सञ्जयः-
वादिकानां समीपात् तु श्रुत्वा दुर्योधनं हतम्
हतशिष्टास्ततो राजन् कौरवाणां महारथाः
विनिर्भिन्नाश्शितैर्बाणैश् शक्तितोमरकर्पणैः
अश्वत्थामा कृपश्चैव कृतवर्मा च भारतः
त्वरिता जवनैरश्वैर् आयोधनमुपाद्रवन्
तत्रापश्यन् महात्मानं धार्तराष्ट्रं निपातितम्
प्रभग्नं वायुवेगेन महासालं यथा वने
भूमौ विवेष्टमानं तं रुधिरेण समुक्षितम्
महागजमिवारण्ये व्याधेन निधनं गतम्
विवर्तमानं बहुशो रुधिरौघपरिप्लुतम्
यदृच्छयेव पतितं चन्द्रमादित्यगोचरात्
युगान्तमारुतेनेव शोषितं मकरालयम्
पूर्णचन्द्रनिभं वीरं तुषारावृतमण्डलम्
रेणुध्वस्तं दीर्घभुजं मातङ्गसमिविक्रमम्
वृतं भूतगणैर्घोरैः क्रव्यादैश्च समन्ततः
यथा धनं लिप्समानैर् भृत्यैर्नृपतिसत्तमम्
भ्रुकुटीकृतवक्त्रान्तं क्रोधादुद्वृत्तलोचनम्
सामर्षं तं नरव्याघ्रं भौमं निपतितं तथा
तं दृष्ट्वाऽथ महेष्वासं भूतले पतितं नृपम्
मोहमभ्यागमन् सर्वे कृपप्रभृतयो नृप
अवतीर्य रथेभ्यस्तु प्राद्रवन् राजसन्निधौ
दुर्योधनं च सम्प्राप्य सर्वे भूमावुपाविशन्
ततो द्रौणिर्महाराज बाष्पपूर्णेक्षणश्श्वसन्
उवाच भरतश्रेष्ठं सर्वलोकेश्वरेश्वरम्
अश्वत्थामा-
न नूनं विद्यते पुण्यं मनुष्ये किञ्चिदेव तु
यत्र त्वं पुरुषव्याघ्र शेषे पांसुषु रूषितः
भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम्
कथमेकोऽद्य राजेन्द्र वने तिष्ठसि निर्जने
दुश्शासनं न पश्यामि नापि कर्णं महारथम्
नापि तान् सुहृदस्सर्वान् किमिदं भरतर्षभ
दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथञ्चन
लोकनाथो भवानद्य शेते पांसुषु रूषितः
अयं मूर्धाभिषिक्तानाम् अग्रे याति परन्तपः
सतृणं ग्रसते पांसुं पश्य कालस्य पर्ययम्
क्व ते तदमलं छत्रं व्यञ्जनं क्व च पार्थिव
सा च ते महती सेना क्व गता पार्थिवोत्तम
दुर्विज्ञेया गतिर्नूनं कार्याणां कारणान्तरे
यो वै लोकगुरुर्नाथो भवानेतां दशां गतः
अध्रुवा सर्वमर्त्येषु ध्रुवैव श्रीर्विचिन्त्यते
भवतो व्यसनं दृष्ट्वा शक्रविस्पर्धिनो भृशम्
सञ्जयः-
तस्य तद्वचनं श्रुत्वा दुःखितस्य विशेषतः
उवाच राजन् पुत्रस्ते प्राप्तकालमिदं वचः
विमृज्य नेत्रे पाणिभ्यां शोकजं वारि चोत्सृजन्
स कृपप्रभृतीन् वीरान् अब्रवीन्मनिजाधिपः
दुर्योधनः-
ईदृशो मर्त्यधर्मोऽयं धात्रा निर्दिष्ट उच्यते
विनाशस्सर्वभूतानां कालपर्यायकारितः
सोऽयं मामनुसम्प्राप्तः प्रत्यक्षो भवतां हि सः
पृथिवीं पालयित्वाऽहम् एतां निष्ठामुपागतः
दिष्ट्याऽहं त्वपरावृत्तो युद्धे कस्याञ्चिदापदि
दिष्ट्याऽहं निहतः पापैश् छलेनैव विशेषतः
उत्साहश्च कृतो नित्यं मया दिष्ट्या युयुत्सया
दिष्ट्या चास्मि हतो युद्धे क्षीणस्वजनबान्धवः
दिष्ट्या च वोऽहं पश्यामि मुक्तानस्माज्जनक्षयात्
स्वस्तिमन्तश्च कल्याश्च तन्मे प्रियमनुत्तमम्
मा भवन्तोऽनुतप्यन्तां सौहृदान्निधनेन मे
यदि वेदाः प्रमाणं वो जिता लोका मयाऽक्षयाः
जानमानः प्रभावं च कृष्णस्यामिततेजसः
तेन न च्यावितश्चाहं क्षत्रधर्मात् स्वनुष्ठितात्
समयोऽयमनुप्राप्तो नास्मि शोच्यः कथञ्चन
कृतं भवद्भिस्सदृशम् अनुकूलमिहात्मनः
यदिदं विजये शक्त्या दैवं बलवत्तरम्
सञ्जयः-
एतावदुक्त्वा वचनं बाष्पव्याकुललोचनः
तूष्णीं बभूव राजेन्द्रो रुजया भृशविह्वलः
तथा दृष्ट्वा तु राजानं बाष्पशोकसमन्वितम्
द्रौणिः क्रोधेन जज्वाल यथाऽग्निर्जगतः क्षये
स तु क्रोधसमाविष्टः पाणिं पाणौ निपीड्य च
बाष्पविह्वलया वाचा राजानमिदमब्रवीत्
अश्वत्थामा-
पिता मे निहतः क्षुद्रैस् सुनृशंसेन कर्मणा
न तथा तेन तप्यामि तथा राजंस्त्वयाऽद्य वै
शृणु राजन् वचो मेऽद्य सत्येन वदतः प्रभो
इष्टापूर्तेन दानेन धर्मेण सुकृतेन च
अद्याहं सर्वपाञ्चालान् वासुदेवस्य पश्यतः
अद्य रात्रौ महाराज निहनिष्यामि पाण्डवान्
अनुज्ञां तु महाराज भवान् मे दातुमर्हति
सञ्जयः-
दुर्योधनः-
तच्छ्रुत्वा वचनं द्रौणेर् धृतराष्ट्र तवात्मजः
मनसः प्रीतिजननं कृपं वचनमब्रवीत्
आचार्य शीघ्रं कलशं जलपूर्णमिहानय
सञ्जयः-
स तद्वचनमाज्ञाय राज्ञो ब्राह्मणसत्तमः
कलशं पूर्णमादाय राजान्तिकमुपागमत्
तमब्रवीन्महाराज पुत्रस्तव विशां पते
दुर्योधनः-
ममाज्ञया द्विजश्रेष्ठ द्रोणपुत्रोऽभिषिच्यताम्
सैनापत्येन भद्रं ते मम चेदिच्छसि प्रियम्
राज्ञो नियोगाद्योद्धव्यं ब्राह्मणेन विशेषतः
वर्तता क्षत्रधर्मेण ह्येवं धर्मविदो विदुः
सञ्जयः-
राज्ञस्तु वचनं श्रुत्वा कृपश्शारद्वतस्ततः
द्रौणिं राजनियोगेन सैनापत्येऽभ्यषेचयत्
सोऽभिषिक्तो महाराज परिष्वज्य नृपोत्तमम्
प्रययौ सिंहनादेन दिशस्सर्वा विनादयन्
दुर्योधनोऽपि राजेन्द्र शोणितौघपरिप्लुतः
तां निशां प्रतिसम्पेदे सर्वभूतभयावहाम्
अपक्रम्य तु ते तूर्णं तस्मादायोधनान्नृप
शोकसन्तप्तमनसश् चिन्तामापेदिरे भृशम्