सञ्जयः-
एवं सञ्चिन्तयित्वा तु द्रोणपुत्रो विशाम्पते
अवतीर्य रथोपस्थाद् दध्यौ सम्प्रयतस्स्थितः
द्रौणिः-
उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरम्
गिरिशं वरदं देवं भवं भावनमव्ययम्
शितिकण्ठमजं रुद्रं कृशं क्रतुहरं हरम्
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम्
श्मशाननिलयं दृप्तं महागणपतिं विभुम्
खट्वाङ्गधारिणं मुण्डं जटिलं ब्रह्मचारिणम्
मनसा ह्यनुचिन्त्यैनं दुष्करेणाल्पचेतसा
अद्य भूतोपहारेण यक्ष्येऽहं त्रिपुरान्तकम्
स्तुतं स्तुत्यं स्तूयमानम् अमोघं चर्मवाससम्
विलोहितं नीलकण्ठं सुसूक्ष्मं दुर्निवारणम्
शुक्रं विश्वसृजं ब्रह्म ब्रह्मचारिणमेव च
व्रतपन्तं तपोनित्यं अनन्तं तपतां गतिम्
बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम्
धनाध्यक्षप्रियसखं गौरीहृदयवल्लभम्
कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम्
कृत्तिवाससमत्युग्रम् उमाभूषणतत्परम्
परं परेभ्यः परमं परं यस्मान्न विद्यते
इष्वस्त्रोत्तमभर्तारं दिगन्तं देशरक्षणम्
हिरण्यदण्डकवचं चारुमौलिविभूषणम्
प्रपद्ये शरणं देवं परमेण समाधिना
इमां चेदापदं घोरां तराम्यद्य सुदुस्तराम्
सर्वभूतोपहारेण यक्ष्येऽहं शुचिना शुचिम्
सञ्जयः-
इति तस्य व्यवसितं ज्ञात्वा त्यक्त्वाऽऽत्मकर्मणः
पुरस्तात् काञ्चनी वेदी प्रादुरासीन्महात्मनः
तस्यां वेद्यां तदा राजंश् चित्रभानुरजायत
स दिशो विदिशः खं च ज्वालाभिरभिपूरयन्
दीप्तास्यनयनाश्चासन् नैकपादशिरोधराः
द्विपाः शैलप्रतीकाशाः प्रादुरासन्महागणाः
श्ववराहोष्ट्ररूपाश्च हयगोमायुगोमुखाः
ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास्तथा
काकवक्त्राः प्लुवमुखाश् शुकवक्त्रास्तथैव च
महागजसवक्त्राश्च हंसवक्त्रास्सितप्रभाः
दार्वाघाटमुखाश्चापि चापवक्त्रातथैव च
कूर्मनक्रमुखाश्चैव शिंशुमारमुखास्तथा
महामकरवक्त्राश्च तिमिवक्त्राश्च भारत
हरिवक्त्राः क्रौञ्चमुखाः कपोताहिमुखास्तथा
पारावतमुखाश्चैव कङ्कवक्त्रास्तथैव च
फणिवक्त्रास्सहस्राक्षास् तथैव च शतोदराः
निर्मांसाः काकवक्त्राश्च श्येनवक्त्राश्च भारत
तथैवाशिरसो राजन्नृक्षवक्त्राश्च भीषणाः
प्रदीप्तजिह्वनेत्रास्या ज्वालावर्णास्तथैव च
ज्वालाकेशाश्च राजेन्द्र ज्वलाश्रयचतुर्भुजाः
मेषवक्त्रास्तथाऽन्ये च तथाच्छागमुखा नृप
शङ्खाभाश्शङ्खवर्णाश्च शङ्खवक्त्रास्तथैव च
शङ्खमालापरिकराश् शङ्खध्वनिसमस्वनाः
जटाधराः पञ्चशिखास् तथा मुण्डाः कृशोदराः
चतुर्दंष्ट्राश्चतुर्जिह्वाश् शङ्कुकर्णाः किरीटिनः
मौञ्जीधराश्च राजेन्द्र तथा कुञ्चितमूर्धजाः
उष्णीषिणो मुकुटिनश् चारुवक्त्रास्स्वलङ्कृताः
पद्मोत्पलापीडधरास् तथा कुमुदधारिणः
माहात्म्येन च संयुक्ताश् शतशोऽथ सहस्रशः
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः
मुसुण्ठीपाशहस्ताश्च गदाहस्ताश्च भारत
पृष्ठेषु बद्धेषुधयश् चित्रचापा रणोत्कटाः
सध्वजास्सपताकाश्च सघण्टास्सपरश्वथाः
महापाशोद्यतकरास् तथा लगुडपाणयः
स्थूणाहस्ताः खड्गहस्ताः सर्पोच्छ्रितकिरीटिनः
महासर्पाङ्गदधराश् चित्राभरणधारिणः
रजोध्वस्ताः पङ्कदिग्धास् सर्वे चित्राम्बरस्रजः
नीलाङ्गाः कमलाङ्गाश्च मुण्डवक्त्रास्तथैव च
भेरीशङ्खमृदङ्गांस्ते झर्झरानकगोमुखान्
अवादयन् पारिषदास् संहृष्टाः कनकप्रभाः
गायमानास्तथैवान्ये संहृष्टाः पुरुषर्षभाः
लङ्घयन्तः प्लवन्तश्च वल्गन्तश्च महारथाः
धावन्तो जवनाश्चण्डाः पावकोद्धूतमूर्धजाः
मत्ता इव महानागा विनदन्तो मुहुर्मुहुः
सुभीमा घोररूपाश्च शूलपट्टसपाणयः
विरागश्चित्रवसनाश् चित्रमाल्यानुलेपनाः
रत्नचित्राङ्गदधरास् समुद्यतकरास्तथा
हन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः
पातारोऽसृग्वसौघानां मांसान्त्रकृतभोजनाः
चूडालाः कर्णिकाराश्च प्रकृशा मन्थरोदराः
अतिह्रस्वातिदीर्घाश्च प्रलम्बाश्चातिभैरवाः
विकटाः काललम्बोष्ठा बृहच्छेफाण्डपिण्डकाः
महार्हनानामकुटा मुण्डाश्च जटिलाः परे
सार्केन्दुग्रहनक्षत्रां द्यां कुर्युस्ते महीतले
उत्सहेरंश्च ये हन्तुं भूतग्रामं चतुर्विधम्
ये च वीतभया नित्यं हरस्य भ्रुकुटीसहाः
कामकारकरास्सिद्धास् त्रैलोक्यस्येश्वरेश्वराः
नित्यानन्दाः प्रमुदिता वागीशा वीतमत्सराः
प्राप्याष्टगुणमैश्वर्यं ये न यान्ति च विस्मयम्
येषां विस्मयते नित्यं कर्मभिर्भगवान् भवः
मनोवाक्कर्मभिर्युक्तैर् नित्यमाराधितश्च यैः
मनोवाक्कर्मभिर्भक्तान् पाति पुत्रानिवौरसान्
पिबन्तोऽसृग्वसाश्चान्ये क्रुद्धा ब्रह्मद्विषां सदा
चतुर्विधात्मकं सोमं ये पिबन्ति च नित्यदा
श्रुतेन ब्रह्मचर्येण तपसा च दमेन च
ये समाराध्य शूलाङ्कं भवसायुज्यमागताः
यैरात्मभूतैर्भगवान् पार्वत्या च महेश्वरः
सह भूतगणैर्भुङ्क्ते भूतभव्यभवत्प्रभुः
नानावादित्रहसितैः क्ष्वेलितोत्कृष्टगर्जितैः
सन्नादयन्तस्ते विश्वम् अश्वत्थामानमभ्ययुः
संस्तुवन्तो महादेवं हाकुर्वाणास्सुवर्चसः
विवर्धयिषवो द्रौणेर् महिमानं महात्मनः
जिज्ञासमानास्तत्तेजस् सौप्तिकं च दिदृक्षवः
भीमोग्रपरिघालातशूलपट्टसपाणयः
घोररूपास्समाजग्मुर् भूतसङ्घास्सहस्रशः
जनयेयुर्भयं ये हि त्रैलोक्यस्यापि दर्शनात्
न तु तान् प्रेक्षमाणोऽपि व्यथामुपजगाम ह
अथ द्रौणिर्धनुष्पाणिर् बद्धगोधाङ्गुलित्रवान्
स्वयमेवात्मनाऽऽत्मानम् उपहारमुपाहरत्
धनूंषि समिधस्तत्र पवित्राणि सिताश्शराः
हविरात्मवतश्चात्मा तस्मिन् भारत कर्मणि
ततस्सोमेन मन्त्रेण द्रोणपुत्रः प्रतापवान्
उपहारं महामन्युर् अथात्मानमुपाहरत्
तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिरच्युतम्
अभिष्टूय महात्मानम् इत्युवाच कृताञ्जलिः
द्रौणिः-
इममात्मानमद्याहं जातमाङ्गिरसे कुले
स्वग्नौ जुहोमि भगवन् प्रतिगृह्णीष्व मां बलिम्
तव भक्त्या महादेव परमेण समाधिना
अस्यामापदि विश्वात्मन्नुपाकुर्मि महाव्रतः
त्वयि सर्वाणि भूतानि सर्वभूतेषु चासि वै
गुणानां तु प्रधानानाम् एकत्वं त्वयि तिष्ठति
सर्वभूताशय विभो हविर्भूतमवस्थितम्
प्रतिगृहाण मां देव यद्यशक्याः परे मया
सञ्जयः-
इत्युक्त्वा द्रौणिरास्थाय तां वेदीं दीप्तपावकाम्
सन्त्यज्यात्मानमारुह्य कृष्णवर्त्मन्युपाविशत्
तमूर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविरुपस्थितम्
अब्रवीद्भगवान् साक्षान्महादेवो हसन्निव
महेश्वरः-
सत्यशौचार्जवत्यागैस्तपसा नियमेन च
क्षान्त्या भक्त्या च धृत्या च कर्मणा मनसा गिरा
यथावदहमाराध्यः कृष्णेनाक्लिष्टकर्मणा
तस्मादिष्टतमः कृष्णाद् अन्यो मम न विद्यते
कुर्वता तस्य सम्मानं त्वां च जिज्ञासता मया
पाञ्चालास्सर्वदा गुप्ता मायाश्च बहुशः कृताः
ततस्तस्यैव मानार्थं पाञ्चाला रक्षिता मया
अभिभूतास्तु कालेन नैषामद्यास्ति जीवितम्
सञ्जयः-
एवमुक्त्वा महेष्वासं भगवानात्मनस्तनुम्
आविवेश ददौ चास्मै विमलं खड्गमुत्तमम्
अथाविष्टो भगवता भूयो जज्वाल तेजसा
वेगवांश्चाभवद्युद्धे देवसृष्टेन तेजसा
तं दृष्ट्वा सर्वभूतानि राक्षसाश्च समाद्रवन्
अभितशिबिरं यान्तं द्रोणपुत्रं महारथम्
देवदेवं हरं स्थाणुं यान्तं साक्षादिवेश्वरम्