धृतराष्ट्रः-
द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौ
अकुर्वतां भोजकृपौ किं सञ्जय वदस्व मे
सञ्जयः-
कृतवर्माणमामन्त्र्य कृपं च स महारथः
द्रौणिर्मन्युपरीतात्मा शिबिरद्वारमासदत्
तत्र भूतं महाकायं चन्द्राग्निसमवर्चसम्
सोऽपश्यद्द्वारमावृत्य तिष्ठन्तं रोमहर्षणम्
वसानं चर्म वैयाघ्रं वसारुधिरविस्रवम्
कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम्
बाहुभिस्स्वायतैर्भीमैर् नानाप्रहरणोद्यतैः
बद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम्
दंष्ट्राकरालवदनं व्यादितास्यं भयावहम्
नयनानां सहस्रैश्च विविधैरभिभूषितम्
नैव तस्य वपुश्शक्यं प्रवक्तुं वेष एव च
सर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः
तस्यास्यान्नासिकायाश्च श्रवणाभ्यां च भारत
तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन् महार्चिषः
तथा तेजोमरीचिभ्यश् शङ्खचक्रगदायुधाः।
प्रादुरासन् हृषीकेशाश् शतशोऽथ सहस्रशः
तदत्यद्भुतमालोक्य सर्वभूतभयङ्करम्
द्रौणिरव्यथितो दिव्यैर् अस्त्रवर्षैरवाकिरत्
द्रौणिमुक्ताञ् छितान् बाणान् तद्भूतं महदग्रसत्
उदधेरिव वार्योघान् पावको बडबामुखः
अग्रसत् तांस्तथाभूतान् द्रौणिना प्रहिताञ् शरान्
अश्वत्थामा तु सम्प्रेक्ष्य ताञ् शरौघान् निरर्थकान्
रथशक्तिं मुमोचास्मै दीप्तामग्निशिखोपमाम्
सा तदाहत्य दीप्ताग्रा रथशक्तिरदीर्यत
युगान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता
अथ हेमत्सरुं दिव्यं खड्गमाकाशवर्चसम् |
कोशात् समुद्बबर्हाशु बिलाद्दीप्तमिवोरगम्
स तं खड्गवरं धीमान् भूताय प्राहिणोत् तदा
स तदासाद्य वै भूतं विलयं तूलवद्ययौ
ततस्स कुपितो द्रौणिर् इन्द्रकेतुनिभां गदाम्
ज्वलन्तीं प्राहिणोत् तस्मै भूतं तामपि चाग्रसत्
ततस्सर्वायुधाभावे वीक्षमाणस्ततस्ततः
अपश्यत् कृतमाकाशम् अनाकाशं जनार्दनैः
तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः
अचिन्तयत् सुसन्त्रस्तः कृपभोजवचस्स्मरन्
द्रौणिः-
ब्रुवतामप्रियं पथ्यं सुहृदां न शृणोति यः
स शोचत्यापदं प्राप्य यथाऽहमवमत्य तौ
शास्त्रदृष्टमविज्ञाय समतीत्य जिघांसति
स पथः प्रच्युतो धर्म्याद् विपथे प्रतिहन्यते
गोब्राह्मणनृपस्त्रीषु सख्युर्भातुर्गुरोस्तथा
वृद्धबालजडान्धेषु सुप्तभीतोत्थितेषु च
मत्तोन्मत्तप्रमत्तेषु न च शस्त्रं प्रयोजयेत्
इत्येवं गुरुभिः पूर्वम् उपदिष्टं नृणां सदा
सोऽहमुत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम्
अमार्गेणैवमारब्धो घोरां तरितुमापदम्
तां चापदं घोरतरां प्रवदन्ति मनीषिणः
यदुद्यम्य महत् कृत्यं भयादिह निवर्तते
अशक्यं चैव कः कर्तुं शक्तश्शक्तिबलादिह
न हि दैवाद्गरीयो वै मानुष्यं किञ्चिदिष्यते
मानुष्यं कुर्वतः कर्म यदि दैवान्न सिध्यति
स पथः प्रच्युतो धर्म्याद् विपथे प्रतिहन्यते
प्रतिघातं ह्यविज्ञानं प्रवदन्ति मनीषिणः
यदारभ्य क्रियां काञ्चिद् भयादिह निवर्तते
तदिदं दुष्प्रणीतेन भयं मां समुपस्थितम्
न हि द्रोणसुतस्सङ्ख्ये निवर्तेत कथञ्चन
इदं च सुमहद्भूतं दैवदण्डमिवोद्यतम्
न चैतदभिजानामि चिन्तयन्नपि सर्वथा
ध्रुवं येयमधर्मेण प्रहिता कलुषा मतिः
तस्याः फलमिदं घोरं प्रतिघाताय कल्पते
तदिदं दैवविहितं मम सङ्ख्ये निवर्तनम्
नान्यत्र दैवादुद्यन्तुम् इह शक्यं कथञ्चन
सोऽहमद्य महादेवं प्रपद्ये शरणं प्रभुम्
दैवदण्डमिमं घोरं स हि मे नाशयिष्यति
कपर्दिनं प्रपद्येऽहं देवदेवमुमापतिम्
कपालमालिनं रुद्रं भगनेत्रहरं हरम्
स हि देवोऽत्यगाद्देवांस् तपसा विक्रमेण च
तस्माच्छरणमभ्येष्ये गिरिशं शूलपाणिनम्॥