वैशम्पायनः-
कुरुक्षेत्रं ततो गत्वा दत्त्वा देयांश्च सात्वतः
आश्रमं सुमहद्दिव्यम् अगमज्जनमेजय
मधूकाम्रवणोपेतं प्लक्षन्यग्रोधसङ्कुलम्
चिरबिल्वयुतं पुण्यं पनसार्जुनसंयुतम्
तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम्
पप्रच्छ तानृषीन् सर्वान् कस्यायं ह्याश्रमो वरः
ते च सर्वे महात्मानम् ऊचू राजन् हलायुधम्
ऋषयः-
शृणु विस्तरशो राम यस्यायं पूर्वमाश्रमः
अत्र विष्णुः पुरा देवस् तप्तवांस्तप उत्तमम्
अत्रास्य विधिवद्यज्ञास् सर्वे वृत्ताः पुरातनाः
अत्रैव ब्राह्मणी वृद्धा कौमारब्रह्मचारिणी
योगयुक्ता दिवं याता तपोयुक्ता विशां पते
बभूव श्रीमती राजञ् शाण्डिल्यस्य महात्मनः
सुता धृतव्रता साध्वी नियता ब्रह्मचारिणी
साऽपि प्राप्य परं योगं गत्वा स्वर्गमनुत्तमम्
भुक्त्वाऽश्रमेऽश्वमेधस्य फलं फलवतश्शुभम्
गता स्वर्गं महाराज पूजिता च महात्मभिः
अभिगम्याश्रमं पुण्यं स दृष्ट्वा यदुनन्दनः
ऋषींस्तानभिवाद्याथ पार्श्वे हिमवतोऽच्युतः
सन्ध्याकार्याणि सर्वाणि निर्वर्त्यारुरुहेऽचलम्
नातिदूरं ततो गत्वा रामस्तालध्वजो बली
पुण्ये तीर्थवरे स्नात्वा विस्मयं परमं गतः
प्रभवं च सरस्वत्याः प्लक्षप्रस्रवणं बलः
सम्प्राप्तः कारपचनं तीर्थप्रवरमुत्तमम्
हलायुधस्तु तत्रापि दत्त्वा दानं महाबलः
आप्लुतस्सलिले शीते तस्माच्चापि जगाम ह
आश्रमं परमप्रीतो मित्रस्य वरुणस्य च
इन्द्राग्नि अर्यमा चैव यत्र प्राक् प्रीतिमाप्नुवन्
तं देशं कारपचनं स तस्मादाजगाम ह
स्नात्वा तत्रापि धर्मात्मा परां तुष्टिमवाप्य च
ऋषिभिश्चैव सिद्धैश्च सहितो वै महाबलः
उपविष्टः कथाश्शुभ्राश् शुश्राव यदुनन्दनः
तथा तु तिष्ठतां तेषां नारदो भगवान् ऋषिः
आजगामाथ तं देशं यत्र रामो व्यवस्थितः
जटामण्डलसंवीतः कुशचीरी महायशाः
हेमदण्डधरो राजन् कमण्डलुधरस्तथा
महतीं सुखशब्दां तां गृह्य वीणां मनोरमाम्
नृत्ये गीते च कुशलो देवब्राह्मणपूजितः
प्रेरकः कलहानां च नित्यं च कलहप्रियः
तं देशमगमच्छ्रीमान् यत्र रामो हलायुधः
प्रत्युत्थाय च तं रामः पूजयित्वा यतव्रतम्
देवर्षिं पर्यपृच्छत्तं यथावृत्तं कुरून् प्रति
तदाऽस्याकथयद्राजन् नारदस्सर्ववेदवित्
सर्वमेव यथातत्वम् अतीतं कुरुसङ्क्षयम्
ततोऽब्रवीद्रौहिणेयो नारदं दीनया गिरा
रामः-
किमवस्थं तु तत् क्षत्रं ये तु तत्राभवन् नृपाः
श्रुतमेतन्मया पूर्वं सर्वमेव तपोधन
विस्तरश्रवणे जातं कौतूहलमतीव मे
नारदः-
पूर्वमेव हतो भीष्मो द्रोणस्सेनापतिस्तथा
हतो वैकर्तनः कर्णः पुत्राश्चास्य महाबलाः
भूरिश्रवा रौहिणेय मद्रराजश्च वीर्यवान्
एते चान्ये च बहवो हतास्तत्र महाबलाः
प्रियान् प्राणान् परित्यज्य प्रियार्थं कौरवस्य वै
राजानो राजपुत्राश्च समरेष्वनिवर्तिनः
अहतांस्तु महाबाहो शृणु ये तत्र माधव
धार्तराष्ट्रे बले शेषाः कृपो भोजश्च वीर्यवान्
अश्वत्थामा च विक्रान्तो भग्नसैन्या दिशो गताः
दुर्योधनो हते सैन्ये विद्रुतेषु पदातिषु
ह्रदं द्वैपायनं नाम विवेश भृशदुःखितः
शयानं धार्तराष्ट्रं तु स्तम्भिते सलिले तदा
पाण्डवा्स्सह कृष्णेन वाग्भिरुग्राभिरार्दयन्
स तुद्यमानो बलवान् वाग्भी राम समन्ततः
उत्थितोऽभूद्ध्रदाद्वीरः प्रगृह्य महतीं गदाम्
स चाभ्युपागतो योद्धुं भीमसेनेन साम्प्रतम्
भविष्यति हि तत्त्वद्य तयो राम सुदारुणम्
यदि कौतूहलं तेऽस्ति व्रज माधव मा चिरम्
पश्य युद्धं महाघोरं शिष्ययोर्यदि मन्यसे
वैशम्पायनः-
नारदवचश्श्रुत्वा तानभ्यर्च्य द्विजर्षभान्
सर्वान् विसर्जयामास ये तेनाभ्यागतास्सह
गम्यतां द्वारकां चेति सोऽन्वशादनुयायिनः
सोऽवतीर्याचलश्रेष्ठात् प्लक्षप्रस्रवणात् ततः
स तु प्रीतमनाः रामश् श्रुत्वा तीर्थवरं महत्
विप्राणामग्रतश्श्लोकम् अगायदमितद्युतिः
रामः-
सरस्वतीवाससमा कुतो रतिस् सरस्वतीवाससमाः कुतो गुणाः
सरस्वतीहीनविदेशवासिनस् सदा स्मरिष्यन्ति सरस्वतीं नदीम्
सरस्वती सर्वनदीषु पुण्या सरस्वती लोकसुखावहा च
सरस्वतीं प्राप्य नरास्सुदुष्कृतस् सदा न शोचन्ति परत्र चेह च
वैशम्पायनः-
ततो मुहुर्मुहुर्भक्त्या प्रेक्षमाणस्सरस्वतीम्
हयैर्युक्तं रथं शीघ्रम् आरुरोह परन्तपः
स शीघ्रगामिना तेन रथेन यदुपुङ्गवः
दिदृक्षुरभिसम्प्राप्तश् शिष्ययुद्धमुपस्थितम्
एवं तद्युद्धमभवत् तुमुलं जनमेजय
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम्
धृतराष्ट्रः-
रामं सन्निहितं श्रुत्वा गदायुद्ध उपस्थिते
मम पुत्रः कथं भीमं प्रत्ययुध्यत सञ्जय