सञ्जयः-
पातितं तं ततो दृष्ट्वा महासालमिव च्युतम्
प्रहृष्टमनसस्सर्वे बभूवुस्तत्र पाण्डवाः
तं मत्तमिव मातङ्गं सिंहेन विनिपातितम्
ददृशुर्हृष्टरोमाणः पाणडवास्सृञ्जयैस्सह
ततो दुर्योधनं हत्वा भीमसेनः प्रतापवान्
पातितं कौरवेन्द्रं तम् उपगम्येदमब्रवीत्
भीमः-
गौर्गौरिति पुरा मूढ द्रौपदीमेकवाससम्
यत् सभायां हसन्नस्मांस् तदा वदसि दुर्मते
तस्यापहासस्य फलम् अद्य त्वं समवाप्नुहि
सञ्जयः-
एवमुक्त्वा स वामेन पदा मौलिमवक्षिपत्
शिरश्च राजसिंहस्य पादेन समताडयत्
तथैव क्रोधसंरक्तो भीमः परबलार्दनः
पुनरेवाब्रवीद्वाक्यं यत्तच्छृणु नराधिप
भीमः-
येऽस्मान् पुरा प्रनृत्यन्ति पुनर्गौरिति गौरिति
तान् वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति
नास्माकं निकृतिद्यूतं नाक्षद्यूतं न वञ्चना
स्वबाहुबलमाश्रित्य प्रबाधाम वयं रिपून्
सञ्जयः-
समाप्य वैरस्य परस्य पारं वृकोदरः प्राह ततः प्रहस्य
युधिष्ठिरं केशवसृञ्जयांश्च धनञ्जयं माद्रवतीसुतौ च
भीमः-
रजस्वलां द्रौपदीमानयन् ये ये चाप्यकुर्वन्त सदस्यवस्त्राम्
तान् पश्यध्वं पाण्डवैर्धार्तराष्ट्रान् रणे हतांस्तपसा याज्ञसेन्याः
ये नः पुरा षण्ढतिलानवोचन् क्रूरात्मनो धृतराष्ट्रस्य पुत्राः
ते नो हतास्सगणास्सानुबन्धाः कामं स्वर्गं नरकं वा व्रजामः
सञ्जयः-
पुनश्च राज्ञः पतितस्य भूमौ भीमो गदां स्कन्धगतां प्रगृह्य
वामेन पादेन शिरः प्रमथ्य दुर्योधनं नैकृतिकेत्यवोचत्
हृष्टेन राजन् कुरुपार्थिवस्य क्षुद्रात्मना भीमसेनेन पादम्
दृष्ट्वा कृतं मूर्ध्न्यथ नाभ्यनन्दन् धर्मात्मानस्सोमकानां प्रबर्हाः
तव पुत्रं तथा हत्वा कत्थमानं वृकोदरम्
नृत्यमानं च बहुशो धर्मराजोऽब्रवीदिदम्
युधिष्टिरः-
मा शीर्षेऽस्य पदा हन्या मा धर्मस्तेऽत्यगान्महान्
हतज्ञातिर्हतश्चायं नैतन्न्याय्यं तवानघ
विध्वस्तोऽयं हतामात्यो हतबन्धुर्हतात्मजः
उत्सन्नपिण्डो भ्राता च नैतन्न्याय्यं त्वया कृतम्
धार्मिको भीमसेनोऽयम् इत्याहुस्त्वां पुरातनाः
स कस्माद्भीमसेन त्वं राजानमधितिष्ठसि
सञ्जयः-
नूनमेतद्बलवता धात्राऽऽदिष्टं महात्मना
यद्वयं त्वां जिघांसामस् त्वं चास्मान् कुरुसत्तम
आत्मनो ह्यपराधेन महद्व्यसनमीदृशम्
प्राप्तवानसि लोभाच्च मदाद्बाल्याच्च भारत
घातयित्वा वयस्यांश्च भ्रातॄनपि पितॄंस्तथा
पुत्रान् पौत्रांस्तथाऽऽचार्यांस् ततोऽसि निधनं गतः
तवापराधादस्माभिर् भ्रातरस्ते महारथाः
निहता ज्ञातयश्चान्ये दिष्टं मन्ये दुरत्ययम्
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य विह्वलाः
गर्हयिष्यन्ति नो नूनं विधवाश्शोककर्शिताः
सञ्जयः-
एवमुक्त्वा सुदुःखार्तो निशश्वास स पार्थिवः
विललाप चिरं चापि धर्मसूनुर्युधिष्ठिरः