्वैपायनं व्यासमासीनमृषिभिस्सह
तं चैव क्रूरकर्माणं घृताक्तं कुशचीरिणम्
रजसा ध्वस्तमासीनं ददर्श द्रौणिमन्तिके
तमभ्यधावत्कौन्तेयः प्रगृह्य सशरं धनुः
भीमसेनो महाबाहुस्तिष्ठ तिष्ठेति चाब्रवीत्
तं दृष्ट्वा भीमकर्माणं प्रगृहीतशरासनम्
भ्रातरौ पृष्ठतश्चास्य जनार्दनरथस्थितौ
व्यथितात्माऽभवद्द्रौणिः प्राप्तं चेदममन्यत
स तद्दिव्यमदीनात्मा परमास्त्रमचिन्तयत्
जग्राह च शरैषीकां द्रौणिस्सव्येन पाणिना
स तामापदमासाद्य दिव्यमस्त्रमुदीरयत्
अमृष्यमाणस्ताञ्छूरान्दिव्यायुधधरान्स्थितान्
अपाण्डवायेति रुषा वाचमुत्सृज्य दारुणम्
इत्युक्त्वा राजशार्दूल द्रोणपुत्रः प्रतापवान्
सर्वलोकप्रमोहार्थं तदस्त्रं प्रमुमोच ह
ततस्तस्यामिषीकायां पावकस्समजायत
नाशयत्येव लोकांस्त्रीन्कालान्तकयमोपमः