वैशम्पायनः-
ततो वाग्युद्धमभवत् तुमुलं जनमेजय
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम्
धृतराष्ट्रः-
धिगस्तु खलु मानुष्यं यस्य निष्टेयमीदृशी
एकादशचमूभर्ता यत्र पुत्रो ममाभिभूः
आज्ञाप्य सर्वान् नृपतीन् भुक्त्वा च पृथिवीमिमाम्
गदामादाय चौकाकी पदातिः प्रस्थितो रणम्
भूत्वा हि जगतो नाथस् सोऽनाथ इव मे सुतः
गदामादाय यो याति किमन्यद्भागधेयतः
अहो दुःखं महत् प्राप्तं पुत्रेण मम सञ्जय
वैशम्पायनः-
एवमुक्त्वा स दुःखार्तो विरराम जनाधिपः
सञ्जयः-
स मेघानिस्वनो हर्षाद् विनदन्निव गोवृषः
आजुहाव ततः पार्थं युद्धाय युधि वीर्यवान्
भीममाह्वयमाने तु कुरुराजे महात्मनि
प्रादुरासन् सुघोराणि रूपाणि विविधान्युत
ववुर्वातास्सनिर्घाताः पांसुघर्षं पपात ह
बभूवुश्च दिशस्सर्वास् तिमिरेण समावृताः
महास्वानास्सुनिर्घातास् तुमुला रोमहर्षणाः
पेतुः पृथिव्यां शतशस् स्फोटयन्तो नभस्तलात्
राहुरग्रसदादित्यम् अपर्वणि विशां पते
चकम्पे च महाकम्पं पृथिवी सवनद्रुमा
रुक्षाश्च वाताः प्रववुर् नीचैश्शर्करकर्षिणः
गिरीणां शिखराण्याशु न्यपतन्त महीतले
मृगा बहुविध्कारास् सम्पतन्ति दिशो दश
दीप्तश्शिवाश्च प्रणदन् दारुणं भयवेदिनः
निर्घाताश्च महाघोरा बभूवू रोमहर्षणाः
दीप्तायां दिशि राजेन्द्र मृगाश्चाशुभवादिनः
उदपानगताश्चापो व्यवर्धन्त समन्ततः
अशरीरा महानादाश् श्रूयन्ते स्म भयानकाः
भीमः-
एवमादीनि दृष्ट्वा स निमित्तानि वृकोदरः
उवाच भ्रातरं ज्येष्ठं धर्मराजं युधिष्टिरम्
एष शक्यो रणे जेतुं मन्दात्मा च सुयोधनः
अद्य क्रोधं विमोक्ष्यामि निगूढं हृदये स्थितम्
सुयोधने कौरवेन्द्रे खाण्डवेऽग्निमिवार्जुनः
शल्यमद्योद्धरिष्यामि तव पाण्डव हृद्गतम्
निहत्य गदया पापम् इमं कुरुकुलान्तकम्
अद्य कीर्तिमयीं मालां प्रतिमोक्ष्याम्यहं त्वयि
हत्वेमं पापकर्माणं गदया रणमूर्धनि
अस्योरु गदया राजन् भेत्तास्मि समरेऽनया
नायं प्रवेष्टा नगरं पुनर्वारणसाह्वयम्
सर्पोत्सर्गस्य शयने विषदानस्य भोजने
प्रमाणकोट्यां पातस्य दाहस्य जतुवेश्मनि
सभायामपहासस्य सर्वस्वहरणस्य च
वर्षमज्ञातवासस्य वनवासस्य चानघ
अद्यान्तमेषां दुःखानां गन्ता भरतसत्तम
एकाह्ना विनिहत्येमं भविष्याम्यात्मनोऽनृणः
अद्यास्य धार्तराष्ट्रस्य दुर्मतेरकृतात्मनः
समाप्तं भरतश्रेष्ठ मातापित्रोश्च दर्शनम्
अद्यायं कुरुराजस्य शन्तनोः कुलपांसनः
प्राणाञ्श्रियं च राज्यं च त्यक्त्वा शेष्यति भूतले
स राजा धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम्
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम्
सञ्जयः-
इत्युक्त्वा राजशार्दूल गदामुद्यम्य वीर्यवान्
अवातिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन्
तमुद्यतगदं दृष्ट्वा कैलासमिव श्रृङ्गिणम्
भीमसेनः पुनः क्रोधाद् दुर्योधनमुवाच ह
भीमः-
राज्ञस्तु धृतराष्ट्रस्य तथा त्वमपि चात्मनः
स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते
द्रौपदी च परिक्लिष्टा सभायां यद्रजस्वला
द्यूतेन वञ्जितो राजा यत्त्वया सौबलेन च
वने दुःखं च सम्प्राप्तम् अस्माभिस्त्वत्कृतं महत्
विराटनगरे चैव योन्यन्तरगतैरिव
तत् सर्वं यातयाम्यद्य दिष्ट्या दृष्टोऽसि दुर्मते
त्वत्कृतेऽसौ हतश्शेते शरतल्पे पितामहः
गाङ्गेयो रथिनां श्रेष्ठो रथिना याज्ञसेनिना
हतो द्रोणश्च कर्णश्च तथा शल्यः प्रतापवान्
वैराग्रेरादिकर्ता च शकुनिस्सौबलो हतः
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः
भ्रातरस्ते हताश्शूरास् सर्वे विक्रान्तयोधिनः
एते चान्ये च निहताः बहवस्त्वत्कृते नृपाः
त्वामप्यद्य हनिष्यामि गदया नात्र संशयः
सञ्जयः-
इत्येवमुच्चै राजानं भाषमाणं वृकोदरम्
उवाच वीतभी राजन् पुत्रस्ते सत्यविक्रमः
दुर्योधनः-
किं कत्थनेन बहुना युध्यस्वेह वृकोदर
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां वृकोदर
इति दुर्योधनोऽक्षुद्रस् त्वया क्षुद्रबलेन वै
शक्यस्त्रासयितुं वाचा न चान्यः प्राकृतो यथा
चिरकालोप्सितं दिष्ट्या हृदयस्थमिदं मम
त्वया सह गदायुद्धं त्रिदशैरुपपादितम्
किं वाचा बहुनोक्तेन कत्थितेन च दुर्मते
वाणी सङ्कोच्यतामेषा कर्मणा मा चिरं कृथाः
सञ्जयः-
तस्य तद्वचनं श्रुत्वा सर्व एवाभ्यपूजयन्
राजानस्सोमकाश्चैव ये तत्रासन् समागताः
स तैस्सम्पूजितस्सर्वैस् सम्प्रहृष्टतनूरुहः
भूयो धीरं मनश्चक्रे युद्धाय कृतनिश्चयः
तं मत्तमिव मातङ्गं तलतालैर्नराधिपाः
भूयस्संहर्षयामासुर् दुर्योधनममर्षणमम्
तं महात्मा महात्मानं गदामुद्यम्य पाणडवः
अभिदुद्राव वेगेन तव पुत्रं वृकोदरः
बृंहन्ति कुञ्जरास्तत्र हया ह्रेषन्ति चासकृत्
शस्त्राणि चाप्यदीप्यन्त पाण्डवानां जयैषिणाम्
तदा दुर्योधनो दृष्ट्वा भीमं तथाऽऽगतम्
प्रत्युद्ययावदीनात्मा वेगेन महता नदन्
समासेदतुरायत्तौ शृङ्गिणौ वृषभाविव
महानिर्घातघोषश्च सन्निपाते तयोरभूत्
अभवच्च तयोर्युद्धं तुमुलं रोमहर्षणम्
जिघृक्षतोर्यथाऽन्योन्यम् इन्द्रप्रह्लादयोरिव
रुधिरोक्षितसर्वाङ्गौ गदाहस्तौ मनस्विनौ
ददृशाते महात्मानौ सुपुष्पाविव किंशुकौ
तदा तस्मिन् वर्तमाने गदायुद्धे सुदारुणे
खद्योतसङ्घैरिव खं दर्शनीयं व्यरोचत
तस्मिंस्तदा वर्तमाने सङ्कुले दारुणे भृशम्
उभावपि परिश्रान्तौ युध्यमानावरिन्दमौ
तौ मुहूर्तं समाश्वस्य पुनरेव परन्तपौ
सम्प्रहारयतां चित्रे सम्प्रगृह्य गदे शुभे
तौ तु दृष्ट्वा महासत्त्वौ समाश्वस्तौ नराधिप
बलिनौ वारणौ यद्वद् वाशितार्थे मदोत्कटौ
अपारवीर्यौ सम्प्रेक्ष्य प्रगृहीतगदौ दृढौ
प्रहर्षं परमं जग्मुर् देवगन्धर्वदानवाः
प्रगृहीतगदौ दृष्ट्वा दुर्योधनवृकोदरौ
संशयस्सर्वभूतानां विजये समपद्यत
समागम्य ततो भूयो भ्रातरौ बलिनां वरौ
अन्योन्यस्यान्तरप्रेप्सू प्रचक्रातेऽन्तरं प्रति
यमदण्डोपमां गुर्वीम् इन्द्राशनिसमस्वनाम्
ददृशुः प्रेक्षका राजन् रौद्रीं विशसनीं गदाम्
आविद्ध्यतो गदां तस्य भीमसेनस्य शुष्मिणः
शब्दस्सुतुमुलो घोरो मुहूर्तं समपद्यत
आविद्ध्यन्तमभिप्रेक्ष्य धार्तराष्ट्रोऽथ पाण्डवम्
गदामलघुवेगां तां विस्मितस्स बभूव ह
चरंश्च विविधान् मार्गान् मण्डलानि च भागशः
अशोभत तदा वीरो भूय एव वृकोदरः
तौ परस्परमासाद्य यत्तावन्योन्यरक्षणे
मार्जाराविव भक्षार्थे वितस्थाते मुहुर्मुहुः
अचरद्भीमसेनस्तु मार्गान् बहुविधान् रणे
मण्डलानि विचित्राणि स्थानानि विविधानि च
गोमूत्रिकाणि चित्राणि गतप्रत्यागतानि च
परिमोक्षं प्रहाराणां वर्जनं परिधावनम्
अभिद्रवणमाक्षेपम् अवस्थानमवग्रहम्
मत्स्योद्वृत्तं सोरुवृत्तम् अवप्लुतमथाप्लुतम्
उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ
एवं तौ विचरन्तौ तु परस्परमविध्यताम्
वञ्चयन्तौ पुनश्चैव चेरतुः कुरुपाण्डवौ
विक्रीडन्तौ सुबलिनौ मण्डलानि विचेरतुः
गदाहस्तौ ततस्तौ तु मण्डलावस्थितौ युधि
दक्षिणं मण्डलं राजन् धार्तराष्ट्रोऽभ्यवर्तत
वामं तु मण्डलं तत्र भीमसेनोऽभ्यवर्तत
तथा विचरतस्तस्य भीमस्य रणमूर्धनि
दुर्योधनो महाराज पार्श्वदेशेऽभ्यताडयत्
आहतस्तु ततो भीमस् तव पुत्रेण भारत
आविध्यत गदां गुवीं प्रहारं तमचिन्तयन्
इन्द्राशनिसमां घोरां यमदण्डमिवोद्यताम्
ददृशुस्ते महाराज भीमसेनस्य तां गदाम्
आविध्यन्तं गदां दृष्ट्वा भीमसेनं तवात्मजः
स्वामुद्यम्य गदां घोरां प्रत्ययुध्यत कौरवः
गदामारुतवेगेन तव पुत्रस्य भारत
शब्द आसीत् सुतुमुलस् तेजश्च समजायत
स चरन् विविधान् मार्गान् मण्डलानि च भारत
समशोभत तेजस्वी भूयो भीमात् सुयोधनः
आविद्धा भीमसेनेन सुभीमा महती गदा
सधूमं सार्चिषं चाग्निं मुमोचोग्रं महास्वनम्
आधूतां भीमसेनेन गदां दृष्ट्वा सुयोधनः
अद्रिसारमयीं गुर्वीम् आविध्यन् बह्वशोभत
गदां मारुतवेगां तां दृष्ट्वा तस्य महात्मनः
भयं पाण्डूनाविवेश सर्वानेव ससात्यकान्
तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः
गदाभ्यां सहसाऽन्योन्यस् आजघ्नतुररिन्दमौ
तौ परस्परमासाद्य दन्ताभ्यां द्विरदौ यथा
अशोभेतां महाराज शोणितेन परिप्लुतौ
एवं तदभवद्युद्धं घोररूपमसंवृतम्
परावृत्तेऽहनि क्रूरं वृत्रवासवयोरिव
दृष्ट्वा व्यवस्थितं भीमं तव पुत्रो महारथः
चरंश्चित्रतरान् मार्गान् कौन्तेयं समभिद्रवत्
तस्य भीमो महावेगां जाम्बूनदविभूषिताम्
अतिक्रुद्धस्य क्रुद्धस्तु ताडयामास तां गदाम्
सविष्फुलिङ्गो निर्ह्रादस् तयोस्तत्राभिघातजः
प्रादुरासीन्महाराज घृष्टयोर्वज्रयोरिव
वेगवत्या तया तत्र भीमसेनप्रमुक्तया
निपतन्त्या महाराज पृथिवी समकम्पत
तां नामृष्यत कौरव्यो गदां प्रतिहतां रणे
मत्तो द्विप इव क्रुद्धः प्रतिकुञ्जरदर्शनात्
स सव्यं मण्डलं राजन्नुद्भ्राम्य विगतक्लमः
आजघ्ने मूर्ध्नि कौन्तेयं गदया भीमवेगया
तया त्वभिहतो भीमस् तव पुत्रेण पाण्डवः
नाकम्पत महाराज तदद्भुतमिवाभवत्
आश्चर्यं चापि तद्राजन् सर्वसैन्यान्यपूजयन्
यद्गदाभिहतो भीमो नाकम्पत पदात् पदम्
ततो गुरुतरां दीप्तां गदां हेमपरिष्कृताम्
दुर्योधनाय व्यसृजत् तदद्भुतमिवाभवत्
तं प्रहारमसम्भ्रान्तो लाघवेन महाबलः
मोघं दुर्योधनश्चक्रे तत्राभूद्विस्मयो महान्
सा तु मोघा गदा राजन् पतन्ती भीमचोदिता
चालयामास पृथिवीं महानिर्घातनिस्स्वनाः
आस्थाय कौशिकान् मार्गान् उत्पपात पुनः पुनः
गदानिपातं प्रज्ञाय भीमसेनमवञ्चयत्
वञ्चयित्वा ततो भीमं गदया कुरुसत्तमः
अताडयदसम्भ्रान्तो वक्षोदेशे महाबलः
गदयाऽभिहतो भीमो मुह्यमानो महारणे
नाभिजानाति कर्तव्यं पुत्रेणाभ्याहतस्तव
तस्मिंस्तथा गते भीमे राजन् सोमकपाण्डवाः
भृशोपहतसङ्कल्पा नातिप्रमनसोऽभवन्
स तु तेन प्रहारेण मातङ्ग इव रोषितः
हस्तीव हस्तिसङ्काशम् अभिदुद्राव ते सुतम्
ततस्सरभसो भीमो गदया तनयं तव
अभिदुद्राव वेगेन सिंहो वनगजं यथा
उपसृत्य तु राजानं गदामोक्षविशारदः
आविध्यत गदां घोरां समुद्दिश्य सुतं तव
अताडयद्भीमसेनः पार्श्वे दुर्योधनं तदा
स विह्वलः प्रहारेण जानुभ्यामवनिं गतः
तस्मिस्तु भरतश्रेष्ठे जानुभ्यामवनीं गते
उदतिष्ठन्महानादस् सृञ्जयानां जगत्पते
तेषां तु निनदं श्रुत्वा सृञ्जयानां जनाधिपः
अमर्षाद्भरतश्रेष्ठः पुत्रस्ते समकुप्यत
उत्थाय तु महाबाहुः क्रुद्धो नाग इव श्वसन्
दिधक्षन्निव नेत्राभ्यां भीमसेनमवैक्षत
ततस्स भरतश्रेष्ठो भीमसेनमभिद्रवत्
प्रमथिष्यन्निव शिरो भीमसेनस्य संयुगे
स महात्मा महात्मानं भीमसेनमरिन्दमम्
अताडयच्छङ्खदेशे न चचालाचलोपमः
भूयस्स शुशुभे पार्थस् ताडितो गदया भृशम्
उद्भिन्नरुधिरो राजन् प्रभिन्न इव कुञ्चरः
ततो गदां वीरहणीमयस्मयीं प्रगृह्य वज्राशनितुल्यनिस्स्वनाम्
अताडयच्छत्रुममित्रकर्शनो बलेन विक्रम्य धनञ्जयाग्रजः
स भीमसेनाभिहतस्तवात्मजः पपात सङ्कम्पितदेहबन्धनः
सुपुष्पितो मारुतवेगताडितो वने महासाल इवावचूर्णितः
ततः प्रणेदुर्जहृषुश्च पाण्डवास् समीक्ष्य पुत्रं पतितं क्षितौ तव
ततस्सुतस्ते प्रतिलभ्य चेतनां समुत्पपात द्विरदो हृदादिव
स पार्थिवो नित्यममर्षितस्तदा महारथश्शिक्षितवत् परिभ्रमन्
अताडयत् पाण्डवमग्रतस्स्थितं स विह्वलाङ्गो जगतीमुपास्पृशत्
स सिंहनादान् विननाद पार्थिवो निपात्य भूमौ युधि भीममोजसा
बिभेद चेन्द्राशनितुल्यतेजसा गदानिपातेन शरीररक्षणम्
ततोऽन्तरिक्षे निनदो महानभूद् दिवौकसामप्सरसां निषेदुषाम्
पपात चोच्चैरमरप्रचोदितं विचित्रपुष्पोत्करवर्षमुत्तमम्
ततः परानाविशदुत्तमं भयं समीक्ष्य भीमं पतितं नरर्षभम्
अहीयमानं च बलेन कौरवं निशाम्य भेदं च दृढस्य वर्मणः
ततो मुहूर्तात् प्रतिलभ्य चेतनां प्रमृज्य वक्त्रं रुधिरार्द्रमात्मनः
धृतिं समालम्ब्य विवृत्तलोचनो बलेन संस्तभ्य वृकोदरस्स्थितः
ततो यमौ यमसदृशौ पराक्रमे सपार्षतश्शिनितनयश्च वीर्यवान्
समाह्वयन्नहमहमित्यभित्वरंस् तवात्मजं समभिययुर्जयैषिणः
निगृह्य तान् पुनरपि पाण्डवो बली तवात्मजं स्वयमभिगम्य कालवत्
चचार च व्यपगतखेदवेपथुस् सुरेश्वरो नमुचिमिवोत्तमं रणे