सञ्जयः-
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे
सिंहेनेव महाराज मत्तं वनगजं वने
प्रहृष्टमनसस्सर्वे कृष्णेन सह पाण्डवाः
पाञ्चालास्सृञ्जयाश्चैव निहते कुरुनन्दने
आविध्यन्नुत्तरीयाणि सिंहनादांश्च चक्रिरे
नैतान् हर्षसमायुक्तान् इयं सेहे वसुन्धरा
धनूंष्येके व्याक्षिपन्त ज्याश्चाप्यन्ये तथाऽक्षिपन्
दध्मुश्चान्ये महाशङ्खान् अन्ये जघ्नुश्च दुन्दुभीन्
चिक्रीडुश्च तथैवान्ये जहसुश्च तवाहिताः
अब्रुवंश्चासकृद्वीरा भीमसेनमिदं वचः
पाञ्चालसृञ्जयाः-
दुष्करं भवता कर्म रणेऽद्य सुमहत् कृतम्
कौरवेयं रणे हत्वा गदया कृतनिश्रमम्
इन्द्रेणेव हि वृत्रस्य वधं परमसंयुगे
त्वया कृतममन्यन्त शत्रोर्वधमिमं जनाः
चरन्तं विविधान् मार्गान् मण्डलानि च सर्वशः
दुर्योधनमिमं हन्यात् कोऽन्यश्शूरं वृकोदरात्
वैरस्य च गतः पारं त्वमिहान्यैस्सुदुर्गमम्
अशक्यमेतदन्येन सम्पादयितुमीदृशम्
कुञ्जरेणेव मत्तेन वीरसङ्ग्राममूर्धनि
दुर्योधनशिरो दिष्ट्या पादेन मृदितं त्वया
सिंहेन महिषस्येव कृत्वा सङ्गरमद्भुतम्
दुश्शासनस्य रुधिरं पीतं दिष्ट्या त्वयाऽनघ
ये विप्रकुर्वन् राजानं धर्मात्मानं युधिष्ठिरम्
मूर्ध्नि तेषां कृतः पादो दिष्ट्या ते स्वेन कर्मणा
अमित्राणामधिष्ठानाद् वधाद्दुर्योधनस्य च
भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद्यशः
एवं नूनं हते वृत्रे शक्रं नन्दन्ति वन्दिनः
यथा त्वां निहतामित्रं स्वयं नन्दाम भारत
सञ्जयः-
दुर्योधनवधे यानि रोमाणि हृषितानि नः
अद्यापि न विकृष्यन्ति तानि तद्विद्धि भारत
इत्यब्रुवन् भीमसेनं वातिकास्तत्र सङ्गताः
तान् हृष्टान् पुरुषव्याघ्रान् पाञ्चालान् पाण्डवैस्सह
ब्रुवतस्सदृशं तत्तत् प्रोवाच मधुसूदनः
श्रीभगवान्-
नान्यायान्निहतश्शत्रुर् इति वक्तुं जनाधिपाः
असकृद्वाग्भिरुग्राभिर् निहतो ह्येष मन्दधीः
तदैवैष हतः क्षुद्रो यदैव निरपत्रपः
लुब्धः पापसहायश्च सुहृदां शासनातिगः
बहुशो विदुरद्रोणकृपगाङ्गेयसृञ्जयैः
पाण्डुभ्यः प्रार्थ्यमानोऽपि पित्र्यमंशं न दत्तवान्
नैष योग्योऽत्र मित्रं वा शत्रुर्वा पुरुषाधमः
किमनेनातितुन्नेन वाग्भिः काष्ठसधर्मणा
रथेष्वारोहत क्षिप्रं गच्छाम वसुधाधिपाः
दिष्ट्या हतोऽयं पापात्मा सामात्यज्ञातिबान्धवः
सञ्जयः-
इति श्रुत्वाऽऽत्मनि क्षेपं कृष्णाद्दुर्योधनो नृपः
अमर्षवशमापन्न उदतिष्ठद्विशां पते
स्फिग्देशेनोपविष्टस्सन् दोर्भ्यां विष्टभ्य मेदिनीम्
दृष्टिं भ्रूसङ्कटां कृत्वा वासुदेवे न्यपातयत्
अर्धोन्नतशरीरस्य रूपमासीन्नृपस्य तत्
क्रुद्धस्याशीविषस्येव च्छिन्नपक्षस्य भोगिनः
प्राणान्तकरिणीं घोरां वेदनामविचिन्तयन्
दुर्योधनो वासुदेवं वाग्भिरुग्राभिरार्दयत्
दुर्योधनः-
कंसदासस्य दायाद न ते लज्जाऽस्त्यनेन वै
अधर्मेण गदायुद्धे यदहं विनिपातितः
ऊरू भिन्धीति भीमस्य स्मृतिं मिथ्या प्रयच्छसि
किं न विज्ञातमेतन्मे यदर्जुनमवोचथाः
पातयित्वा महीपालान् ऋजुयुद्धान् सहस्रशः
जिह्मैरुपायैर्निपुणैर् न ते लज्जा न ते घृणा
अहन्यहनि शूराणां कुर्वाणः कदनं महत्
शिखण्डिनं पुरस्कृत्य घातितस्स पितामहः
अश्वत्थाम्नस्सनामानं हत्वा नागं सुदुर्मते
आचार्यस्त्याजितश्शस्त्रं किं तन्न विदितं मम
स चानेन नृशंसेन धृष्टद्युम्नेन वीर्यवान्
हन्यमानस्त्वया दृष्टो न चैनं समवारयः
वधार्थं पाण्डुपुत्रस्य याचितां शक्तिमेव च
घटोत्कचे व्यंसयेथाः कस्त्वत्तः पापकृत्तमः
छिन्नबाहुः प्रायगतस् तथा भूरिश्रवा रणे
त्वया निसृष्टेन हतश् शैनेयेन दुरात्मना
कुर्वाणश्चोत्तमं कर्म कर्णः पार्थजिघांसया
व्यसनेनाश्वसेनस्य पन्नगेन्द्रसुतस्य वै
पुनश्च पतिते चक्रे व्यसनार्तः पराजितः
पातितश्च रणे कर्णश् चक्रव्याग्रोऽग्रणीर्नृणाम्
यदि मां चैव कर्णं च भीष्मद्रोणौ च संयुगे
न्यायेन प्रतियुध्येथा न वस्स्याद्विजयो ध्रुवः
त्वया पुनरनार्येण जिह्ममार्गेण पार्थिवाः
ये धर्ममनुतिष्ठन्तो वयं चान्ये निपातिताः
त्वया मायाविना कृष्ण मायाकर्मप्रमोषिणीम्
कृत्वा हतस्सिन्धुपतिः किं तन्न विदितं मम
श्रीभगवान्-
हतस्त्वमसि गान्धारे सभ्रातृसुतबान्धवः
सगणस्ससुहृच्चैव पापमार्गमनुष्ठितः
तवैव दुष्कृतैर्वीरौ भीष्मद्रोणौ निपातितौ
कर्णश्च निहतस्सङ्ख्ये तव शीलानुवर्तकः
याच्यमानो मया मूढः पित्र्यमंशं न दित्ससि
पाण्डवेभ्यस्स्वराज्यार्धं लोभाच्छकुनिनिश्चयात्
विषं ते भीमसेनाय दत्तं सर्वे च पाण्डवाः
प्रदीपिता जतुगृहे मात्रा सह सुदुर्मते
सभायां याज्ञसेनी च द्यूते क्लिष्टा रजस्वला
तदैव तावद्दुष्टात्मा वध्यस्त्वं निरपत्रप
अनक्षज्ञं च धर्मज्ञं सौबलेनाक्षवेदिना
निकृत्या वै पराजैषीस् तस्मादसि रणे हतः
जयद्रथेन पापेन यत् कृष्णा क्लेशिता वने
यातेषु मृगयामेषु तृणबिन्दोस्तथाऽऽश्रमे
अभिमन्युश्च यद्बाल एको बहुभिराहवे
त्वद्दोषैर्निहतः पाप तस्मादसि रणे हतः
कुर्वाणं कर्म समरे पाण्डवानर्थकाङ्क्षिणम्
यच्छिखण्ड्यवधीद्भीष्मं मित्रार्थे न व्यतिक्रमः
स्वधर्मं पृष्ठतः कृत्वा आचार्यस्त्वत्प्रियेप्सया
पार्षतेन हतस्सङ्ख्ये वर्तमानोऽसतां पथि
प्रतिज्ञामात्मनस्सत्यां चिकीर्षन् समरे रिपुम्
हतवान् सात्वतो विद्वान् सौमदत्तिं महारथम्
अर्जुनस्समरे राजन् युध्यमानः कदाचन
निन्दितं पुरुषव्याघ्रः करोति न कथञ्चन
लब्ध्वाऽपि बहुशशिछिद्रं वीरवृत्तमनुस्मरन्
न जघान रणे कर्णं मैवं वोचस्सुदुर्मते
देवानां मतमाज्ञाय तेषां प्रियहितेप्सया
अर्जुनस्य महानागं मया व्यंसितमस्त्रजम्
त्वं च भीष्मश्च कर्णश्च द्रोणो द्रौणिस्तथा कृपः
विराटनगरे तस्य आनृशंस्याच्च जीविताः
स्मर पार्थस्य विक्रान्तं गन्धर्वेषु कृतं तदा
अधर्मः कोऽत्र गान्धारे पाण्डवैर्यत् कृतं त्वयि
स्वबाहुबलमास्थाय स्वधर्मेण परन्तपाः
जितवन्तो रणे वीराः पापोऽसि निधनं गतः
दुर्योधनः-
अधीतं सुहुतं दत्तं भूः प्रभुक्ता ससागरा
मूर्ध्नि स्थितममित्राणां को नु स्वन्ततरो मया
सर्वेषां क्षत्रबन्धूनां स्वधर्ममनुपश्यताम्
तदिदं निधनं प्राप्तं को नु स्वन्ततरो मया
राजार्हा मानुषा भोगाः प्राप्ताश्चासुलभा नृपैः
ऐश्वर्यं चोत्तमं प्राप्तं को नु स्वन्ततरो मया
ससुहृत् सानुबन्धश्च स्वर्गं यातोऽहमच्युत
यूयं गर्हितसङ्कल्पाश् शोचन्तो वर्तयिष्यथ
न मे विषादो भीमेन पादेन शिर आहतम्
काका वा कङ्कगृध्रा वा निधास्यन्ति पदं क्षणात्
सञ्जयः-
अस्य वाक्यस्य निधने कुरुराजस्य भारतः
अपतत् सुमहद्वर्षं पुष्पाणां दिव्यगन्धिनाम्
अवाद्यन्त च तूर्याणि जगुश्चाप्सरसां गणाः
जगुश्चाप्सरसो राज्ञो यशस्सम्बद्धमेव च
सिद्धाश्च मुमुचुर्नादं साधु साध्विति भारत
ववौ च सुरभिर्वातः पुण्यगन्धश्शुचिर्मुदुः
व्यराजतामलं चैव नभो वैडूर्यसन्निभम्
इत्यद्भुतानि ते दृष्ट्वा वासुदेवपुरोगमाः
दुर्योधनस्य पूजां च कृतां व्रीडामुपागमन्
हतांश्चाधर्मतश्श्रुत्वा शोकार्ताश्शुशुचुर्हि ते
भीष्मं द्रोणं तथा कर्णं भूरिश्रवसमेव च
तांस्तु चिन्तापरान् दृष्ट्वा पाण्डवान् दीनचेतसः
प्रोवाचेदं वचः कृष्णो मेघदुन्दुभिनिस्वनः
श्रीभगवान्-
नैष शक्योऽतिशीघ्रास्त्रस् ते च सर्वे महारथाः
ऋजुयुद्धेन विक्रान्ता हन्तुं युष्माभिराहवे
उपायान्निहता ह्येते मया तस्मान्नराधिपाः
अन्यथा पाण्डवेयानां नाभविष्यज्जयः क्वचित्
ते हि सर्वे महेष्वासाश् चत्वारोऽतिरथा भुवि
न शक्या धर्मतो हन्तुं लोकपालैरपि स्वयम्
तथैवायं गदापाणिर् धार्तराष्ट्रो गतक्लमः
न शक्यो धर्मतो हन्तुं कालेनापि हि दण्डिना
न च वो हृदि कर्तव्यं यदयं निहतो नृपः
मिथ्यावध्याश्छलोपायैर् बहवश्शत्रवोऽधिकाः
पूर्वं ह्यनुगतो मार्गो देवैरसुरघातिभिः
सद्भिश्चानुगतः पन्थास् सर्वैरनुगमिष्यते
एवं विधात्रा विहितो वधो ह्येष महात्मना
दैवं पुरुषकारेण न शक्यमतिवर्तितुम्
भूतं भव्यं भविष्यच्च निमेषाद्यो हनिष्यति
कृतान्तमन्यथा कर्तुं नेच्छेत् सोऽयं धनञ्जय
कृतकृत्यास्स्म सायाह्ने निवासं रोचयामहे
साश्वनागरथास्सर्वे विश्राम्यन्तु नराधिपाः
सञ्जयः-
वासुदेववचश्श्रुत्वा तदानीं पाण्डवैस्सह
पाञ्चाला भृशसंहृष्टा विनेदुस्सिंहसङ्घवत्
ततः प्राध्मापयच्छङ्खं पाञ्चजन्यं जनार्दनः
देवदत्तं प्रहृष्टात्मा शङ्खप्रवरमर्जुनः
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः
पोण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः
नकुलस्सहदेवश्च सुघोषमणिपुष्पकौ
धृष्टद्युम्नस्तथा जैत्रं सात्यकिर्नन्दिवर्धनम्
तेषां नादेन महता शङ्खानां भरतर्षभ
आपुपूरे नभस्सर्वं पृथिवी च चचाल ह
ततश्शङ्खाश्च भेर्यश्च पणवानकगोमुखाः
पाण्डुसैन्येष्ववाद्यन्त स शब्दस्तुमुलोऽभवत्
अस्तुवन् पाण्डवानन्ये गर्भिश्च स्तुतिमङ्गलैः
हृष्टा दुर्योधनं दृष्ट्वा निहतं पुरुषर्षभाः