कृपः-
श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो
ममापि तु वचः किञ्चिच् छृणुष्व च महाभुज
आरम्भा मानुषास्सर्वे निबद्धाः कर्मणोर्द्वयोः
दैवे पुरुषकारे च परं ताभ्यां न विद्यते
न हि दैवेन सिध्यन्ति कार्याण्येकेन सत्तम
न चापि कर्मणैकेन द्वाभ्यां सिद्ध्यन्ति योगतः
आभ्यामुभाभ्यां सर्वार्था निबद्धा ह्यधमोत्तमाः
व्यावर्तमाना दृश्यन्ते निवृत्ताश्चैव सर्वशः
पर्जन्यः पर्वते वर्षन् किं नु साधयते फलम्
उत्थानं चापि दैवस्य ह्यनुत्थानं च दैवतम्
व्यर्थं भवति सर्वत्र पूर्वं नस्तत्र निश्चयः
कृष्टे क्षेत्रे चाप्यवर्षन् किं नु साधयते फलम्
सुकृष्टे च यथा क्षेत्रे सम्यग्दैवे च वर्षति
बीजं महागुणं भूयात् तथा सिद्धिश्च मानुषी
तयोर्दैवं हि निश्चित्य स्ववशेनैव वर्तते
प्राज्ञाः पुरुषकारेण वर्तन्ते दैवमास्थिताः
ताभ्यां सर्वेऽपि कार्यार्था मनुष्याणां नरर्षभ
विचेष्टन्तः प्रदृश्यन्ते निवृत्ताश्च तथैव तु
कृतः पुरुषकारो हि सो हि दैवेन सिध्यति
तथास्य कर्मणः कर्तुर् अभिनिर्वर्तते फलम्
उत्थानं हि मनुष्याणां दक्षाणां दैववर्जितम्
अफलं दृश्यते लोके सम्यगभ्युपपादितम्
तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः
उत्थानं ते हि गर्हन्ते प्राज्ञानां तन्न रोचते
प्रायशो हि कृतं कर्म विफलं दृश्यते भुवि
अकृत्वा च पुनर्दुःखं कर्म पश्येन्महाफलम्
चेष्टामकुर्वंल्लभते यदि किञ्चिद्यदृच्छया
यावत्तु लभते कृत्वा दुर्दर्शौ तावुभावपि
शक्नोति जीवितुं दक्षो नालसस्सुखमेधते
दृश्यन्ते जीवलोकेऽस्मिन् दक्षाः प्रायो हितैषिणः
यदि दक्षस्समारभ्य कर्मणो नाश्नुते फलम्
नास्य वाच्यं भवेत् किञ्चित् स्पर्शं चास्याधिगच्छति
अकृत्वा कर्म यो लोके फलं विन्दति कर्हिचित्
स वै विवक्षतां याति द्वेष्यो भवति प्रायशः
एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा
स कुर्यादात्मनोऽनर्थान् एष बुद्धिमतां नयः
हीनः पुरुषकारेण तथा दैवेन वा पुनः
कारणाभ्यामथोभाभ्याम् उत्थानमफलं भवेत्
हीनं पुरुषकारेण कर्म त्विह न सिध्यति
दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते
दक्षो दाक्षिण्यसम्पन्नो न स मोघैर्विहन्यते
सम्यगीहा पुनरियं या वृद्धानुपसेवते
आपृच्छति च यच्छ्रेयः करोति च हितं वचः
उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसम्मताः
यस्य योगे परं मूलं तन्मूला सिद्धिरिष्यते
वृद्धानां वचनं श्रुत्वा यो ह्युत्थानं प्रयोजयेत्
उत्थानस्य फलं सम्यक् तदा स लभतेऽचिरात्
रागात् क्रोधाद्भयाल्लोभाद् योऽर्थानीहेत मानवः
अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः
सोयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना
असमर्थस्समारब्धो मूढत्वादविचिन्तितः
हीनबुद्धिरनादृत्य सम्मन्त्र्यासाधुभिस्सह
वार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः
पूर्वमप्यतिदुश्शीलो न धैन्यं कर्तुमर्हति
तावत्यर्थे विपन्ने हि मित्राणां न कृतं वचः
अनुवर्तामहे यत्तु भजन्तः पापपूरुषम्
अस्मानप्यनयस्तस्मात् प्राप्तोऽयं दारुणो महान्
अनेन तु ममाद्यापि व्यसनेनोपपादिता
बुद्धिश्चिन्तयतः किञ्चित् स्वं श्रेयो नावबुध्यते
मुह्यता तु मनुष्येण प्रष्टव्यास्सुहृदो बुधाः
तत्रास्य बुद्धिविनयस् तत्र श्रेयश्च पश्यति
ततोऽस्य मूलं कार्याणां बुद्ध्या निश्चित्य वै बुधाः
ते संसृष्टा यथा ब्रूयुस् तत् कर्तव्यं तथा भवेत्
ते वयं धृतराष्ट्रं च गान्धारीं च यशस्विनीम्
उपपृच्छामहे गत्वा विदुरं च महामतिम्
ते पृष्टास्तु वदेयुर्यच् छ्रेयस्करमनन्तरम्
तदस्माभिः पुनः कार्यम् इति मे नैष्ठिकी मतिः
कृतः पुरुषकारस्तु येषु नित्यं न सिध्यति
अनारम्भात्तु कार्याणां नार्थः सम्पद्यते क्वचित्
दैवेनोपहतास्ते तु नात्र कार्या विचारणा