सञ्जयः-
ततस्ते प्रययुस्सर्वे निवासाय महीक्षितः
शङ्खान् प्रध्मापयन्तो वै हृष्टाः परिघबाहवः
पाण्डवान् गच्छतश्चापि शिबिरं नो विशां पते
महेष्वासोऽन्वगात् पश्चात् सत्यकिस्सत्यविक्रम
धृष्टद्युम्नश्शिखण्डी च सृञ्जयाश्चापि सर्वशः
सर्वे चान्ये महेष्वासा जग्मुस्स्वशिबिराण्युत
ततस्ते प्राविशन् पार्था हतत्विट्कं हतेश्वरम्
दुर्योधनस्य शिबिरं रङ्गवन्निस्सृते जने
गतोत्सवं पुरमिव हृतनागमिव ह्रदम्
स्त्रीवर्षवरभूयिष्ठं वृद्धामात्यैरधिष्ठितम्
तत्रैतान् पर्युपातिष्ठन् दुर्योधनपुरस्सराः
कृताञ्जलिपुटा राजन् काषायमलिनाम्बराः
शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः
अवतेरुर्महाराज रथेभ्यो रथसत्तमाः
ततो गाण्डीवधन्वानम् अभ्यभाषत केशवः
स्थितः प्रियहिते नित्यम् अतीव पुरुषर्षभ
श्रीभगवान्-
अवरोपय गाण्डीवम् अक्षयौ च महेषुधी
ततोऽहमवरोक्ष्यामि पश्चाद्भरतसत्तम
स्वयं चैवावरोह त्वम् एतच्छ्रेयस्तवानघ
सञ्जयः-
अवारोहत् तदा वीरः पाण्डुपुत्रो धनञ्जयः
अथ पश्चात्ततः कृष्णो रश्मीनुत्सृज्य वाजिनाम्
अवारोहत मेधावी रथाद्गाण्डीवधन्वनः
अथावतीर्णे भूतानाम् ईश्वरे पुरुषोत्तमे
कपिरप्याश्वपाक्रामत् सह देवैर्ध्वजालयैः
स दग्धो द्रोणकर्णाभ्यां दिव्यैरस्त्रैर्महारथः
अथ दीप्तोऽग्निनाऽप्याशु प्रजज्वाल महाद्युतिः
सोपासङ्गस्सतूणीरस् साश्वस्सयुगबन्धनः
भस्मीभूतोऽभवद्भूमौ रथो गाण्डीवधन्वनः
तं दृष्ट्वा भस्मसाद्भूतं तदा पाण्डुसुताः प्रभो
अभवन् विस्मिता राजन्नर्जुनश्चेदमब्रवीत्
कृताञ्जलिस्सप्रणयं प्रणिपत्याभिवाद्य च
अर्जुनः-
गोवन्द कस्माद्भगवन् रथो दग्धोऽयमग्निना
किमेतन्महदाश्चर्यं भगवन् यदुनन्दन
तन्मे ब्रूहि महाबाहो श्रोतव्यं यदि चेन्मया
श्रीभगवान्-
द्रोणकर्णास्त्रनिर्दग्धः पूर्वमेवायमर्जुन
मदास्थितत्वात् समरे न विशीर्णः परन्तप
इदानीं तु विशीर्णोऽयं दग्धो ब्रह्मास्त्रतेजसा
मया विमुक्तः कौन्तेय त्वय्यद्य कृतकर्मणि
सञ्जयः-
श्रीभगवान्-
ईषदुत्स्मयमानस्तु भगवान् केशवोऽरिहा
परिष्वज्य तु राजानं युधिष्ठिरमभाषत
दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवो हताः
दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः
त्वं चापि कुशली राजन् माद्रीपुत्रौ च पाण्डवौ
मुक्ता वीरक्षयादिस्मात् सङ्ग्रामान्निहतद्विषः
क्षिप्रमुत्तरकालानि कुरु कार्माणि भारत
उपयातमुपप्लाव्यं सह गाण्डीवधन्वना
आनीय मधुपर्कं मां यत् पुरा त्वमवोचथाः
एष भ्राता सखा चैव तव कृष्ण धनञ्जयः
रक्षितव्यो महाबाहो सर्वास्वापत्स्विति प्रभो
तव चैव ब्रुवाणस्य तथेत्येवाहमब्रुवम्
स सव्यसाची गुप्तस्ते विजयी च नरेश्वर
भ्रातृभिस्सह राजेन्द्र शूरस्सत्यपराक्रमः
मुक्तो वीरक्षयादस्मात् सङ्ग्रामाद्रोमहर्षणात्
सञ्जयः-
एवमुक्तस्तु कृष्णेन धर्मपुत्रो युधिष्ठिरः
हृष्टरोमा महाबाहुः प्रत्युवाच जनार्दनम्
युधिष्ठिरः-
प्रमुक्तं द्रोणकर्णाभ्यां ब्रह्मास्त्रमरिसूदन
कस्त्वदन्यस्सहेत् साक्षाद् अपि वज्री पुरन्दरः
भवतस्तु प्रसादाच्च सङ्ग्रामे बहवो जिताः
महारणगतः पार्थो यच्च नासीत् पराङ्मुखः
तथा तव महाबाहो पर्यायैर्बहुभिर्मया
कर्मणामनुसन्धानात् तेजसश्च गतिश्श्रुता
उपप्लाव्ये महर्षिर्मां कृष्णद्वैपायनोऽब्रवीत्
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः
सञ्जयः-
एवमुक्तस्ततः कृष्णः प्रत्युवाच युधिष्ठिरम्
श्रीभगवान्-
अक्षौहिण्यो दशाष्टौ च तव तेषां च भारत
न तुल्याश्चार्जुनस्येह बलेन कुरुनन्दन
स एष सर्वाण्यस्त्राणि दिव्यानि प्राप्य शङ्करात्
मत्समो वा विशिष्टो वा रणे त्वमिति पाण्डवः
अनुज्ञातः पाण्डुसुतः पुनः प्रत्यागमन्महीम्
भूतं भव्यं भविष्यच्च अनुजानसि चेत् प्रभो
निमेषार्धान्नरव्याघ्रो नयेदिति मतिर्मम
द्रोणं भीष्मं कृपं कर्णं द्रोणपुत्रं जयद्रथम्
निहन्तुं शक्नुयात् क्रुद्धो निमेषार्धाद्धनञ्जयः
सदेवासुरगन्धर्वान् सयक्षोरगराक्षसान्
त्रीन् वा लोकान् विजेतुं हि शक्तः किमिह मानुषान्
विधिना महितश्चासौ मया सञ्चोदितोऽपि सन्
न चकार मतिं हन्तुं कृतान्तो बलवत्तराः
अत्र गीता मया सुष्ठु गिरस्सत्या महीपते
दर्शितं मयि सर्वं च तेनासौ जितवान् रिपून्
अर्जुनोऽपि महाबाहुर् मया तुल्यो महीपते
स महेश्वरलब्धास्त्रः किं न कुर्याद्विभुः प्रभो
सञ्जयः-
इत्येवमुक्ते ते वीराश् शिबिरं तव भारत
प्रविश्य प्रत्यपद्यन्त कोशरत्नर्धिसञ्चयान्
रजतं जातरूपं च मणीनथ च मौक्तिकान्
भूषणान्यथ मुख्यानि कम्बलान्यजिनानि च
गजानश्वान् रथांश्चैव महान्ति शयनानि च
दासीदासमसङ्ख्येयं राज्योपकरणानि च
ते प्राप्य धनमक्षय्यं त्वदीयं भरतर्षभ
उदक्रोशन् महेष्वासा नरेन्द्र विजितारयः
ते तु वीरास्समाश्वस्य वाहनान्यवमुच्य च
अतिष्ठन्त मुहुस्सर्वे पाण्डवा विगतज्वराः
श्रीभगवान्-
अथाब्रवीन्महाराज वासुदेवो महायशाः
अस्माभिर्मङ्गलार्थाय वस्तव्यं नगराद्बहिः
सञ्जयः-
तथेत्युक्त्वा तु ते सर्वे पाण्डवास्सात्यकिस्तथा
वासुदेवेन सहिता मङ्गलार्थं ययुर्बहिः
ते समासाद्य सरितं पुण्यामोघवतीं तदा
न्यवसन्नथ तां रात्रिं पाण्डवा जितशत्रवः
युधिष्ठिरस्ततो राजा प्राप्तकालमचिन्तयत्
वैशम्पायनः-
ततस्सम्प्रेषयामासुर् यादवं गजसाह्वयम्
ततः प्रायाज्जवेनाशु वासुदेवः प्रतापवान्
पाण्डवाः-
दारुकं रथमास्थाय यत्र राजाऽम्बिकासुतः
तमूचस्सम्प्रयास्यन्तं सैन्यसुग्रीववाहनम्
प्रत्याश्वासय गान्धारीं हतपुत्रां यशस्विनीम्
वैशम्पायनः-
स प्रायात् पाण्डवैरुक्तस् तत्पुरं सात्वतां वरः
समाश्वासयितुं क्षिप्रं गान्धारीं निहतप्रजाम्