वैशम्पायनः-
इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बली
विप्रेभ्यो धनरत्नानि स्नात्वा दत्वा यथाविधि
तत्र ह्यमरराजो वै ईजे क्रतुशतेन ह
बृहस्पतेश्च देवेशः प्रददौ विपुलं धनम्
अनर्गलान् सजारूथ्यान् सर्वान् विविधदक्षिणान्
आजहार क्रतूंस्तत्र यथोक्तान् वेदपारगैः
क्रतूंस्तान् भरतश्रेष्ठ शतकृत्वो महाद्युतिः
पूरयामास विधिवत् ततः ख्यातश्शतक्रतुः
तस्य नाम्ना तु तत् तीर्थं शिवं पुण्यजलावृतम्
इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम्
उपस्पृश्य तु तत्रापि विधिवन्मुसलायुधः
ब्राह्मणान् पूजयित्वा च पानाच्छादनभोजनैः
शुभं तीर्थवरं तस्माद् रामतीर्थं जगाम ह
यत्र रामो महाभागो भार्गवस्सुमहातपाः
असकृत् पृथिवीं कृत्वा हतक्षत्रियपुङ्गवाम्
उपाध्यायं पुरस्कृत्य काश्यपं मुनिपुङ्गवम्
अयजद्वाजपेयेन सोऽश्वमेधशतेन च
प्रददौ दक्षिणार्थं च पृथिवीं सागराम्बराम्
रामो दत्त्वा धनं तत्र द्विजेभ्यो जनमेजय
उपस्पृश्य यथान्यायं पूजयित्वा तथा द्विजान्
पुण्यतीर्थे शुभे देशे वसु दत्त्वा हलायुधः
मुनींश्चैवाभिवाद्याथ यमुनं तीर्थमागमत्
यत्रानयामास तदा राजसूयमपां पतिः
दितेस्सुतान् महाभागो वरुणो वै सितप्रभः
यत्र निर्जित्य सङ्ग्रामे मानुषान् दानवांस्तथा
गन्धर्वान् राक्षसांश्चैव वरुणः परवीरहा
तस्मिन् क्रतुवरे वृत्ते सङ्ग्रामस्समजायत
देवानामसुराणां च त्रैलोक्यस्य भयावहः
राजसूये क्रतुश्रेष्ठे निवृत्ते जनमेजय
जायते सुमहाघोरस् सङ्क्षयः क्षत्रियान् प्रति
हलायुधस्तदा रामस् तस्मिंस्तीर्थवरे शुभे
तत्र स्नात्वा च दत्त्वा च द्विजेभ्यो वसु माधवः
वनमाली ततो हृष्टस् स्तूयमानो द्विजातिभिः
तस्मादादित्यतीर्थं च जगाम कमलेक्षणः
यत्रेष्ट्वा भगवाञ्ज्योतिर् भास्करो राजसत्तम
ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत
तस्या नद्यास्तु तीरे वै सर्वे देवास्सवासवाः
विश्वे तथा समरुतो गन्धर्वाप्सरसश्च ह
द्वैपायनश्शुकश्चैव कृष्णश्च मधुसूदनः
यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशां पते
एते चान्ये च बहवो योगसिद्धास्सहस्रशः
तस्मिंस्तीर्थे सरस्वत्याश् शिवे पुण्ये परन्तप
यत्र हत्वा पुरा विष्णुः कैटभं मधुमेव च
आप्लुतो भरतश्रेष्ठ तीर्थप्रवर उत्तमे
द्वैपायनश्च धर्मात्मा तत्रैवाप्लुत्य भारत
सम्प्राप्तः परमं योगं सिद्धिं च परमां गतः
असितो देवलश्चैव तस्मिन्नेव महातपाः
परमं योगमास्थाय योगयुक्तोऽभवन्मुनिः
अन्ये च ऋषयस्तत्र योगसिद्धाः परन्तप