सञ्जयः-
कृपस्य वचनं श्रुत्वा धर्मार्थसहितं हितम्
अश्वत्थामा महाराज दुःखशोकसमन्वितः
दह्यमानस्तु शोकेन प्रदीप्तेनाग्निना यथा
क्रूरं मनस्तथा कृत्वा तावुभौ प्रत्यभाषत
द्रौणिः-
पुरुषे पुरुषे बुद्धिस् सा सा भवति शोभना
तुष्यन्ति च पृथक्सर्वे प्रज्ञया तु स्वया स्वया
सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम्
सर्वस्यात्मा बहुमतस् सर्वोऽत्मानं प्रशंसति
सर्वस्य तु स्वका प्रज्ञा साधुवादे प्रतिष्ठिता
परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत्
कारणान्तरयोगेन येषां संवदते मतिः
तेऽन्योन्येन च तुष्यन्ति बहुमन्यन्ति चासकृत्
तस्यैव तु मनुष्यस्य सा सा बुद्धिस्तथा तथा
कालयोगविपर्यासं प्राप्यान्योन्यं विपद्यते
अनित्यत्वात्तु चित्तानां मनुष्याणां विशेषतः
चित्तवैकल्यमासाद्य सा सा मतिरजायत
यथा हि वैद्यः कुशलो व्याधिं ज्ञात्वा यथाविधि
भेषजं कुरुते योगात् प्रशमार्थमिहाभिभो
एवं कार्यस्य योगार्थं बुद्धिं कुर्वन्ति मानवाः |
प्रज्ञया च स्वया युक्त्या तां च गृह्णन्ति वै बुधाः
अन्यया यौवने बाल्ये बुद्ध्या भवति मोहितः
मध्येऽन्यया जरायां तु सोऽन्यां रोचयते मतिम्
व्यसन वा महाघोरं समृद्धिं वाऽपि तादृशीम्
अवाप्य पुरुषो भोज कुरुते बुद्धिवैकृतम्
एकस्मिन्नेव पुरुषे सा सा बुद्धिस्तथा तथा
भवत्यनित्या प्रज्ञा हि सा तस्यैव न रोचते
निश्चित्य तु यथा प्रज्ञस् स्वां मतिं साधु पश्यति
तस्यां प्रकुरुते भावं सा चास्योद्योगकारिका
सर्वात्मा पुरुषो भोज साधुरित्येव निश्चितः
कर्तुमारभते प्रीतिं मरणादिषु कर्मसु
सर्वो हि युक्तिं विज्ञाय प्रज्ञां वाऽपि स्वकां नरः
चेष्टते विविधां चेष्टां हितमित्येव चिन्तयन्
उपजाता व्यसनजा येयमद्य मतिर्मम
युवयोस्तां प्रवक्ष्यामि सर्वेषां शोकनाशिनीम्
प्रजापतिः प्रजास्सृष्ट्वा कर्म तासां विधाय च
वर्णे वर्णे समाधत्त एकैकं गुणवत्तरम्
ब्राह्मणे दममव्यग्र्यं क्षत्रिये तेज उत्तमम्
दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम्
अदान्तो ब्राह्मणोऽसाधुर् निस्तेजाः क्षत्रियो मृतः
अदक्षो निन्द्यते वैश्यश् शूद्रश्च प्रतिकूलवान्
सोऽस्मि जातः कुले श्रेष्ठे ब्राह्मणैरभिपूजिते
मन्दभाग्यतयाऽस्मीमं क्षत्रधर्ममनुष्ठितः
क्षत्रधर्मं विदित्वाऽहं यदि ब्राह्मणसंश्रितम्
प्रकरिष्ये महत् कर्म न मे तत् साधुसम्मतम्
धारयित्वा धनुर्दिव्यं दिव्यान्यस्त्राणि चाहवे
पितरं निहतं दृष्ट्वा किं नु वक्ष्यामि संसदि
सोऽहमद्य यथाकामं क्षत्रधर्ममवाप्य च
यास्यामि पदवीं राज्ञः पितुश्चैव महाद्युतेः
अद्य स्वप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः
विमुक्तयुग्यकवचा हर्षेण च समन्विताः
वयं जिता मताश्चैषां श्रान्ता व्यायामनेन च
तेषां निशि प्रसुप्तानां स्वस्थाने शिबिरे स्वके
अवस्कन्दं करिष्यामि शिबिरस्यातिदुष्करम्
तानवस्कन्द्य शिबिरे प्रेतभूतानचेतसः
सूदयिष्यामि विक्रम्य मघवानिव दानवान्
पाञ्चालानद्य तान् सर्वान् धृष्टद्युम्नपुरोगमान्
सूदयिष्यामि विक्रम्य कक्षं दीप्तमिवानलः
विनिहत्य च पाञ्चालाञ् शान्तिं लब्धाऽस्मि सत्तम
पाञ्चालेषु चरिष्यामि सूदयन्नद्य संयुगे
पिनाकपाणिस्सङ्क्रुद्धस् स्वयं रुद्रः पशूनिव
अद्याहं सर्वपाञ्चालान् निकृत्या च निहत्य च
अर्दयिष्यामि सङ्क्रुद्धो रणे पाण्डुसुतांस्तथा
सूदयिष्यामि संहृष्टः पशूनिव पिनाकधृक्
अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम्
प्रहृत्यैकेन शस्त्रेण भविष्याम्यनृणः पितुः
दुर्योधनस्य कर्णस्य भीष्मसैन्धवयोरपि
गमिष्यामि निशावेलां पदवीमद्य दुर्गमाम्
अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि
विरात्रे प्रमथिष्यामि पशोरिव शिरो बलात्
अद्य पाञ्चालपाण्डूनां शयितानां सुखं निशि
खड्गेन निशिताग्रेण प्रमथिष्यामि गौतम
अद्य पाञ्चालसेनां तां निहत्य निशि सौप्तिके
कृतकृत्यस्सुखी चैव भविष्यामि महामते॥