धृतराष्ट्रः-
अधिष्ठितः पदा मूर्ध्नि भग्नसक्थिर्महीं गतः
शौण्डिर्यमानी पुत्रो मे कान्यभाषत सञ्जय
अत्यर्थं कोपनो राजा कृतवैरश्च पाण्डुषु
व्यसनं परमं प्राप्तः किमाह परमाहवे
सञ्जयः-
शृणु राजन् यथावृत्तं प्रवक्ष्यामि परन्तप
राज्ञा यदुक्तं मग्नेन तस्मिन् व्यसनसागरे
भिन्नसक्थो नृपो राजन् पांसुना परिकुण्ठितः
संयम्य मूर्धजांस्तत्र वीक्ष्य चैव दिशो दश
क्रोधं नियम्य यत्नेन निश्श्वसन्नुरगो यथा
संरम्भाश्रुपरीताभ्यां नेत्राभ्यामभिवीक्ष्य माम्
बाहू धरण्यां निष्पिष्य मुहुर्मत्त इव द्विपः
प्रकीर्णान् मूर्धजान् धुन्वन् दन्तैर्दन्तानुपस्पृशन्
गर्हयन् पाण्डवश्रेष्ठं विनिश्श्वस्येदमथाब्रवीत्
दुर्योधनः-
भीष्मे शान्तनवे नाथे द्रोणे चाचार्यसत्तमे
गौतमे शकुनौ चापि कर्णे चास्त्रभृतां वरे
अश्वत्थाम्नि यथा शूरे शल्ये च कृतवर्मणि
अन्येष्वपि च शूरेषु न्यस्तभारो महात्मसु
इमामवस्थां प्राप्तोऽस्मि कालो हि दुरतिक्रमः
एकादशचमूभर्ता सोऽहमेतां दशां गतः
कालं प्राप्य महाबाहो न कश्चिदतिवर्तते
आख्यातव्यं मदीयानां ये तु जीवन्ति सङ्गरे
यथाऽहं भीमसेनेन व्युत्क्रम्य समयं हतः
बहूनि सुनृशंसानि कृतानि खलु पाण्डवैः
भूरिश्रवसि कर्णे च द्रोणे भीष्मे च धीमति
इदं चकीर्तिदं कर्म नृशंसं पाण्डवैः कृतम्
वाच्यतां येन ते सत्सु गमिष्यन्तीति मे मतिः
का प्रीतिस्सत्त्वयुक्तस्य कृत्वोपाधिकृतं जयम्
को वा समयभेत्तारं बुधस्सम्मन्तुमर्हति
अधर्मेण जयं लब्ध्वा को नु हृष्येत पण्डितः
यथा संहृष्यते पापः पाण्डुपुत्रो वृकोदरः
किं नु चित्रमतस्त्वन्यत् भग्नसक्थस्य वै मम
क्रुद्धेन भीमसेनेन पदा यन्मृदितं शिरः
प्रतपन्तं श्रिया जुष्टं वर्तमानं च बन्धुषु
निगृह्णीयाद्रिपुं यो हि स वै सञ्जय पूरुषः
अभिज्ञौ क्षत्रधर्मस्य मम माता पिता च यौ
तौ हि सञ्जय दुःखार्तौ विज्ञाप्यौ वचनान्मम॥
इष्टं भृत्या भृतास्सम्यग् भूः प्रशास्ता ससागरा
मूर्ध्नि स्थितममित्राणां जीवतामेव सञ्जय
दत्ता दाया यथाशक्ति मित्राणां च प्रियं कृतम्
अमित्रा बाधितास्सर्वे को नु स्वन्ततरो मया
अधीतं विधिवद्दत्तं प्राप्तमायुर्निरामयम्
स्वधर्मेण जिता लोकाः को नु स्वन्ततरो मया
नृपमुख्येषु मानश्च मया प्राप्तस्सुदुर्लभः
आजानयैस्तथा नेयं को नु स्वन्ततरो मया
यातानि परराष्ट्राणि नृपा भुक्ताश्च दासवत्
प्रियेभ्यश्च कृतं साधु को नु स्वन्ततरो मया
मानिता बान्धवास्सर्वे मान्यस्सम्पूजितो जनः
त्रितयं सेवितं सर्वं को नु स्वन्ततरो मया
दिष्ट्या नाहं जितस्सङ्ख्ये परान् प्रेष्यवदाश्रितः
दिष्ट्या मे विपुला लक्ष्मीर् मृते त्वन्यं गता मयि
यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुतिष्ठताम्
निधनं तन्मया प्राप्तं को नु स्वन्ततरो मया
दिष्ट्या नाहं परावृत्तो वैरात् प्राकृतवज्जितः
दिष्ट्या न विमतिं काञ्चिद् भजित्वाऽहं पराजितः
सुप्तं वाऽपि प्रमत्तं वा यथा हन्याद्विषेण वा
एवं व्युत्क्रान्तधर्मेण व्युत्क्रम्य समयं हतः
अश्वत्थामा महाभाहुः कृतवर्मा च सात्वतः
कृपश्शारद्वतश्चापि वक्तव्या वचनान्मम
सञ्जयः-
अधर्मेण प्रवृत्तानां पाण्डवानामनेकशः
विश्वासं समयघ्नानां न यूयं गन्तुमर्हथ
वार्तिकांश्चाब्रवीत् सर्वान् पुत्रस्ते सत्यविक्रमः
दुर्योधनः-
अधर्माद्भीमसेनेन निहतोऽहं यथा रणे
सोऽहं द्रोणं स्वर्गगतं शल्यकर्णावुभौ तथा
वृषसेनं महावीर्यं शकुनिं चापि सौबलम्
जलसन्धं महात्मानं भगदत्तं च पार्थिवम्
सोमदत्तं महेष्वासं सैन्धवं च जयद्रथम्
दुश्शासनपुरोगांश्च भ्रातॄनात्मसमान् मम
दौश्शासनिं च विक्रान्तं लक्ष्मणं चात्मजावुभौ
एतांश्चान्यांश्च सुबहून् अस्मदीयान् सहस्रशः
पृष्ठतोऽनुगमिष्यामि सार्थहीन इवाऽध्वगः
नूनं भ्रातॄन् हताञ् श्रुत्वा भर्तारं च स्वसा मम
रोरूयमाणा दुःखार्ता दुश्शला सा भविष्यति
स्नुषाभिः प्रस्नुषाभिश्च वृद्धो राजा पिता मम
गान्धारीसहितः क्रोशन् कां गतिं प्रतिपत्स्यते
नूनं लक्ष्मणमाताऽपि हतपुत्रा हतेश्वरा
विनाशं यास्यति क्षिप्रं कल्याणी पृथुलोचना
यदि जीवति चार्वाकः परिव्राड्वा विशारदः
करिष्यति महाभागो ध्रुवं सोऽपचितिं मम
समन्तपञ्चके पुण्ये त्रिषु लोकेषु विश्रुते
अहं निधनमापद्य लोकान् प्राप्स्यामि शाश्वतान्
सञ्जयः-
ततो जनसहस्राणि बाष्पपूर्णानि मारिष
प्रलापं नृपतेश्श्रुत्वा विद्रवन्ति दिशो दश
ससागरवना घोरा पृथिवी सचराचरा
चचालाथ सनिर्ह्रादा दिशश्चैवाविला भवन्
ते द्रोणपुत्रमासाद्य यथावृत्तं न्यवेदयन्
व्यवहारं गदायुद्धे पार्थिवस्य च पातनम्
तदाख्याय ततस्सर्वे द्रोणपुत्रस्य मारिष
वादिका दुःखसन्तप्ताश् शोकोपहतचेतसः
ध्यात्वा च सुचिरं कालं जग्मुश्चार्ता यथागतम्