धृतराष्ट्रः-
तथा प्रयाते शिबिरं द्रोणपुत्रे महारथे
कच्चित् कृपश्च भोजश्च भयार्तौ न व्यवर्तताम्
कच्चिन्न वारितौ क्षुद्रैः रक्षिभिर्नोपलक्षितौ
असह्यमिति मन्वानौ न निवृत्तौ महारथौ
प्रमथ्य शिबिरं कच्चिद्धत्वा सोमकपाण्डवान्
कृता प्रतिज्ञा सफला कच्चित् सञ्जय सा निशि
दुर्योधनस्य पदवीं कच्चित् परमिकां रणे
गत्वा तिष्ठत्यसौ द्रौणिः कृत्वा कर्म सुदुष्करम्
धृष्टद्युम्नशिखण्डिभ्यां द्रौपद्याश्च सुतैः किल
सञ्छन्ना मेदिनी सुप्तैर् निहतैः पाण्डुसैनिकैः
पाञ्चालैर्वा विनिहतैश् शयानै रुधिरोक्षितैः
कच्चिन्महीतलं छन्नं तन्ममाचक्ष्व सञ्जय
सञ्जयः-
तस्मिन् प्रयाते शिबिरं द्रोणपुत्रे महात्मनि
कृपश्च कृतवर्मा च द्रौणिमेवाभ्यवर्तताम्
अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ
प्रहृष्टश्शनकै राजन्निदं वचनमब्रवीत्
अश्वत्थामा-
यत्तौ भवन्तौ पर्याप्तौ सर्वश्स्त्रभृतामपि
किं पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः
अहं प्रविश्य शिबिरं चरिष्यामि च कालवत्
यथा न कश्चिदेतेषां जीवन् मुच्येत मानवः
तथा भवद्भ्यां कार्यं स्याद् इति मे निश्चिता मतिः
सञ्जयः-
इत्युक्त्वा प्राविशद्द्रौणिः पार्थानां शिबिरं महत्
अद्वारेणाभ्यवस्कन्द्य विनीय भयमात्मनः
स प्रविश्य महाबाहुर् उद्देशज्ञश्च तस्य हि
द्रौणिः परमसङ्क्रुद्धस् तेजसा प्रज्वलन्निव
ततः पर्यचरत् सर्वं सम्प्रसुप्तजनं निशि
धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत्
ते तु कृत्वा महत् कर्म श्रान्ताश्च बलवद्रणे
प्रसुप्ता वै सुविश्वस्तास् स्वसैन्यपरिवारिताः
अनुप्रविश्य तद्वेश्म धृष्टद्युम्नस्य भारत
पाञ्चाल्यं शयने द्रौणिर् अपश्यत् सुप्तमन्तिकात्
क्षौमावदाते महति स्पर्ध्यास्तरणसंवृते
माल्यप्रवरसंयुक्तैर् धूपैश्चूर्णैश्च वासिते
तं शयानं महात्मानं विस्रब्धमकुतोभयम्
अपोथयत पादेन शयनस्थं महीपते
स बुध्वा चरणस्पर्शाद् उत्थाय रणदुर्मदः
अभ्यजानादमेयात्मा द्रोणपुत्रं महारथम्
तमुत्पतन्तं शयनाद् अश्वत्थामा महाबलः
केशेष्वालभ्य पाणिभ्यां निष्पिपेष महीतले
स बलात् तेन निष्पिष्टस् साध्वसेन च भारत
अभ्याक्रान्तश्च निद्रान्धो न शशाक विचेष्टितुं
निष्पिष्य तु ततो भूमौ पाञ्चाल्यं द्रौणिरञ्जसा
धनुषो ज्यां विमुच्याशु क्रूरबुद्धिरमर्षणः
तस्य कण्ठेऽथ बद्ध्वा तां त्वरितः क्रोधमूर्च्छितः
द्रौणिः क्रूरं मनः कृत्वा पाञ्चाल्यमवधीत् तदा
तमाक्रम्य पदा राजन् कण्ठे चोरसि पादयोः
नदन्तं विस्फुरन्तं च पशुमारममारयत्
स वार्यमाणस्तरसा बलाद्बलवता बली
तुदन् नखैस्तथा द्रौणिं नातिव्यक्तमुदाहरत्
दृष्टद्युम्नः-
आचार्यपुत्र शस्त्रेण जहि मां मा चिरं कृथाः
त्वत्कृते सुकृताँल्लोकान्गच्छेयं द्विपदांवर
सञ्जयः-
तस्याव्यक्तां तु तां वाचं संश्रुत्य द्रौणिरब्रवीत्
द्रौणिः-
आचार्यघातिनां लोका न सन्ति कुलपांसन
तस्माच्छस्त्रेण निधनं न त्वमर्हति दुर्मते
नृशंसेनातिवृत्तेन त्वया मे निहतः पिता
तस्मात् त्वमपि वध्यस्तु नृशंसेन नृशंसवत्
सञ्जयः-
एवमुक्त्वा तु तं वीरं सिंहो मत्तमिव द्विपम्
मर्मस्वभ्यहनद्वीरं पादघातैस्सुदारुणैः
तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि
अबुध्यन्नथ राजेन्द्र दारा ये चास्य रक्षिणः
ते दृष्ट्वा धर्षयन्तं तु अतिमानुषविग्रहम्
भूतमित्यध्यवस्यन्तस् तस्मान्न व्याहरन् भयात्
तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम्
सोऽध्यतिष्ठत तेजस्वी रथं प्राप्य सुदर्शनम्
स तस्य भवनाद्राजन् निष्क्रम्यानादयन् दिशः
रथेन शिबिरं प्रायाज् जिघांसुर्द्विषतो बली
अपक्रान्ते ततस्तस्मिन् द्रोणपुत्रे महारथे
सहिता रक्षिभिस्तैस्तु प्राणेदुर्योषितस्तदा
राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः
व्याक्रोशन् क्षत्रियास्सर्वे धृष्टद्युम्नस्य भारत
तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः
समनह्यन्त सम्भ्रान्ता किमेतदिति चाब्रुवन्
स्त्रियस्तु राजन् वित्रस्ता भारद्वाजनिरीक्षिताः
अब्रुवन् दीनकण्ठेन क्षिप्रमागम्यतामिति
स्त्रियः-
राक्षसो वा मनुष्यो वा नैनं जानीम को न्वयम्
हत्वा पाञ्चालदायादं रथमारुह्य तिष्ठति
सञ्जयः-
ततस्ते योधमुख्यास्तं सहसा पर्यवारयन्
स तानापततस्सर्वान् रुद्रास्त्रेणाव्यपोथयत्
धृष्टद्युम्नं च हत्वा स तांश्चैवास्य पदानुगान्
अपश्यच्छयने सुप्तम् उत्तमौजसमन्तिके
तमप्याक्रम्य पादेन कण्ठे चोरसि तेजसा
तथैव मारयामास विचेष्टन्तमरिन्दमम्
युधामन्युस्तु विक्रान्तो मत्वा तं राक्षसं स्म सः
गदामुद्यम्य वेगेन रक्षस्येनमताडयत्
गदाप्रहाराभिहतो नाचलद्द्रौणिराहवे
तमभिद्रुत्य वेगेन क्षितौ चैनमपातयत्
विस्फुरन्तं च पशुवत् तथैवैनममारयत्
तथा स वीरो हत्वा तं ततोऽन्यान् समुपाद्रवत्
संसुप्तानेव राजेन्द्र तत्र तत्र महारथान्
पाञ्चालवीरानाक्रम्य क्रुद्धो न्यहनदन्तिके
स्फुरतस्स्फुरमाणांश्च शमितेव पशून् मखे
ततो निस्त्रिंशमादाय जघानान्यान् पृथग्जनान्
भागशो विचरन् मार्गान् असियुद्धविशारदः
तथैव गुल्मान् सम्प्रेक्ष्य शयानान् मध्यगौल्मिकान्
श्रान्तान् व्यस्तायुधान् सर्वान् असिनैव व्यपोथयत्
योधानश्वान् द्विपांश्चैव प्राच्छिनत् स वरासिना
रुधिरोक्षितसर्वाङ्गः कालसृष्ट इवान्तकः
विस्फुरद्भिश्च तैर्द्रौणिर् निस्त्रिंशस्योद्यमेन च
अवक्षेपेण चैवासेस्त्रिधा रक्तोक्षितोऽभवत्
तस्य लोहितहस्तस्य दीप्तखड्गस्य युध्यतः
अमानुष इवाकारो बभौ परमभीषणः
ये त्वजाग्रन्त कौरव्य तेन शब्देन मोहिताः
वीक्षमाणास्तु ते तत्र द्रौणिं दृष्ट्वा प्रविव्यथुः
तद्रूपं तस्य ते दृष्ट्वा क्षत्रियाश्शत्रुकर्शनाः
राक्षसं शङ्कमानास्तु नयनानि न्यमीलयन्
स घोररूपो व्यचरत् कालवच्छिबिरे तदा
अपश्यद्द्रौपदीपुत्रान् अवशिष्टान् ससोमकान्
तेन शब्देन वित्रस्ता धनुर्हस्ता महारथाः
धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशाम्पते
अवाकिरञ् शरव्रातैर् भारद्वाजं समन्ततः
ततस्तेन निनादेन सम्प्रबुद्धाः प्रभद्रकाः
शिलीमुखैश्शिखण्डी च द्रोणपुत्र मदारयन्
भारद्वाजस्तु तान् दृष्ट्वा शरवर्षाणि वर्षतः
ननाद बलवन्नादं जिघांसुस्तान् सुदुर्जयान्
ततः परमसङ्क्रुद्धः पितुर्वधमनुस्मरन्
अवतीर्य रथोपस्थान् त्वरमाणोऽभिदुद्रुवे
सहस्रचन्द्रविमलं गृहीत्वा चर्म संयुगे
खड्गं च विमलं दिव्यं जातरूपपरिष्कृतम्
द्रौपदेयानभिद्रुत्य खड्गेन व्यधमद्बली
ततस्स नरशार्दूलः प्रतिविन्ध्यं तमाहवे
कुक्षिदेशेऽहनद्राजन् स हतो न्यपतद्भुवि
प्रासेन तु ततो द्रौणिं सुतसोमो ह्यताडयत्
प्रासप्रहारं तु तदा विगृह्य द्रौणराहवे
सुतसोमस्य सासिं तं बाहुं चिच्छेद मारिष
पुनश्चाप्यहनत् पार्श्वे स भिन्नहृदयोऽपतत्
नाकुलिस्तु शतानीको रथचक्रेण वीर्यवान्
दोर्भ्यामुत्क्षिप्य वेगेन वक्षस्येनमताडयत्
अताडयच्छतानीकं मुक्तचक्रं द्विजस्तु सः
स विह्वलो ययौ भूमिं ततोऽस्यापाहरच्छिरः
श्रुतकर्मा तु परिघं घोरं गृह्य दुरासदम्
अताडयत् समुद्यम्य वेगेन द्रौणिमुत्स्मयन्
स तु तं श्रुतकर्माणम् आस्येऽभ्यघ्नद्वरासिना
स हतो न्यपतद्भूमौ विमूर्धा विकृताननः
तेन शब्देन वीरस्तु श्रुतकीर्तिर्महद्धनुः
अश्वत्थामानमासाद्य शरवर्षैरवाकिरत्
शरैराच्छादितस्तेन द्रोणपुत्रो महारथः
अदृश्यत महाराज श्वाविच्छललतो यथा
तस्यापि शरवर्षाणि चर्मणा प्रतिवार्य सः
सकुण्डलं शिरः कायाद् भ्राजमानमपाहरत्
ततो भीष्मनिहन्तारं सह सर्वैः प्रभद्रकैः
अभ्यघ्नत् सर्वतो वीरं नानाप्रहरणैर्बलात्
शिलीमुखेन चाप्येनं भ्रुवोर्मध्ये समार्पयत्
स तु क्रोधसमाविष्टो द्रोणपुत्रो महारथः
शिखण्डिनं समासाद्य द्विधा चिच्छेद सोऽसिना
शिखण्डिनं ततो हत्वा क्रोधाविष्टः परन्तपः
प्रभद्रकगणान्सर्वानभिदुद्राव वेगवान्
यच्च शिष्टं विराटस्य बलं तु भृशमाद्रवत्
द्रुपदस्य च पुत्राणां पौत्राणां सुहृदां तथा
चकार कदनं घोरं दृष्ट्वा तत्र महाबलः
अन्यानन्यांश्च पुरुषान् अभिसृत्याभिसृत्य च
न्यकृन्तदसिना द्रौणिर् असिमार्गविशारदः
कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम्
रक्ताम्बरधरां घोरां पाशहस्तां शिखण्डिनीम्
ददृशुः कालरात्रिं ते स्मयमानामिव स्थिताम्
नराश्वकुञ्जरान् पाशैर् बद्ध्वा घोरैश्च तिष्ठतीम्
हरन्तीं विविधान् प्रेतान् पाशबद्धान् विकेशकान्
तथैव च महाराज न्यस्तशस्त्रान् महारथान्
स्वप्ने सुप्तान् नयन्तीं तां रात्रिष्वन्यासु मारिष
ददृशुर्योधमुख्यास्ते घ्नन्तं द्रौणिं तु नित्यदा
यतः प्रवृत्तस्सङ्ग्रामः कुरुपाण्डवसेनयोः
ततः प्रभृति तां कन्यामपश्यन् द्रौणिमेव च
ततो दैवहतान् पूर्वं पश्चाद्द्रौणिर्व्यपातयत्
त्रासयन् सर्वभूतानि व्यनदनद्भैरवं रवम्
तदनुस्मृत्य ते वीरा दर्शनं पौर्वकालिकम्
इदं तदित्यमन्यन्त दैवेनोपनिपीडिताः
ततस्तेन निनादेन प्रत्यबुध्यन्त धन्विनः
शिबिरे पाण्डवेयानां शतशोऽथ सहस्रशः
सोऽच्छिनत् कस्यचित् पदौ जघनं चापि कस्यचित्
कांश्चिद्बिभेद पार्श्वेषु कालसृष्ट इवान्तकः
अत्युग्रप्रतिपिष्टैश्च विनदद्भिर्भृशातिरैः
गजाश्वमनुजैश्चार्तैर् मही कीर्णाऽभवत् प्रभो
क्रोशतां किमिदं कोऽयं किं शब्दः किं नु किं कृतम्
पाञ्चालानां तथा द्रौणिर् अन्तकस्समपद्यत
अपेतशस्त्रसन्नाहान् संरब्धान् पाण्डुसैनिकान्
प्राहिणोन्मृत्युलोकाय द्रौणिः प्रहरतां वरः
ततस्तच्छस्त्रवित्रस्ता भयादभ्यपतन् नराः
निद्रान्धा नष्टसञ्ज्ञाश्च तत्र तत्र निपेतिरे
ऊरुस्तम्भगृहीताश्च कश्मलाभिहतौजसः
विनदन्तो भृशं त्रस्ता निरैक्षन्त परस्परम्
ततो रथं पुनर्द्रौणिरास्थितो भीमदर्शनः
धनुष्पाणिश्शरैरन्यान् प्रैषयद्यमसादनम्
पुनरुत्पतितः कांश्चिद् दूरादापततो नरान्
शूरानुत्पततश्चान्यान् कालरात्र्यै न्यवेदयत्
तथैव स्यन्दनाग्रेण प्रमथन् स व्यरोचत
शरवर्षैश्च विविधैस् स शत्रूनभ्यवर्तत
पुनश्च कांश्चिच्छस्त्रेण शतचन्द्रेण चर्मणा
तेन चाकाशवर्णेन तथाचरत सोऽसिना
स तथा शिबिरं तेषां द्रौणिराहवदुर्मदः
व्यक्षोभयत राजेन्द्र महाह्रदमिव द्विपः
उत्पेतुस्तेन शब्देन योधा राजन्विचेतसः
निद्रार्ताश्च भयार्ताश्च व्यधावन्त ततस्ततः
विस्वरं चुक्रुशुश्चान्ये बह्वबद्वं तथाऽवदन्
न च स्म प्रत्यपद्यन्त शस्त्राणि वसनानि च
विमुक्तकेशाश्चाप्यन्ये नाभ्यजानन् परस्परम्
उत्पतन्तः परे भीताः केचित् तत्र प्रिभ्रमन्
पुरीषाण्युसृजन् केचित् केचिन्मूत्रं प्रसुस्रुवुः
बन्धनानि च राजेन्द्र सञ्छिद्य तुरगद्विपाः
सर्वे पर्यपतंश्चान्ये कुर्वन्तो महदाकुलम्
तत्र केचिन्नरा भीता न्यपतन्त महीतले
तथैव पतिता भूमौ न्यषीदन् गजवाजिनः
तस्मिंस्तथा वर्तमाने रक्षांसि भरतर्षभ
दृप्तानि व्यनदन्नुच्चैर् मुदा युक्तानि सत्तम
स शब्दः प्रेरितो राजन् भूतसङ्घैर्मुदा युतैः
अपूरयद्दिशस्सर्वा दिवं चातिमहास्वनः
तेषामार्तस्वरं श्रुत्वा वित्रस्ता गजवाजिनः
मुक्ताः पर्यपतन् राजन् मृद्गन्तश्शिबिरे जनम्
तैस्तथा परिधावद्भिश् चरणोदीरितं रजः
अकरोच्छिबिरे तेषां रजन्यां द्विगुणं तमः
तस्मिंस्तमसि सञ्जाते प्रमूढास्सर्वतो जनाः
नाजानन् पितरः पुत्रान् भ्रातॄन् भ्रातर एव च
गजो गजानतिक्रम्य निर्मनुष्या हयो हयान्
अताडयंस्तथाऽमृद्नंस् तथाऽभञ्जंश्च भारत
ते भग्नाः प्रपतन्ति स्म मृद्नन्तश्च परस्परम्
न्यपातयंस्त्वथ रथान् पातयित्वाऽप्यपीपिषन्
विचेतसस्सनिद्राश्च तमसा चावृता नराः
स्वानेव जघ्निरे मूढाः कालेनाभिप्रचोदिताः
त्यक्त्वा द्वाराणि च द्वास्थास् तथा गुल्मानि गौल्मिकाः
प्राद्रवन्त यथाशक्ति ते तत्रैव विचेतसः
विप्रनष्टाश्च नान्योन्यं अजानन्त तथा विभो
क्रोशन्तस्तात पुत्रेति दैवोपहतचेतसः
पलायन्त दिशस्ते वै तानप्युत्सृज्य बान्धवान्
गोत्रनामभिरन्योन्यम् आक्रन्दन्त ततो जनाः
हाहारवांस्तु कुर्वाणाः पृथिव्यां शेरते परे
तान् बुद्ध्वा रणमध्येऽसौ द्रोणपुत्रो व्यपोथयत्
अपरे तत्र वध्यन्तो मुहुर्मुहुरचेतसः
शिबिरान्निष्पतन्ति स्म क्षत्रिया भयपीडिताः
तांस्तु निष्पतितांस्त्रस्ताञ् शिबिराज्जीवितैषिणः
कृतवर्मा कृपश्चैव द्वारदेशे निजघ्नतुः
विशस्तशस्त्रकवचान् मुक्तकेशान् कृताञ्जलीन्
वेपमानान् क्षितौ भीतान् नैव कांश्चिद्व्यमुञ्चताम्
नामुच्यत तदा कश्चिन्निष्क्रान्तश्शिबिराद्बहिः
कृपस्य च महाराज हार्दिक्यस्य च धीमतः
भूयश्चैव चिकीर्षन्तौ द्रोणपुत्रस्य तौ प्रियम्
त्रिषु देशेषु ददतुश् शिबिरस्य हुताशनम्
ततः प्रकाशे शिबिरे खड्गेन पितृनन्दनः
अश्वत्थामा महाराज व्यचरत्कृतहस्तवत्
कांश्चिद्योधान् स खड्गेन मध्ये सञ्छिद्य वीर्यवान्
अपातयद्द्रोणसुतो सञ्छिन्दंस्तिलकाण्डवत्
कांश्चिदापततो वीरान् अपरांश्च प्रधावतः
व्ययोजयत खड्गेन प्राणैर्द्रौणिः कृतान्तवत्
विनदद्भिर्भृशायस्तैर् नराश्वद्विपसत्तमैः
पतितैरभवत् कीर्णा मेदिनी भरतर्षभ
मानुषाणां सहस्रेषु हतेषु पतितेषु च
उदतिष्ठन् कबन्धानि बहून्युत्थाय चापतन्
साङ्गदान् सायुधान् बाहून् विचकर्त शिरांसि च
हस्तिहस्तोपमानूरून् हस्तान् पादांश्च भारत
पृष्ठच्छिन्नान् शिरश्च्छिन्नान् पार्श्वछिन्नांस्तथाऽपरान्
समासाद्याकरोद्द्रौणिः कांश्चिच्चापि पराङ्मुखान्
मध्यकाये नरांश्छिन्नान चिच्छेदान्यांश्च कण्ठतः
अंसदेशे तत्रान्यान् काये प्रावेशयच्छिरः
एवं हि बहुश्स्तत्र निघ्नतो बलवत्तरान्
तमसा रजनी घोरा बभौ दारुणदर्शना
किञ्चित्प्राणैश्च पुरुषैर् हतैश्चान्यैस्सहस्रशः
बहुना च गजाश्वेन भूरभूद्भीमदर्शना
वर्धयन्तो भयं घोरं नराश्वद्विरदे रणे
क्रुद्धेन द्रोणपुत्रेण सञ्छिन्नाः प्रापतन् भुवि
केचिदूचुर्नराः क्रुद्धैर् धार्तराष्ट्रैः कृतं रणे
मातॄश्चान्ये पितॄंश्चान्ये भ्रातॄश्चान्ये च चुक्रुशुः
नराः-
यत्नः कृतः प्रसुप्तानां रक्षोभिर्भीमकर्मभिः
असान्निध्याद्धि पार्थानामिदं वः कदनं कृतम्
न देवासुरगन्धर्वैर् न यक्षैर्न च राक्षसैः
शक्यो जेतुं हि कौन्तेयो नेता यस्य जनार्दनः
ब्रह्मण्यस्सत्यवाग्दान्तस् सर्वभूतानुकम्पनः
न च सुप्तं प्रमत्तं वा न्यस्तशस्त्रं कृताञ्जलिम्
धावन्तं मुक्तकेशं च हन्यात् पार्थो धनञ्जयः
सञ्जयः-
तदिदं नः कृतं घोरं रक्षोभिः क्रूरकर्मभिः
इति लालप्यमानास्तु शेरते बहवो जनाः
स्तनतां च मनुष्याणाम् अपरेषां च कूजताम्
ततो मुहूर्तात् प्राशाम्यत् स शब्दस्तुमुलो महान्
शोणितव्यतिषिक्तायां वसुधायां नराधिप
तद्रजस्तुमुलं राजन् क्षणेनान्तरधीयत
संवेष्टमानानुद्विग्नान् निरुत्साहान् सहस्रशः
न्यपातयन्नरान् क्रुद्धः पशून् पशुपतिर्यथा
अन्योन्यं सम्परिष्वज्य शयानाञ्जीवतोऽपरान्
संलीनान् द्रवतश्चापि सर्वान् द्रौणिरपोथयत्
हुताशनेन दह्यन्ते वध्यन्ते द्रौणिना परे
परस्परं तदा योधा गमयन् यमसादनम्
तस्या रजन्यास्त्वर्धेन पाण्डवानां महद्बलम्
गमयामास राजेन्द्र द्रौणिर्यमनिवेशनम्
निशाचराणां सत्वानां रात्रिस्सा हर्षवर्धिनी
आसीन्नरगजाश्वानां रौद्रा क्षयकरी भृशम्
तत्रादृश्यन्त रक्षांसि पिशाचाश्च पृथग्विधाः
खादन्ते परमांसानि पिबन्तश्शोणितानि च
करालाः पिङ्गला रौद्राश् शैलदन्ता रजस्वलाः
जटिला भीमवक्त्राश्च पञ्चपादा महोदराः
पश्चादङ्गुलयो रूक्षा विरूपा भैरवस्वनाः
गजाननातिह्रस्वाश्च नीलवर्णा विभीषणाः
सपुत्रदारास्सुक्रूराः कान्दिशीकास्सुनिर्घृणाः
विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम्
पीत्वा च शोणितं हृष्टाः प्रानृत्यन् गणशोऽपरे
इदं परमिदं मेध्यम् इदं स्वाद्विति चाब्रुवन्
मेदोमज्जास्थिरक्तानां मांसानां च भृशाशिताः
वरमांसानि खादन्तः क्रव्यादा मांसगर्धिनः
वसाश्चाप्यपरे पीत्वा पर्यधावन् विकुक्षिकाः
नानावक्त्रास्तथा रौद्राः क्रव्यादाः पिशिताशनाः
अयुतानि च तत्रासन् प्रयुतान्यर्बुदानि च
रक्षसां घोररूपाणां महतां घोरकर्मणाम्
मुदितानां वितृप्तानां तस्मिन् महति वैशसे
समेतानि बहून्यासन् भूतानि च जनाधिप ||
एवंविधा हि सा रात्रिः सोमकानां जनक्षये
प्रसुप्तानां प्रमत्तानामासीत् सुभृशदारुणा
असंशयं च कालस्य पर्यायो दुरतिक्रमः
तादृशा निहता यत्र कृत्वाऽस्माकं जनक्षयम्
धृतराष्ट्रः-
प्रागेव सुमहत् कर्म द्रौणिरेतन्महाबलः
नाकरोदीदृशं कस्मान्मत्पुत्रविजये धृतः
अथ कस्माद्धते क्षत्रे कर्मेदं कृतवानसौ
द्रोणपुत्रो महेष्वासस् तन्मे शंसितुमर्हसि
सञ्जयः-
तेषां नूनं भयान्नासौ कृतवान्कुरुसत्तम
असान्निध्ये तु पार्थानां केशवस्य च धीमतः
सात्यकेश्चापि कर्मेदं द्रोणपुत्रेण साधितम्
को हि तेषां समक्षं तान् हन्यादपि मरुत्पतिः
एतदीदृशकं राजन् वृत्तं सुप्तजने विभो
ततो जनक्षयं कृत्वा पाण्डवानां महात्ययम्
प्रत्यूषकाले शिबिरात् प्रतिगन्तुमियेष सः
नृशोणितावसिक्तस्य द्रौणेरासीदसित्सरुः
पाणिना सह संश्लिष्ट एकीभूत इव प्रभो
स निश्शेषानरीन् कृत्वा विरराम निशाक्षये
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः
यथाप्रतिज्ञं तत् कर्म कृत्वा द्रौणायनिः प्रभो
दुर्गमां पदवीं कृत्वा पितुरासीद्गन्तव्यथः
यथैव संसुप्तजने शिबिरे प्राविशन्निशि
तथैव हत्वा निःशब्दं निश्चक्राम महारथः
निष्क्रम्य शिबिरात् तस्मात् ताभ्यां सम्मन्त्र्य वीर्यवान्
आचख्यौ कर्म तत्ताभ्यां हृष्टस्संहर्षयन्विभो
तौ स्म व्याचख्यतुस्तस्मै प्रियं प्रियकरौ तदा
पाञ्चालान् सृञ्जयांश्चैव विनिकृत्तान् सहस्रशः
प्रीत्या चोच्चैरुदक्रोशंस् तथैवास्फोटयंस्तलान्
दिष्ट्या दिष्ट्येति चान्योन्यं समेत्योचुर्महारथाः
परिष्वज्य ततो द्रौणिस् ताभ्यां च प्रतिनन्दितः
इदं हर्षाच्च सुमहद् आददे वाक्यमुत्तमम्
द्रौणिः-
पाञ्चाला निहतास्सर्वे द्रौपदेयाश्च सर्वशः
सोमका मत्स्यशेषाश्च सर्वे विनिहता मया
इदानीं कृतकृत्यास्स्म यामस्तत्रैव मा चिरम्
यदि जीवति नो राजा तस्मै शंसामहे प्रियम्