वैशम्पायनः-
यत्रेजिवानुडुपती राजसूयेन भारत
यस्मिन् वृत्ते महानासीत् सङ्ग्रामस्तारकामयः
ततस्तत्राप्युपस्पृश्य दत्त्वा दानानि चात्मवान्
सारस्वतस्य धर्मात्मा मुनेस्तीर्थं जगाम सः
यत्र द्वादशवार्षिक्याम् अनावृष्ट्यां द्विजोत्तमान्
वेदानध्यापयामास पुरा सारस्वतो मुनिः
जनमेजयः-
कथं द्वादशवार्षिक्याम् अनावृष्ट्यां द्विजोत्तमान्
वेदानध्यापयामास तदा सारस्वतो मुनिः
वैशम्पायनः-
आसीत् पूर्वं महाराज मुनिर्धीमान् महायशाः
दधीचिरिति विख्यातो ब्रह्मचारी जितेन्द्रियः
तस्यातितपसश्शक्रो बिभेति सततं विभो
न च लोभयितुं शक्यः फलैर्बहुविधैरपि
प्रलोभनार्थं तस्याथ प्राहिणोत् पाकशासनः
दिव्यामप्सरसं मुख्यां दर्शनीयामलम्बुसाम्
तस्य तर्पयतो देवान् सरस्वत्यां महात्मनः
समीपतो महाराज सोपातिष्ठत भामिनी
तां दिव्यवपुषं दृष्ट्वा तस्यर्षेर्भावितात्मनः
रेतस्स्कन्नं सरस्वत्यां तत् सा जग्राह निम्नगा
कुक्षौ चाप्यदधद्धृष्टा तद्रेतः पुरुषर्षभ
सा दधार च तं गर्भं पुत्रहेतोर्महात्मनः
सुषुवे चापि समये पुत्रं सारस्वतं वरम्
जगाम पुत्रमादाय तमृषिं प्रति च प्रभो
सरस्वती नदी-
ऋषिसंसदि तं दृष्ट्वा सा दधीचमृषिसत्तमम्
ततः प्रोवाच राजेन्द्र ददती पुत्रमस्य वै
ब्रह्मर्षे तव पुत्रोऽयं त्वद्भक्त्या धारितो मया
दृष्ट्वा तेऽप्सरसं रेतो यत् स्कन्नं प्रागलम्बुसाम्
तत् कुक्षिणाऽहं ब्रह्मर्षे भक्त्या धृतवती तव
न विनाशमिदं गच्छेत् त्वत्तेज इति निश्चयात्
प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तमनिन्दितम्
वैशम्पायनः-
इत्युक्तः प्रतिजग्राह प्रीतिं चावाहदुत्तमाम्
पितृवच्चोपजिघ्रत्तं मूर्ध्नि प्रेम्णा द्विजोत्तमः
परिष्वज्य चिरं कालं तदा भरतसत्तम
सरस्वत्यै वरं प्रादात् प्रीयमाणो द्विजोत्तमः
दधीचः-
विश्वे देवास्सपितरो गन्धर्वाप्सरसां गणाः
तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास्तवाम्भसा
वैशम्पायनः-
इत्युक्त्वा तां स तुष्टाव वचोभिर्विविधैस्तदा
प्रीतः परमहृष्टात्मा यथावच्छृणु पार्थिव
दधीचः-
प्रस्रुताऽसि महाभागे सरसो ब्रह्मणः पुरा
जानन्ति त्वां सरिच्छ्रेष्ठे मुनयस्संशितव्रताः
मम प्रियकरी चापि सततं प्रियदर्शने
तस्मात् सारस्वतं पुत्रम् अदधा वरवर्णिनि
तवैव नाम्ना प्रथितः पुत्रस्ते लोकभावनः
सारस्वत इति ख्यातो भविष्यति महातपाः
एष द्वादशवार्षिक्याम् अनावृष्ट्यां द्विजोत्तभान्
सारस्वतो महाभागे वेदानध्यापयिष्यति
पुण्याभ्यश्च सरिद्भ्यस्त्वं मता पुण्यतमा शुभे
भविष्यसि महाभागे मत्प्रसादात् सरस्वति
वैशम्पायनः-
एवं सा संस्तुता तेन वरं लब्ध्वा महानदी
पुत्रमादाय मुदिता जगाम भरतर्षभ
एतस्मिन्नेव काले तु विरोधे देवदानवैः
शक्रः प्रहरणान्वेषी त्रीँल्लोकान् विचचार ह
न चोपलेभे भगवाञ् शक्रः प्रहरणं तदा
यद्वै तेषां भवेद्योग्यं वधाय विबुधद्विषाम्
ततोऽब्रवीत् सुराञ् शक्रो न मे शक्यास्सुरारयः
ऋतेऽस्थिभिर्दधीचस्य निहन्तुं देवसत्तमाः
तस्माद्यत्नादृषिश्रेष्ठो याच्यतां कार्यसिद्धये
दधीचास्थीनि देहीति तैर्वधिष्ये रणे रिपून्
स देवैर्याचितोऽस्थीनि यत्नादृषिवरस्तदा
साहाय्यं नः कुरुष्वेति चकारैवाविचारयन्
स लोकानक्षयान् प्राप्तो देवप्रियकरस्तदा
तस्यास्थीनि ततश्शक्रस् सम्प्रहृष्टमनास्तदा
कारयामास दिव्यानि तदा प्रहरणान्युत
वज्राणि च गदाश्चैव गुरून् दण्डांश्च पुष्कलान्
स हि तीव्रेण तपसा संवृत्तः परमर्षिणा
प्रजापतिसुतेनाथ भृगुणा लोकभावनः
अतिकायस्स तेजस्वी लोकसारविनिर्मितः
जज्ञे शैलगुरुः प्रांशुर् महिम्ना प्रथितः प्रभुः
नित्यमुद्विजते चास्य तेजसा पाकशासनः
तेन वज्रेण भगवान् मन्त्रयुक्तेन भारत
विचकर्त विसृष्टेन ब्रह्मतेजोद्भवेन च
दैत्यदानववीराणां जघान नवतीर्नव
अथ काले व्यतिक्रान्ते महत्यतिभयङ्करी
अनावृष्टिरनुप्राप्ता राजन् द्वादशवार्षिकी
तस्यां द्वादशवार्षिक्याम् अनावृष्ट्यां महर्षयः
वृत्त्यर्थं प्राद्रवन् राजन् क्षुधार्तास्सर्वतोदिशः
दिग्भ्यस्तान् प्रद्रुतान् दृष्ट्वा मुनिस्सारस्वतस्तदा
गमनाय मनश्चक्रे तं प्रोवाच सरस्वती
न गन्तव्यमितः पुत्र तवाहारमहं सदा
दास्यामि मत्स्यप्रवरान् उष्यतामिह भारत
इत्युक्तस्तर्पयामास स पितॄन् देवतास्तथा
आहारमकरोन्नित्यं प्राणान् वेदांश्च धारयन्
अथ तस्यामतीतायाम् अनावृष्ट्यां महर्षयः
अन्योन्यं परिपप्रच्छुः पुनस्स्वाध्यायकारणात्
तेषां क्षुधापरीतानां नष्टा वेदा विधावताम्
सर्वेषामेव राजेन्द्र न किचित् प्रतिभाति ह
अथ कश्चिदृषिस्तेषां सारस्वतमुपेयिवान्
कुर्वाणं संशितात्मानं स्वाध्यायं मुनिपुङ्गवम्
स गत्वाऽऽचष्ट तेभ्यश्च सारस्वतमृषिं प्रभुम्
स्वाध्यायममरप्रख्यं कुर्वाणं विजने वने
ततस्सर्वे समाजग्मुस् तत्र राजन् महर्षयः
सारस्वतं मुनिश्रेष्ठम् इदमूचुस्समागताः
अस्मानध्यापयस्वेति तानुवाच ततो मुनिः
शिष्यत्वमुपगच्छध्वं विधिना च ममेत्युत
ततोऽब्रवीदृषिगणो बालस्त्वमसि पुत्रक
स तानाह न मे धर्मो नश्येदिति ततो मुनीन्
सारस्वतः-
यो ह्यधर्मेण गृह्णीयात् प्रत्रूयाद्वा ह्यधर्मतः
म्रियेतां तावुभौ क्षिप्रं स्यातां वा वैरिणावुभौ
न हायनैर्न पलितैर् न वित्तैर्न च बन्धुभिः
ऋषयश्चक्रिरे धर्मं योऽनूचानस्स नो महान्
वैशम्पायनः-
तच्छ्रुत्वा वचनं तस्य मनुयस्ते तपोधनाः
ततो वेदाननुप्राप्य पुनर्धर्मं प्रचक्रिरे
षष्टिर्मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे
सारस्वतस्य विप्रर्षेर् वेदाध्यायनकारणात्
मुष्टिं पृथक् पृथक् सर्वे दर्भाणां चाप्युपाहरन्
तस्यासनार्थं विप्रर्षेर् बालस्यापि वशे स्थिताः
तत्रापि दत्त्वा वसु रौहिणेयो महाबलः केशवपूर्वजन्मा
जगाम तीर्थं मुदितः क्रमेण तं वृद्धकन्याश्रममेव धीरः