जनमेजयः-
किमर्थं राजशार्दूल धर्मपुत्रो युधिष्ठिरः
गान्धार्यै प्रेषयामास वासुदेवं परन्तपम्
यदा पूर्वं गतः कृष्णश् शमार्थं कौरवान् प्रति
न च तँल्लब्धवान् कामं ततो युद्धमभूदिदम्
निहतेषु तु योधेषु हते दुर्योधने तदा
पृथिव्यां पाण्डवेयस्य निस्सपत्ने कृते युधि
विश्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमे
किं नु तत् कारणं ब्रह्मन् येन कृष्णो गतः पुरम्
न च तत्कारणं ब्रह्मन्नल्पं वै प्रतिभाति मे
यत्रागमदमेयात्मा स्वयमेव जनार्दनः
तत्त्वमेवैतन्ममाचक्ष्व सर्वमेतद् द्विजोत्तम
यच्चान्यत् कारणं ब्रह्मन् कार्यस्यास्य विनिर्णये
वैशम्पायनः-
त्वद्युक्तोऽयमनुप्रश्नो यन्मां त्वं परिपृच्छसि
तत्तेऽहं सम्प्रवक्ष्यामि यथावद्भरतर्षभ
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे
व्युत्क्रम्य समयं राजन् धार्तराष्ट्रं महाबलम्
अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत
युधिष्ठिरं महाराज महद्भयमथाविशत्
सोऽचिन्तयन्महाभागां गान्धारीं तपसाऽन्विताम्
घोरेण चक्षुषा शक्तां त्रैलोक्यस्य विनाशने
तस्य चिन्तयमानस्य बुद्धिस्समभवत् तदा
गान्धार्याः क्रोधदीप्तायाः पूर्वं प्रशमनं भवेत्
सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम्
मानसेनाग्निना क्रुद्धा भस्मसान्नः करिष्यति
कथं दुःखमिदं तीव्रं गान्धारी सा सहिष्यति
श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम्
वधं विचिन्त्य बहुधा भयशोकसमन्वितः
वासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत
युधिष्ठिरः-
तव प्रसादाद्गोविन्द राज्यं निहतकण्टकम्
अप्राप्यं मनसाऽपीह प्राप्तमस्माभिरच्युत
प्रत्यक्षं मे महाबाहो सङ्ग्रामे रोमहर्षणे
विमर्दस्सुमहान् प्राप्तस् त्वया यादवनन्दन
त्वया देवासुरे युद्धे वधार्थममरद्विषाम्
यथा साह्यं पुरा दत्तं हताश्च सुरशत्रवः
साह्यं तथा महाबाहो दत्तमस्माकमच्युत
सारथ्येन च वार्ष्णेय भवता यद्धृता वयम्
यदि न त्वं भवेन्नाथः फल्गुनस्य महारणे
कथं शक्यं रणे जेतुं भवेदेतद्बलार्णवम्
गदाप्रहारा विपुलाः परिघैश्चापि ताडनम्
शक्तिभिर्भिण्डिपालैश्च तोमरैस्सपरश्वथैः
वाचश्च पुरुषाः प्रप्ताश् त्वया ह्यस्मज्जयैषिणा
ताश्च ते सफलास्सर्वा हते दुर्योधनेऽच्युत
गान्धार्या हि महाबाहो क्रोधं शमय माधव
सा हि नित्यं महाभागा तपसोग्रेण कर्शिता
पुत्रपौत्रवधं प्राप्ता ध्रुवं नः प्रदहिष्यति
तस्याः प्रसादनं वीर प्राप्तकालमिदं मम
कश्च तां क्रोधसन्दीप्तां पुत्रव्यसनकर्शिताम्
वीक्षितुं पुरुषश्शक्तस् त्वामृते पुरुषोत्तम
ततस्ते गमनं प्राप्तं तन्मे माधव रोचते
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिन्दम
त्वं हि कर्ता विकर्ता च लोकानां प्रभवाव्ययः
हेतुकारणसंयुक्तैर् वचनैः कालचोदितैः
क्षिप्रमेव महाभागां गान्धारीं शमयिष्यसि
पितामहश्च भगवांस् तत्र कृष्णो भविष्यति
सर्वथा ते महाबाहो गान्धार्या शेषनाशनम्
कर्तव्यं सात्वतश्रेष्ठ पाण्डवानां हितैषिणा
वैशम्पायनः-
धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः
आमन्त्र्य दारुकं प्राह रथस्सञ्जो विधीयताम्
केशवस्य वचश्श्रुत्वा त्वरमाणोऽथ दारुकः
न्यवेदयद्रथं सज्जं केशवाय महात्मने
तं रथं यादवश्रेष्ठस् समारुह्य यदूत्तमः
जगाम हास्तिनपुरं त्वरितः केशवो विभुः
ततः प्रायान्महाभागः केशवो वेगवद्द्रुतम्
नागसाह्वयमासाद्य प्रविवेश च वीर्यवान्
विदितो धृतराष्ट्रस्य सोऽवतीर्य रथोत्तमात्
अभ्यगच्छदमेयात्मा धृतराष्ट्रनिवेशनम्
पूर्वं चाभिगतं तत्र सोऽपश्यदृषिसत्तमम्
पादौ प्रपीड्य कृष्णस्य राज्ञश्चापि जनार्दनः
अभ्यवादयदव्यग्रो गान्धारीं चापि केशवः
ततस्तु यादवश्रेष्ठो धृतराष्ट्रमधोक्षजः
पाणिमालम्ब्य राज्ञस्स सस्वनं प्ररुरोद ह
स मुहूर्तादिवोत्सृज्य बाष्पं शोकसमुद्भवम्
प्रक्षाल्य वारिणा नेत्रे आचम्य च यथाविधि
उवाच प्रश्रितं वाक्यं धृतराष्ट्रमरिन्दमः
श्रीभगवान्-
न तेऽस्त्यविदितं किञ्चिद् भूतं भव्यं च भारत
कालस्य च यथावृत्तं तत्ते सुविदितं प्रभो
यदिदं पाण्डवैस्सर्वैस् तव चित्तानुवर्तिभिः
कथं कुलक्षयो न स्यात् तथा क्षत्रस्य भारत
भ्रातृभिस्समयं कृत्वा क्षान्तवान् धर्मवत्सलः
द्यूतेऽधर्मजितैश्शक्तैर् वनवासोऽभ्युपागतः
अज्ञातवेषचर्या च नानावेषसमाश्रितैः
अन्ये च बहवः क्लेशा अशक्तैरिव नित्यदा
मया च स्वयमागम्य युद्धकाल उपस्थिते
सर्वलोकस्य सान्निध्ये ग्रामांस्त्वं पञ्च याचितः
त्वया कालोपसृष्टेन लोभतो नापवर्जिताः
तवापराधान्नृपते क्षत्रं सर्वं क्षयं गतम्
भीष्मेण सोमदत्तेन बाह्लीकेन कृपेण च
द्रोणेन सहपुत्रेण विदुरेण च धीमता
याचितस्त्वं शमं नित्यं न च तत् कृतवानसि
कालोपहतचित्ता हि सर्वो मुह्यति भारत
यथा मूढो भवान् पूर्वम् अस्मिन्नर्थे समुद्यते
किमन्यत् कालयोगाद्धि द्विष्टमेतत् परातनम्
मा च दोषं महाराज पाण्डवेषु निवेशय
स्वल्पोऽप्यतिक्रमो नास्ति पाण्डवानां महात्मनाम्
धर्मतो न्यायतश्चैव स्नेहतश्च परन्तप
एतत् सर्वं तु विज्ञाय ह्यात्मदोषकृतं फलम्
तन्मन्युं पाण्डुपुत्रेषु न भवान् कर्तुमर्हति
कुलं वंशश्च पिण्डश्च यच्च पुत्रकृत फलम्
गान्धार्यास्तव चैवाद्य पाण्डवेषु प्रतिष्ठितम्
एतत् सर्वमनुध्याय आत्मनश्च व्यतिक्रमम्
शिवेन पाण्डवान् ध्याहि नमस्ते पुरुषर्षभ
जानासि त्वं महाबाहो धर्मराजस्य या त्वयि
भक्तिर्भरतशार्दूल स्नेहश्चापि स्वभावतः
एतच्च कदनं कृत्वा शत्रूणामपकारिणाम्
दह्यते स्म दिवारात्रं न च शर्माधिगच्छति
त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम्
स शोचन् भरतश्रेष्ठ न शान्तिमधिगच्छति
ह्रिया च परमया युक्तो भवन्तं नोपसर्पति
पुत्रशोकाभिसन्तप्तं बुद्ध्या व्याकुलितेन्द्रियम्
वैशम्पायनः-
एवमुक्त्वा महाबाहुर् धृतराष्ट्रं यदूत्तमः
उवाच परमं वाक्यं गान्धारीं शोककर्शिताम्
श्रीभगवान्-
सौबलेयि निबोधस्व यत् त्वां वक्ष्यामि सुव्रते
त्वत्समा नास्ति लोकेऽस्मिन् काचित् सीमन्तिनी शुभे
जानासि च यथा राज्ञि सभायां मम सन्निधौ
धर्मार्थसहितं वाक्यम् उभयोः पक्षयोर्हितम्
उक्तवत्यसि कल्याणि न च ते तनयैश्श्रुतम्
दुर्योधनस्त्वया चोक्तो जयार्थी परुषं वचः
शृणु मूढ वचो मे त्वं यतो धर्मस्ततो जयः
तदिदं समनुप्राप्तं तव वाक्यं नृपात्मजे
एवं विदित्वा गान्धारि मा स्म शोके मनः कृथाः
पाण्डवानां विनाशे च मा ते बुद्धिः कदाचन
वैशम्पायनः-
शक्ता चासि महाभागे पृथिवीं सचराचराम्
चक्षुषा क्रोधदीप्तेन निर्दग्धुं तपसो बलात्
वासुदेववचश्श्रुत्वा गान्धारी वाक्यमब्रवीत्
गान्धारी-
एवमेतन्महाबाहो यथा वदसि केशव
आधिभिर्दह्यमानाया मतिस्सञ्चलिता मम
सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन
राज्ञस्त्वन्धस्य वृद्धस्य हतपुत्रस्य माधव
त्वं गतिस्सह तैस्सर्वैः पाण्डवैर्वदतां वर
वैशम्पायनः-
एवमुक्त्वा तु वचनं मुखं प्रच्छाद्य वाससा
पुत्रशोकाभिसन्तप्ता गान्धारी प्ररुरोद ह
तत एनां महाबाहुः केशवश्शोककर्शिताम्
हेतुकारणसंयुक्तैर् वाक्यैराश्वासयत् प्रभुः
समाश्वास्य च गान्धारीं धृतराष्ट्रं च माधवः
द्रौणेस्सङ्कल्पितं भावम् अन्वबुध्यत भारत
ततस्त्वरित उत्थाय पादौ मूर्ध्ना प्रणम्य च
द्वैपायनस्य राजेन्द्र ततः कौरवमब्रवीत्
श्रीभगवान्-
आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः
द्रौणेः पापोऽस्त्यभिप्रायस् ततोऽस्मि सहसोत्थितः
पाण्डवानां वधे रात्रौ बुद्धिस्तेन निदर्शिता
वैशम्पायनः-
एतच्छ्रुत्वा तु वचनं गान्धार्या सहितोऽब्रवीत्
धृतराष्ट्रो महाराज केशवं केशिसूदनम्
धृतराष्ट्रः-
शीघ्रं गच्छ महाबाहो पाण्डवान् परिपालय
भूयस्त्वया समेष्यामि क्षिप्रमेव जनार्दन
वैशम्पायनः-
प्रायात् ततस्तु त्वरितो दारुकेण सहाच्युतः
वासुदेवे गते राजन् धृतराष्ट्रं जनेश्वरम्
आश्वासयदमेयात्मा व्यासो लोकनमस्कृतः
वासुदेवोऽपि धर्मात्मा कृतकृत्यो जगाम ह
शिबिरं हास्तिनपुराद् दिदृक्षुः पाण्डवान् नृप
आगम्य शिबिरं रात्रौ सोऽभ्यगच्छत पाण्डवान्
तच्च तेभ्यस्समाख्याय सहितस्तैस्समाहितः