ऋषयः-
प्रजापतेरुत्तरवेदिरुच्यते सनातनं राम समन्तपञ्चकम्
समीजिरे यत्र दिवौकसः पुरा वरेण सत्रेण महावरप्रदाः
पुरा हि राजर्षिवरेण धीमता बहूनि वर्षाण्यमितेन तेजसा
प्रकृष्टमेतत् कुरुणा महात्मना ततः कुरुक्षेत्रमिहिच्यते बुधैः
रामः-
किमर्थं कुरुणा कृष्टं क्षेत्रमेतन्महात्मना
एतदिच्छाम्यहं श्रोतुं कथ्यमानं तपोधनाः
ऋषयः-
पुरा किल कुरुं राम कर्षन्तं सहसोत्थितम्
अभ्येत्य शक्रस्त्रिदिवात् पर्यपृच्छत कारणम्
इन्द्रः-
किमिदं वर्तते कर्म प्रयत्नेन परेण ह
राजर्षे किमभिप्रेतं येदियं कृष्यते मही
कुरुः-
इह ये पुरुषाव्याघ्रा जनिष्यन्ति शतक्रतो
ते गमिष्यन्ति सुकृताल्ँलोकान् पापविवर्जिताः
ऋषयः-
अपहास्य तु तं शक्रो जगाम त्रिदिवं पुनः
राजर्षिरप्यनिर्विण्णः कर्षत्येव वसुन्धराम्
आगम्यागम्य चैवैह भूयो भूयोऽपहास्य च
शतक्रतुरनिर्विण्णं दृष्ट्वा दृष्ट्वा जगाम ह
यदा तु तपसोग्रेण चकर्ष वसुधां नृपः
ततश्शक्रोऽब्रवीद्देवान् राजर्षेर्यच्चिकीर्षितम्
तच्छ्रुत्वाथाब्रुवन् देवास् सहस्राक्षमिदं वचः
देवाः-
वरेण च्छन्द्यतां शक्र राजर्षिर्यदि शक्यते
ऋषयः-
यदि ह्यत्र प्रसूता वै स्वर्गं गच्छन्ति मानवाः
अस्माननिष्ट्वा क्रतुभिर् भागो नो न भविष्यति
आगम्य च ततश्शक्रस् तदा राजर्षिमब्रवीत्
इन्द्रः-
अलं खेदेन भवतः क्रियतां वचनं मम
मानवा ये निराहारा देहं त्यक्ष्यन्त्यतन्द्रिताः
युधि वा निहतास्सम्यग् अपि तिर्यग्गता नृप
ते स्वर्गभाजो राजेन्द्र भवन्त्विह महामते
ऋषयः-
तथाऽस्त्विति ततो राजा कुरुश्शक्रमुवाच ह
ततस्तमभ्यनुज्ञाप्य प्रहृष्टेनान्तरात्मना
जगाम त्रिदिवं भूयः क्षिप्रं बलनिषूदनः
एवमेतद्यदुश्रेष्ठ कृष्टं राजर्षिणा पुरा
शक्रेण चाभ्यनुज्ञातः पुण्ये प्राणान् मुमोच ह
अपि चात्र स्वयं शक्रो जगौ गाथां सुरेश्वरः
कुरुक्षेत्रनिबद्धां वै तां शृणुष्व हलायुध
इन्द्रः-
पांसवोऽपि कुरुक्षेत्रे वायुना समुदीरिताः
अपि दुष्कृतकर्माणस् ते यान्ति परमां गतिम्
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्
इत्येवं निश्चितो भूत्वा तेनैव स्वर्गमेष्यति
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्
तथा स्थानं च मौनं च वीरासनमुपास्महे
एवं प्रलपमानोऽपि चिन्तयंश्च मुहुर्मुहुः
दूरस्थो यदि वा तिष्ठल्ँलभेत् स्वर्गं सुनिश्चितम्
ऋषयः-
सुरर्षभा ब्राह्मणसत्तमाश्च तथा नृगाद्या नरदेवमुख्याः
इष्ट्वा महार्हैः क्रतुभिर्नृसिंहा्स सन्न्यस्तदेहास्सुगतिं प्रपन्नाः
अरुन्दुकारन्तुकयोर्यदन्तरं रामह्रदानां च चमन्दुकस्य
एतत् कुरुक्षेत्रसमन्तपञ्चकं पितामहस्योत्तरवेदिरुच्यते
इदं शिवं पुण्यतमं दिवौकसां सुसम्मतं स्वर्गगुणैस्समन्वितम्
अतश्च सर्वेऽत्र वसुन्धरादिपा हता गमिष्यन्ति महात्मनां गतिम्