सञ्जयः-
ते हत्वा सर्वपाञ्चालान् द्रौपदेयांश्च सर्वशः
आगच्छन् सहितास्सर्वे यत्र दुर्योधनो हतः
गत्वा चैनमपश्यन्त किञ्चित्प्राणं जनाधिपम्
ततो रथेभ्यः प्रस्कन्द्य परिवव्रुस्तवात्मजम्
तं भग्नसक्थं राजानं कृच्छ्रप्राणमचेतसम्
वमन्तं रुधिरं वक्त्राद् अपश्यन् वसुधातले
वृतं समन्ताद्बहुभिश् श्वापदैर्घोररूपिभिः
सालावृकगणैश्चैव भक्षयिष्यद्भिरन्तिकात्
निवारयन्तं तान् कृच्छ्राच् छ्वापदान् सञ्चिखादिषून्
विवेष्टमानमूरुभ्यां सुभृशं गाढवेदनम्
तं शयानं तथा दृष्ट्वा भूमौ सुरुधिरोक्षितम्
हतशिष्टास्त्रयो राजञ् शोकार्ताः पर्यदेवयन्
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः
तैस्त्रिभिः शोणितादिग्धैर् निश्श्वसद्भिर्महारथैः
शुशुभे संवृतो राजा वेदिस्त्रिभिरिवाग्निभिः
ते तं शयानं सम्प्रेक्ष्य राजानमतथोचितम्
अविषह्येन दुःखेन सर्वे प्ररुरुदुस्त्रयः
ततस्ते रुधिरं हस्तैर् मुखान्निर्मृज्य तस्य ह
रणे राज्ञः शयानस्य कृपणं पर्यदेवयन्॥
कृपः-
न दैवस्यातिभारोऽस्ति यदयं रुधिरोक्षितः
एकादशचमूभर्ता शेते दुर्योधनो हतः
पश्य चामीकराभस्य चामीकरविभूषिताम्
गदां गदाप्रियस्येमां समीपे पतितां भुवि
इयमेनं गदा शूरं न जहाति रणे रणे
स्वर्गायापि व्रजन्तं हि न जहाति यशस्विनम्
पश्येमां सह वीरेण जाम्बूनदविभूषिताम्
शयानां शयने धर्म्यां भार्यां प्रीतिमतीमिव
यो वै मूर्धाभिषिक्तानाम् अग्रे याति परन्तपः
स हतो ग्रसते पांसुं पश्य कालस्य पर्ययम्
येन स्म निहता भूमौ शेरते क्षत्रियर्षभाः
स भूमौ निहतश्शेते कुरुराजः परैरयम्
भयान्नमन्तो राजानो यस्याथ शतसङ्घशः
स वीरशयने शेते क्रव्यादैः परिवारितः
यमुपासन्नृपाः पूर्वम् अर्थहेतोर्महीपतिम्
उपासन्त कौरव्यं क्रव्यादा मांसगृद्धिनः
सञ्जयः-
तं शयानं कुरुश्रेष्ठं भूमौ भरतसत्तमम्
अश्वत्थामा समालिङ्ग्य कृपणं पर्यदेवयत्
द्रौणिः-
आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्मताम्
धनाध्यक्षोपमं युद्धे शिष्यं सङ्कर्षणस्य च
कथं विवरमद्राक्षीद्भीमसेनस्तवानघ
बलिनं कृतिनो नित्यं सूदः पापात्मवान्नृप
कालो नूनं महाराज लोकेऽस्मिन्बलवत्तरः
पश्यामो निहतं त्वां च भीमसेनेन संयुगे
कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः
निकृत्या हतवान् मन्दो नूनं कालो दुरत्ययः
द्वन्द्वयुद्धे ह्यधर्मेण समाहूयौजसा मृधे
गदया भीमसेनेन सक्थिनी ते विनाशिते
अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः
यदुपेक्षितवान् क्षुद्रो धिक् तमस्तु युधिष्ठिरम्
युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम्
यावत् स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः
ननु रामोऽब्रवीद्राजंस् त्वां सदा यदुनन्दनः
दुर्योधनसमो नास्ति गदायामिति वीर्यवान्
श्लाघते त्वां हि वार्ष्णेयो राजन्संसत्सु भारत
स शिष्यो मम कौरव्यो गदायुद्ध इति प्रभो
यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयः
हतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम्
दुर्योधन न शोचामि त्वामहं पुरुषर्षभ
हतपुत्रौ तु शोचामि गान्धारीं पितरं च ते
द्वावनाथौ कृतौ वीर त्वया नाथेन वर्धितौ
भिक्षां तौ विचरिष्येते शोचन्तौ पृथिवीमिमाम्
घिगस्तु कृष्णं वार्ष्णेयम् अर्जुनं चापि दुर्मतिम्
धर्मज्ञमानिमौ यौ त्वा वध्यमानमुपेक्षताम्
पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिपान्
कथं दुर्योधनोऽस्माभिर् हत इत्यनपत्रपाः
धन्यस्त्वमसि गान्धारे यस्त्वमायोधने हतः
प्रयातोऽभिमुखश्शत्रून् धर्मेण पुरुषर्षभ
हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा
प्रज्ञाचक्षुश्च दुर्धर्षः कां दशां प्रतिपत्स्यते
धिगस्तु कृतवर्माणं मां कृपं च महारथम्
ये वयं न गतास्स्वर्गं त्वां पुरस्कृत्य भारत
दातारं सर्वकामानां रक्षितारं प्रजाहितम्
यद्वयं नाधिगच्छाम त्वां धिगस्मान् नराधमान्
कृपस्य तव वीर्येण मम चैव पितुश्च मे
सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि नः
तव प्रसादादस्माभिस् सहपुत्रैस्सबान्धवैः
अवाप्ताः क्रतवो मुख्या बहवो भूरिदक्षिणाः
कुतश्चापीदृशं सौख्यं उपलप्स्यामहे वयम्
यादृशं तु गता सौख्यं त्वां पुरस्कृत्य भूमिप
वयमेव त्रयो राजन् गच्छन्तं परमां गतिम्
यद्वै त्वां नानुगच्छामस् तेन तप्स्यामहे वयम्
यादृशा नो गतास्स्वर्गं त्वां पुरस्कृत्य भूमिप
तत्स्वर्गहीना हीनार्थास् स्मरन्तस्सुकृतानि च
किं नाम तद्भवेत् कर्म येन त्वाऽनु व्रजामहे
दुःखं नूनं कुरुश्रेष्ठ चरिष्याम महीमिमाम्
त्वद्धीनानां हि नो राजन् कुतश्शान्तिः कुतस्सुखम्
गत्वैनांस्तु महाराज समेत्य च महारथान्
यथाश्रेष्ठं यथाज्येष्ठं सम्पूज्य वचनान्मम
आचार्यं पूजयित्वा च केतुं सर्वधनुर्भृताम्
हतं मयाऽद्य शंशेथा दृष्टद्युम्नं महारथम्
परिष्वजेथा राजानं बाह्लिकं च महारथम्
सैन्धवं सोमदत्तं च भूरिश्रवसमेव च
तथा पूर्वगतानन् सर्वान् स्वर्गे पार्थिवसत्तमान्
अस्मद्वाक्यात् परिष्वज्य पृच्छेथास्ताननामयम्
सञ्जयः-
इत्येवमुक्त्वा राजानं भग्नसक्थमचेतसम्
अश्वत्थामा लघुप्राणं पुनर्वचनमब्रवीत्
दुर्योधन जीवसि चेद्वाक्यं श्रोत्रसुखं शृणु
सप्त पाण्डवतः शिष्टा धार्तराष्ट्रास्त्रयो वयम्
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः
अहं च कृतवर्मा च कृपः शारद्वतस्तथा
द्रौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः
पाञ्चाला निहताः सर्वे मत्स्यशेषं च भारत
कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः
सौप्तिके शिबिरं तेषां हतं सनरवाहनम्
मया च पापकर्माऽसौ धृष्टद्युम्नो महीपते
प्रविश्य शिबिरं रात्रौ पशुमारेण मारितः
दुर्योधनस्तु तां वाचं निशम्य मनसः प्रियाम्
प्रतिलभ्य पुनश्चेत इदं वचनमब्रवीत्
न मेऽकरोत्तद्गाङ्गेयो न कर्णो न च ते पिता
यत्त्वया कृपभोजाभ्यां सहितेनाद्य मे कृतम्
स च सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना
तेन मन्ये मघवता सममात्मानमद्य वै
स्वस्ति प्राप्नुत भद्रं वः स्वर्गे नः सङ्गमः पुनः
इत्येवमुक्त्वा पुत्रस्ते कुरुराजो महामनाः
प्राणानुपासृजद्वीरः सुहृदां दुःखमादधत्
अपाक्रामद्दिवं पुण्यां शरीरं क्षितिमाविशत्
एवं ते निधनं यातः पुत्रो दुर्योधनो नृप
अग्रे यात्वा रणे शूरः पश्राद्विनिहतः परैः
तथैव ते परिष्वक्ताः परिष्वज्य च ते नृपम्
पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान्
इत्येवं द्रोणपुत्रस्य निशम्य करुणां गिरम्
प्रत्यूषकाले शोकार्ताः प्राद्रवन्नगरं प्रति
एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः
घोरो विशसनो रौद्रो राजन्दुर्मन्त्रिते तव
तव पुत्रे गते स्वर्गं शोकार्तस्य ममानघ
ऋषिदत्तं प्रनष्टं तद्दिव्यदर्शित्वमद्य वै
वैशम्पायन उवाच
इति श्रुत्वा स नृपतिर्ज्ञातिपुत्रवधं तदा
निःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत्