वैशम्पायनः-
तस्मिन्नेव तु धर्मात्मा वसति स्म तपोधनः
गार्हिस्थ्यं धर्ममास्थाय ह्यसितो देवलः पुरा
धर्मनित्यश्शुचिर्दान्तो यज्ञशीलो महातपाः
कर्मणा मनसा वाचा समस्सर्वेषु साधुषु
अक्रोधनो महाराज तुल्यनिन्दाप्रियाप्रियः
प्रियाप्रिये तुल्यवृत्तिर् अभवत् समदर्शनः
काञ्चने लोष्ठके चैव समदर्शी महातपाः
देवान् वै पूजयन्नित्यम् अतिथींश्च द्विजैस्सह
ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः
तत्राभ्येत्य महाराज योगमास्थाय भिक्षुकः
जैगीषव्यो मुनिर्धीमांस् तस्मिंस्तीर्थे समाहितः
देवलस्याश्रमे राजन् न्यवसत् स महाद्युतिः
योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः
तं तत्र वसमानं तु जैगीषव्यं महामुनिम्
देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः
एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत्
जैगीषव्यो मुनिस्तं तु ददर्शाथ स देवलम्
आहारकाले मतिमान् परिव्राड् जनमेजय
उपातिष्ठत धर्मत्मा भैक्षकाले स्म देवलम्
स दृष्ट्वा भिक्षुरूपेण प्राप्तं तं तु महामुनिम्
गौरवं परमं चक्रे प्रीतिं च परमां तदा
देवलस्तु यथाशक्ति पूजयामास भारत
ऋषिदृष्टेन विधिना समाहूय समाहितः
कदाचित् तस्य नृपते देवलस्य महात्मनः
चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम्
समास्तु समतिक्रान्ता बह्व्यः पूजयतो मम
न चायमलसो भिक्षुर् अभ्यभाषत किञ्चन
एवं विगणयन्नेव स जगाम महोदधिम्
अन्तरिक्षगतश्श्रीमान् कलशं गृह्य देवलः
गच्छन्नेव स धर्मात्मा समुद्रं सरितां परिम्
जैगीषव्यं ततोऽपश्यद् गतं प्रागेव भारत
ततस्सविस्मयश्चिन्तां जगामाथासितः प्रभुः
कथं भिक्षुरचं प्राप्तस् समुद्रं सुमहातपाः
इत्येवं चिन्तयामास महर्षिरसितस्तदा
गत्वा समुद्रं विधिवच् छुचिर्जप्यं जजाप सः
कृतजप्याह्निकश्श्रीमान् आश्रमं च जगाम ह
कलशं जलपूर्णं वै गृहीत्वा जनमेजय
ततस्स प्रविशन्नेव स्वमाश्रमपदं मुनिः
आसीनमाश्रमे तत्र जैगीषव्यमपश्यत
न व्याहरति चैवैनं जैगीषव्यः कथञ्चन
काष्ठभूतो श्रमपदे वसति स्म महातपाः
तं दृष्ट्वा चाप्लुतं तोये सागरे सागरोपमम्
प्रविष्टमाश्रमपदं पूर्वमेव ददर्श सः
असितो देवलश्रीमांश् चिन्तयामास बुद्धिमान्
दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम्
चिन्तयामास राजेन्द्र तं तदा मुनिसत्तमः
मया दृष्टस्समुद्रे च आश्रमे च कथं न्वयम्
एवं विगणयन्नेव स मुनिर्मन्त्रपारगः
उत्पपाताश्रमात् तस्माद् अन्तरिक्षं विशां पते
जिज्ञासार्थं तदा भिक्षोर् जैगीषव्यस्य देवलः
सोऽन्तरिक्षेण तान् सिद्धान् समपश्यत् समागतान्
जैगीषव्यं च तैस्सिद्धैः पूज्यमानमपश्यत
न व्याहरत चैवैनं जैगीषव्यः कथञ्चन
ततोऽसितस्सुसंरब्धो व्यवसायी दृढव्रतः
अपश्यद्वै दिवं यातं जैगीषव्यं स देवलः
तस्माच्च पितृलोकं तं व्रजन्तं सोऽन्वपश्यत
पितृलोकाच्च वै याम्यं यान्तं लोकमपश्यत
तस्मदादित्यलोकं च व्रजन्तं सोऽन्वपश्यत
तस्मादभिसमुत्प्लुत्य सोमलोकमभिष्टुतम्
व्रजन्तमन्वपश्यत् तं जैगीषव्यं स देवलः
लोकान् समुत्पतन्तं च शुभानेकाग्नियाजिनाम्
अग्निष्टुतेन च तथा ये यजन्ति तपोधनाः
तत्स्थानमनुसम्प्राप्तम् अन्वपश्यत देवलः
वाजपेयं क्रतुवरं तथा बहुसुवर्णकम्
आहरन् ये महाप्राज्ञास् तेषां लोकेष्वपश्यत
यजन्ते पौण्डरीकेण राजसूयेन चैव ये
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः
द्वादशाहैश्च सत्रैश्च यजन्ते विविधैर्नृप
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः
मैत्रावरुणयोर्लोकान् आदित्यानां तथैव च
सलोकतामनुप्राप्तम् अपश्यत ततोऽसितः
रुद्राणां च वसूनां च स्थानं यच्च बृहस्पतेः
तानि सर्वाण्यतीतं च तमपश्यत् ततोऽसितः
आरुह्य च गवां लोकं प्रयान्तं ब्रह्मसत्रिणाम्
लोकानपश्यद्गच्छन्तं जैगीषव्यं ततोऽसितः
त्रील्ँलोकान् प्रवरान् विप्रम् उत्पतन्तं स्वतेजसा
पतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत
तदा मुनिवरं भूयो जैगीषव्यमथासितः
नान्वपश्यत योगस्थं जैगीषव्यमरिन्दम
सोऽचिन्तयन्महाभागो जैगीषव्यस्य देवलः
प्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम्
असितोऽपृच्छत तदा सिद्धाल्ँलोकेषु सत्तमान्
प्रयतः प्राञ्जलिर्भूत्वा धीरस्तान् ब्रह्मचारिणः
जैगीषव्यं न पश्यामि तं शंसन्तु तपोधनाः
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे
सिद्धाः-
शृणु देवल भूतार्थं शंसतां नो दृढव्रत
जैगीषव्यो गतो लोकं शाश्वतं ब्रह्मणोऽक्षयम्
वैशम्पायनः-
श्रुत्वा तु वचनं तेषां सिद्धानां ब्रह्मचारिणाम्
असितो देवलस्तूर्णम् उत्पपात द्रुतं तदा
ततस्सिद्धास्त ऊचुस्तं देवलं पुनरेव ह
सिद्धाः-
न देवलगतिस्तत्र तव गन्तुं तपोधन
ब्रह्मणस्सदनं विप्र जैगीषव्यो यदाप्तवान्
वैशम्पायनः-
तेषां तद्वचनं श्रुत्वा सिद्धानां देवलस्तदा
आनुपूर्व्येण लोकांस्तान् सर्वानवततार च
स्वं चाश्रमपदं पुण्यम् आजगाम पतङ्गवत्
प्रविशन्नेव चापश्यज् जैगीषव्यं स देवलः
ततो बुद्ध्या व्यगणयद् देवलो धर्मयुक्तया
दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम्
देवलः-
ततोऽब्रवीन्महात्मानं जैगीषव्यं स देवलः
विनयावनतो राजन्नुवाच समहातपाः
मोक्षधर्मं समास्थातुम् इच्छेयं भगवन्नहम्
वैशम्पायनः-
तस्य तद्वचनं श्रुत्वा उपदेशं चकार सः
विधिं योगस्य परमं कार्याकार्यं च सर्वशः
सन्न्यासे कृतबुद्धिं तं ततो दृष्ट्वा महातपाः
सर्वाश्चास्य क्रियाश्चक्रे विधिदृष्टेन कर्मणा
सन्न्यासे कृतबुद्धिं तं भूतानि पितृभिस्सह
सर्वे दृष्ट्वा प्ररुरुदुः कोऽस्मान् सम्म्भावयिष्यति
ततस्तु फलमूलानि पतितानि च भारत
पुष्पाण्योषधयश्चैव रोरूयन्ते सहस्रशः
तेषामेव तदा श्रुत्वा दुःखार्तानां स देवलः
पुनर्नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः
दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे
अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते
ततो भूयो व्यगणयत् स्वबुद्ध्या मुनिसत्तमः
मोक्षे गार्हस्थ्यधर्मे वा किं नु श्रेयस्करं भवेत्
इति सञ्चिन्त्य बहुधा देवलो राजसत्तम
त्यक्त्वा गार्हस्थ्यधर्मं तु मोक्षधर्ममरोचयत्
एवमादीनि सञ्चिन्त्य देवलो निश्चयान्वितः
प्राप्तवान् परमां सिद्धिं परं योगं च भारत
ततो देवास्समागम्य बृहस्पतिपुरोगमाः
जैगीषव्यं तपस्यन्तं प्रशशंसुर्मनीषिणः
अथाब्रवीदृषिवरो देवान् वै नारदस्तथा
जैगीषव्ये तपो नास्ति विस्मापयति योऽसितम्
तमेवंवादिनं वीरं प्रत्यूचुस्त्रिदिवौकसः
नेत्युक्त्वा प्रशशंसुश्च जैगीषव्यं महामुनिम्
एवम्प्रभावो धर्मात्मा जैगीषव्यस्तथाऽसितः
तयोरिदं स्थानवरं तीर्थं चैव महात्मनोः
तत्राप्युपस्पृश्य ततो महात्मा दत्त्वा च वित्तं हलभृद्द्विजेभ्यः
अवाप्य धर्मं परमार्थकर्मा जगाम सोमस्य महत् स तीर्थम्