वैशम्पायनः-
तस्मिन्प्रयाते दुर्धर्षे यदूनामृषभस्ततः
अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम्
श्रीभगवान्-
एष ते पाण्डवो भ्राता पुत्रशोकमपरायन्
जिघांसुर्द्रौणिमाक्रन्दे एक एवाभिधावति
भीमः प्रियस्ते सर्वेभ्यो भ्रातृभ्यो भरतर्षभ
तं कृच्छ्रगतमद्य त्वं कस्मान्नाभ्यवपद्यसे
यत्तदाचष्ट पुत्राय द्रोणः प्रहरतां वरः
अस्त्रं ब्रह्मशिरो नाम तद्दहेत्पृथिवीमपि
तन्महात्मा महाभागः केतुस्सर्वधनुष्मताम्
प्रत्यपायदाचार्यः प्रीयमाणो धनञ्जयम्
तं पुत्रोऽप्येक एवैनमन्वयाचदमर्षणः
ततः प्रोवाच पुत्राय नातिहृष्टमना इव
विदितं चापलं ह्यासीदात्मजस्य महात्मनः
सर्वधर्मविदाचार्यः सोऽन्वशासत्सुतं ततः
द्रोणः-
परमापद्गतेनापि न स्म तात त्वया रणे
इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः
श्रीभगवान्-
इत्युक्तवान्गुरुः पुत्रं द्रोणः पश्चादथोक्तवान्
न त्वं जातु सतां मार्गे स्थातेति पुरुषर्षभ
स तदाज्ञाय दुष्टात्मा पितुर्वचनमप्रियम्
निराशस्सर्वकल्याणे शोकात्पर्यपतन्महीम्
कदाचित्स नरश्रेष्ठ वनस्थे त्वयि भारत
अवसद्द्वारकामेत्य वृष्णिभिः परमार्चितः
स कदाचित्समुद्रान्ते वसन्द्वारवतीमनु
एक एकं समागम्य मामुवाच हसन्निव
यत्तदुग्रं तपः कृष्ण चरन्नमितविक्रमः
अगस्त्याद्भारताचार्यः प्रत्यपद्यत मे पिता
अस्त्रं ब्रह्मशिरो नाम देवगन्धर्वपूजितम्
तदद्य मयि दाशार्ह यथा पितरि मे तथा
अस्मत्तस्तदुपादाय दिव्यमस्त्रविदां वर
ममाप्यस्त्रं प्रयच्छ त्वं चक्रं रिपुहणं रणे
स राजन्प्रीयमाणेन मयाप्युक्तः कृताञ्जलिः
याचमानः प्रयत्नेन मत्तोऽस्त्रं भरतर्षभ
देवदानवगन्धर्वमनुष्यपतगोरगाः
न समा मम वीर्यस्य शतांशेनापि पिण्डिताः
इदं धनुरियं शक्तिरिदं चक्रमियं गदा
यद्यदिच्छसि चेदस्त्रं मत्तस्तत्तद्ददामि ते
यच्छक्नोषि समुद्यन्तुं प्रयोक्तुमपि वा रणे
तद्गृहाण विनाऽस्त्रेण यन्मे दातुमिहेच्छसि
स सुनाभं सहस्रारं वज्रनाभमयस्मयम्
वव्रे चक्रं महाभागो मत्तस्स्पर्धन्मया सह
गृहाण चक्रमित्युक्तो मया तु तदनन्तरम्
जग्राहोत्पत्य सहसा चक्रं सव्येन पाणिना
न चैनमशकत्स्थानात्प्रचालयितुमप्युत
अथैनं दक्षिणेनापि ग्रहीतुमुपचक्रमे
सर्वयत्नेन तेनापि गृह्य नैनमकम्पयत्
ततस्सर्वबलेनापि यदैनं न शशाक ह
उद्यन्तुं वा चालयितुं द्रौणिः परमदुर्मनाः
कृत्वा यत्नं परं श्रान्तस्स न्यवर्तत भारत
निवृत्तमनसं तस्मादभिप्रायाद्विचेतसम्
अहमामन्त्र्य संविग्नमश्वत्थामानमब्रुवम्
यस्स दैवमनुष्येषु प्रमाणं परमं गतः
गाण्डीवधन्वा श्वेताश्वः कपिप्रवरकेतनः
यस्साक्षाद्देवदेवेशं शितिकण्ठमुमापतिम्
द्वन्द्वयुद्धे पुरा जिष्णुस्तोषयामास शङ्करम्
यस्मात्प्रियतरो नास्ति ममान्यः पुरुषो भुवि
न देयं यस्य मे किञ्चिदपि प्राणान्महात्मनः
तेनापि सुहृदा ब्रह्मन्पार्थेनाक्लिष्टकर्मणा
नोक्तपूर्वमिदं वाक्यं यस्त्वं मामभिभाषसे
ब्रह्मचर्यं महद्घोरं चरित्वा द्वादशवार्षिकम्
हिमवत्पादमभ्येत्य यो मया तपसाऽऽर्जितः
समानव्रतचारिण्यां रुक्मिण्यां यो व्यजायत
सनत्कुमारस्तेजस्वी प्रद्युम्नो नाम मे सुतः
तेनाप्येतन्महद्दिव्यं चक्रमप्रतिमं महत्
न प्रार्थितमभून्मूढ तदिदं प्रार्थितं त्वया
रामेणातिबलेनैव नोक्तपूर्वं कदाचन
न गदेन न साम्बेन यदिदं प्रार्थितं त्वया
द्वारकावासिभिश्चैव वृष्ण्यन्धकमहारथैः
नोक्तपूर्वमिदं क्षुद्रं तदिदं प्रार्थितं त्वया
भारताचार्यपुत्रस्सन् मानितस्त्वं मया द्विजः
चक्रेण रथिनां श्रेष्ठ यन्नस्तात युयुत्ससे
एवमुक्तो मया द्रौणिर्मामिदं प्रत्युवाच ह
द्रौणिः-
प्रयुज्य भवते पूजां योत्स्ये कृष्ण त्वया सह
प्रार्थितं ते मया चक्रं देवदानवपूजितम्
अजेयस्स्यामिति विभो सत्यमेद्ब्रवीमि ते
सोऽहं तद्दुर्लभं चक्रमनवाप्यैव केशव
प्रतियास्यामि गोविन्द शिवेनाभिवदस्व माम्
एतत्सुनाभं भोजानामृषभेण त्वया धृतम्
चक्रमप्रतिचक्रेण भुवि नान्योऽभिपद्यते
श्रीभगवान्-
एतावदुक्त्वा द्रौणिर्मां युग्यानश्वान्धनानि च
आदायोपययौ काले रत्नानि विविधानि च
स संरम्भी दुरात्मा च चपलः क्रूर एव च
वेद चास्त्रं ब्रह्मशिरस्तस्माद्रक्ष्यो वृकोदरः