जनमेजयः-
कथं कुमारी भगवंस् तपोयुक्ता ह्यभूत् पुरा
किमर्थं च तपस्तेपे को वाऽस्या नियमोऽभवत्
सुदुष्करमिदं ब्रह्मंस् त्वत्तश्श्रुतमनुत्तमम्
आख्याहि तत्त्वमखिलं कथं सा तपसि स्थिता
वैशम्पायनः-
ऋषिरासीन्महावीर्यः कुणिर्गार्ग्यो महायशाः
तप्त्वा तु विपुलं राजंस् तपस्तु तपतां वरः
तपसा संयुता सुभ्रूस् समुत्पन्ना महात्मनः
तां च दृष्ट्वा भृशं प्रीतः कुणिर्गार्ग्यो महायशाः
जगाम त्रिदिवं राजन् सन्त्यज्य स्वकलेबरम्
सुभ्रूस्साऽप्यथ कल्याणी पुण्डरीकनिभेक्षणा
महता तपसोग्रेण कृत्वाऽऽश्रममनिन्दिता
उपवासैः पूजयन्ती पितॄन् देवांश्च सा पुरा
तस्यास्तु तपसोग्रेण महान् कालोऽत्यगान्नृप
सा पित्रा दीयमानाऽपि पतिं नैच्छदनिन्दिता
आत्मनस्सदृशं सा तु भर्तारं नान्वपद्यत
ततस्सा तपसोग्रेण पीडयित्वाऽऽत्मनस्तनुम्
पितृदेवार्चनरता बभूव विजने वने
साऽऽत्मानं मन्यमाना तु कृतकृत्यं श्रमान्विता
जगाम वृद्धभावं तु कृतकृत्यं श्रमान्विता
वार्धकेन च राजेन्द्र तपसैव च कर्शिता
सा नाशकद्यदा गन्तुं पदात् पदमपि स्वयम्
चकार गमने बुद्धिं परलोकाय वै तदा
मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदोऽब्रवीत्
नारदः-
असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघे
एवं हि श्रुतमस्माभिर् देवलोके महाव्रते
वैशम्पायनः-
तपः परमकं प्राप्य न तु लोकास्त्वया जिताः
तन्नारदवचश्श्रुत्वा साऽब्रवीदृषिसंसदि
वृद्धकन्या-
तपसोऽर्धं प्रयच्छामि पाणिग्राहस्य सत्तमाः
वैशम्पायनः-
इत्युक्तेऽस्यास्तु जग्राह पाणिं गालवसम्भवः
ऋषिः प्राक् शृङ्गवान्नाम समयं चेममब्रवीत्
श्रृङ्गवान्-
समयेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने
यद्येकरात्रं वस्तव्यं त्वया सह मयेति वै
वैशम्पायनः-
तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ ततः
चक्रे च पाणिग्रहणं तस्योद्वाहं च गालवः
सा रात्रावभवद्राजंस् तरुणी दिव्यरूपिणी
दिव्याभरणवस्त्रा च दिव्यस्रगनुलेपना
तां दृष्ट्वा गालवः प्रीतो दीपयन्तीमिवात्मना
उवास च क्षपामेकां प्रभाते साऽब्रवीच्च तम्
वृद्धकन्याः-
यस्त्वया समयो ब्रह्मन् कृतो ब्रह्मर्षिसंसदि
तेनोषिताऽस्मि भद्रं ते स्वस्ति तेऽस्तु व्रजाम्यहम्
वैशम्पायनः-
सा तु ध्यात्वाऽब्रवीद्भूयो योऽस्मिंस्तीर्थे समाहितः
उषीत्वा रजनीमेकां तर्पयित्वा दिवौकसः
चत्वारिंशतमष्टौ च द्वौ चाष्टौ सम्यगाचरेत्
ब्रह्मचर्यं हि शान्तात्मा फलं तस्य लभेत सः
एवमुक्त्वा ततस्साध्वी देहं त्यक्त्वा दिवं ययौ
ऋषिरप्यभवद्दीनो रूपं तस्या विचिन्तयन्
समयेन तपोऽर्धं च कृच्छ्रात् प्रतिगृहीतवान्
साधयित्वा तदाऽऽत्मानं तस्यास्सङ्गतिमन्वयात्
दुःखितो भरतश्रेष्ठ तस्या रूपबलात्कृतः
एतत्ते वृद्धकन्याया व्याख्यातं चरितं महत्
तत्रस्थोऽपि च शुश्राव हतं शल्यं हलायुधः
तत्रापि दत्त्वा दानानि द्विजातिभ्यः परन्तपः
शुशोच शल्यं सङ्ग्रामे निहतं पाण्डवैस्तदा
समन्तपञ्चकद्वारात् ततो निष्क्रम्य माधवः
पप्रच्छर्षिगणान् रामः कुरुक्षेत्रस्य यत् फलम्
ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभो
समाचख्युर्महात्मानस् तस्मै सर्वं यथातथम्