सञ्जयः-
रामसान्निध्यमागम्य पुत्रो दुर्योधनस्तव
योद्धुकामो महाबाहुस् समहृष्यत वीर्यवान्
दृष्ट्वा लाङ्गलिनं राजा प्रत्युत्थाय च भारत
प्रीत्या परमया युक्तो युधिष्ठिरमथाब्रवीत्
दुर्योधनः-
समन्तपञ्चकं पुण्यम् इतो याम विशां पते
प्रथितोत्तरवेदिस्सा ब्रह्मलोके प्रजापतेः
तस्मिन् ध्रुवे पुण्यतमे त्रैलोक्यस्य सनातने
सङ्ग्रामे निधनं प्राप्य ध्रुवं स्वर्गं गमिष्यसि
सञ्जयः-
तथेत्युक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः
समन्तपञ्चकं वीरः प्रायादभिमुखः प्रभुः
ततो दुर्योधनो राजा प्रगृह्य महतीं गदाम्
पद्भ्याममर्षी द्युतिमान् अगच्छत् पाण्डवैस्सह
तथा यान्तं गदाहस्तं वर्मिणं चापि दंशितम्
अन्तरिक्षचरा देवास् साधु साध्वित्यपूजयन्
वादकाश्च नरास्तत्र दृष्ट्वा ते हर्षमागताः
स पाण्डवैः परिवृतः कुरुराजस्तवात्मजः
मत्तस्येव गजेन्द्रस्य गतिमास्थाय सोऽव्रजत्
ततश्शङ्खनिनादैश्च भेरीणां च महास्वनैः
सिंहनादैश्च शूराणां दिशस्सर्वाः प्रपूरिताः
प्रतीच्याभिसुखं देशं यथोद्दिष्टं सुतेन ते
गत्वा च तैः परिक्षिप्तं समन्तात् सर्वतोदिशम्
दक्षिणेन सरस्वत्यास् स्वयं तत्तीर्थमुत्तमम्
तस्मिन् देशे त्वतिरथास् तत्र युद्धमरोचयन्
ततो भीमो महाकोटिं गदां गृह्य च धर्मधृत्
बिभ्रद्रूपं महाराज सदृशं हि गरुत्मतः
अवबद्धशिरस्त्राणश् शुद्धकाञ्चनवर्मधृक्
रराज राजन् पुत्रस्ते काञ्चनश्शैलराडिव
तद्यथा सङ्गतौ वीरौ भीमदुर्योधनावुभौ
संयुगे सम्प्रकाशेते संरब्धाविव कुञ्जरौ
रथमण्डलमध्यस्थौ भ्रातरौ भरतर्षभौ
अशोभेतां महाराज चन्द्रसूर्याविवोदितौ
तावन्योन्यं निरीक्षन्तौ क्रुद्धाविव महोरगौ
दहन्तौ लोचनैर्वीरौ परस्परवधैषिणौ
सम्प्रहृष्टमना राजन् गदामादाय पाण्डवः
सृक्विणी सँल्लिहन् राजन् क्रोधताम्रेक्षणश्श्वसन्
ततो दुर्योधनो राजन् गदामादाय भारत
भीमो भीममभिप्रेक्ष्य गजो गजमिवाह्वयत्
अद्रिसारमयीं वीरस् तथैवादाय वेगवान्
आह्वयामास नृपतिं सिंहं सिंहो यथा वने
तावुद्यतगदापाणी दुर्योधनवृकोदरौ
संयुगे सम्प्रकाशेते गिरी सशिखराविव
तावुभावपि सङ्क्रुद्धावुभौ भीमपराक्रमौ
उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः
उभौ सदृशकर्माणौ वरुणस्य महाबलौ
वासुदेवस्य रामस्य तथा वैश्रवणस्य च
सदृशौ तौ महाराज मधुकैटभयोरपि
उभौ सदृशकर्माणौ रणे सुन्दोपसुन्दयोः
तथैव कालस्य सदृशौ मृत्योश्चैव परन्तपौ
अन्योन्यमभिगर्जन्तौ मत्ताविव महागजौ
वाशितासङ्गमे दृप्तौ शरदीव मदोत्कटौ
मत्ताविव जिगीपन्तौ मातङ्गौ भरतर्षभौ
उभौ क्रोधविषं तीव्रं वमन्तावुरगाविव
अन्योन्यमभिसंरब्धौ प्रेक्षमाणावरिन्दमौ
उभौ भरतशार्दूलौ विक्रमेण बलेन च
सिंहाविव दुराधर्षौ गदायुद्धे परन्तपौ
नखदंष्ट्रायुधौ वीरौ सिंहाविव दुरुत्सहौ
प्रजासंहरणे क्षुब्धौ समुद्राविव दुस्तरौ
लोहितार्कविव क्रुद्धौ प्रतपन्तौ महारथौ
रश्मिमन्तौ महात्मानौ गदाहस्तौ विशां पते
उभौ परमसंहृष्टावुभौ परमसम्मतौ
सदश्वाविव हेषन्तौ बृंहन्तौ कुञ्जराविव
वृषभाविव गर्जन्तौ दुर्योधनवृकोदरौ
दैत्याविव बलोन्मत्तौ रेजतुस्तौ नरोत्तमौ
ततो दुर्योधनो राजन्निदमाह युधिष्ठिरम्
सृञ्जयैस्सह तिष्ठन्तं तपन्तमिव भास्करम्
दुर्योधनः-
इदं व्यवसितं युद्धं मम भीमस्य चोभयोः
उपोपविष्टाः पश्यध्वं विमर्दं नृपसत्तमाः
सञ्जयः-
ततस्समुपविष्टं तत् सुमहद्राजमण्डलम्
विराजमानं ददृशे दिवीवादित्यमण्डलम्
तेषां मध्ये महाबाहुश् श्रीमान् केशवपूर्वजः
उपविष्टो महाराज पूज्यमानः पुनः पुनः
शुशुभे राजमध्यस्थो नीलवासास्सितप्रभः
नक्षत्रैरिव सम्पूर्णो वृतो निशि निशाकरः
तौ तदा तु महाराज गदाहस्तौ दुरासदौ
अन्योन्यं वाग्भिरुग्राभिस् तक्षमाणौ व्यवस्थितौ
अप्रियाणि ततोऽन्योन्यस् उक्त्वा तौ नरपुङ्गवौ
उदीक्षन्तौ स्थितौ वीरौ वृत्रशक्राविवाहवे