वैशम्पायनः-
तस्यां रात्र्यां व्यतीतायां धृष्टद्युम्नस्य सारथिः
शशंस धर्मराजाय सौप्तिके कदनं कृतम्
सूतः-
द्रौपदेया हता राजन्द्रुपदस्यात्मजैस्सह
प्रमत्ता निशि विश्वस्तास्स्वपन्तश्शिबिरे स्वके
गौतमेन नृशंसेन भोजेन कृतवर्मणा
अश्वत्थाम्ना च पापेन हतं वश्शिबिरं निशि
एतैर्नरगजाश्वानां प्रासशक्तिपरश्वथैः
सहस्राणि निकृन्तद्भिर्निश्शेषं शिबिरं कृतम्
छिद्यमानस्य महतो वनस्येव परश्वथैः
शुश्रुवे सुमहाञ्शब्दो बलस्य तव भारत
अहमेवावशिष्टस्तु तस्मात्सैन्यान्महीपते
मुक्तः कथञ्चिद्धर्मात्मन्द्वारेण कृतवर्मणः
वैशम्पायनः-
तच्छ्रुत्वा वाक्यमशिवं कुन्तीपुत्रो युधिष्ठिरः
पपात मुह्यन् दुर्धर्षः पुत्रशोकसमन्वितः
तमापतन्तमाक्रम्य परिजग्राह सात्यकिः
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ
लब्धचेतास्तु कौन्तेयश्शोकविह्वलया गिरा
जित्वा शत्रूञ्जितः पश्चात्पर्यदेवयदार्तवत्
युधिष्ठिरः-
अगम्या गतिरर्थानां कर्मणामीश्वरस्य च
दुर्विदा गतिर्ह्येषामपि ये दिव्यचक्षुषः
जीयमाना जयन्त्यन्ये जयमाना वयं जिताः
हत्वा भ्रातॄन्वयस्यांश्च पितॄन्भृत्यान्सुहृद्गणान्
बन्धूनमात्यान्पौत्रांश्च जित्वा सर्वाञ्जिता वयम्
अनर्था ह्यर्थसङ्काशस्तथाऽनर्थोऽर्थदर्शनः
जयोऽयमजयाकारो जयस्तस्मात्पराजयः
यो जित्वा तप्यते पश्चादापन्न इव दुर्मतिः
कथं मन्येत विजयं यस्स्याज्जिततरः परैः
येषामर्थे जयोऽयं स्याद्विजयस्य सुहृद्वधे
तैर्जितैरप्रमत्तैर्हि निर्जिता जितकाशिनः
कर्णिनालीकदंष्ट्रस्य खड्गजिह्वस्य संयुगे
वायव्यास्त्रस्य चैन्द्रस्य ज्यातलत्रविनादिनः
क्रुद्धस्य नरसिंहस्य सङ्ग्रामेष्वपलायिनः
ये व्यमुच्यन्त कर्णस्य प्रमादात्त इमे हताः
रथह्रदं शरवर्षोर्मिमन्तं रत्नाचितं वाजिसमाजयुक्तम्
शक्त्यृष्टिशूलध्वजनागनक्त्रं शरासनावर्तमहौघफेनम्
सङ्ग्रामचन्द्रोदयवेगवेलं द्रोणार्णवं ज्यातलनेमिघोषम्
ये तेरुरुच्चावचशस्त्रनाभिं ते राजपुत्रा निहताः प्रमादात्
न हि प्रमादात्परमस्ति कश्चिद्वधो नराणामिह जीवलोके
प्रमत्तमर्था हि नरं समन्तात्त्यजन्त्यनर्थाश्च समाविशन्ति
ध्वजोत्तमाग्रोच्छ्रितधूमकेतुं शरार्चिषं दीप्तमहापताकम्
महाधनुर्ज्यातलनेमिघोषं तनुत्रनानाविधशस्त्रवेगम्
महाचमूकक्षदवाग्निभूतं महाहवे भीष्ममहादवाग्निम्
येऽतीत्य भीमायुधतीक्ष्णवेगं ते राजपुत्रा निहताः प्रमादात्
न हि प्रमत्तेन नरेण शक्यमाप्तुं वसु श्रीर्विपुलं यशो वा
पर्याप्तमादौ विनिहत्य शत्रून्सर्वान्महेन्द्रान् सुसमेधमानान्
इन्द्रोपमान्पार्थिवपुत्रपौत्रान्पश्याविशेषेण हतान्प्रमादात्
तीर्त्वा समुद्रं वणिजस्समृद्धा मग्नाः कुनद्यामिव सीदमानाः
अमर्षितैर्ये निहता नरेन्द्रा निस्संशयं ते त्रिदिवं प्रपन्नाः
कृष्णां तु शोचामि कथं नु साध्वी शोकार्णवं साऽद्य विशक्ष्यतीति
भातॄंश्च पुत्रांश्च हतान्निशम्य पाञ्चालराजं पितरं च वृद्धम्
ध्रुवं विसञ्ज्ञा पतिता पृथिव्यां सा शोचते शोककृशाङ्गयष्टिः
तच्छोकजं दुःखमपारयन्ती कथं भविष्यत्युचिता सुखानाम्
रोरूयते ज्ञातिवधाभितप्ता प्रदह्यमानेव हुताशनेन
वैशम्पायनः-
युधिष्ठिरः-
इत्येवमार्तः परिदेवयन्स राजा कुरूणां नकुलं बभाषे
गच्छानयैनामिह मन्दभाग्याममात्यपक्षामिति राजपुत्रीम्
वैशम्पायनः-
माद्रीसुतस्तत्परिगृह्य वाक्यं धर्मेण धर्मप्रतिमस्य राज्ञः
ययौ रथेनालयमाशु देव्याः पाञ्चालराजस्य च यत्र दाराः
प्रस्थाप्य माद्रीसुतमाजमीढश्शोकार्दितस्तैस्सहितस्सुहृद्भिः
रोरूयमाणः प्रययौ सुतानामायोधनं भूतगणानुकीर्णम्
स तत्प्रविश्याशिवमुग्ररूपं ददर्श पुत्रान्सुहृदस्सखींश्च
भूमौ शयानान्रुधिरार्द्रगात्रान्विभिन्नगात्रोपहृतोत्तमाङ्गान्
स तांस्तु दृष्ट्वा भृशमार्तरूपो युधिष्ठिरो धर्मभृतां वरिष्ठः
उच्चैः प्रचुक्रोश च कौरवाग्र्यः पपात चोर्व्यां सगणो विसञ्ज्ञः