वैशम्पायनः-
ततस्तीर्थवरं रामो ययौ बदरपाचनाम्
तपस्विसिद्धचरितं यत्र कन्या धृतव्रता
भरद्वाजस्य दुहिता रुपेणाप्रतिमा भुवि
श्रुतावती नाम विभो कौमारब्रह्मचारिणी
तपश्चचार साऽत्युग्रं नियमैर्बहुभिः प्रभो
भर्ता मे देवराजस्स्याद् इति निश्चित्य भामिनी
समास्तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वह
चरन्त्या नियमांस्तांस्तान् स्त्रीभिस्तीव्रान् सुदुश्चरान्
तस्यास्तु तेन वृत्तेन तपसा च विशां पते
भक्त्या परमया प्रीतो भगवान् पाकशासनः
आजगामाश्रमं तस्यास् त्रिदशाधिपतिस्तदा
आस्थाय रूपं ब्रह्मर्षेर् वसिष्ठस्य महात्मनः
सा तं दृष्ट्वोग्रतपसं वसिष्ठं जपतां वरम्
आचारैर्बहुभिर्दृष्टं पूजयामास भारत
उवाच विनयज्ञा सा कल्याणी च प्रियंवदा
स्रुचावती-
भगवंस्त्वं मुनिश्रेष्ठ किमाज्ञापयसि प्रभो
सर्वमद्य यथाशक्ति तव दास्यामि सुव्रता
शक्रभक्त्या च ते पाणिं न दास्यामि कथञ्चन
व्रतैश्च नियमैश्चैव तपसा च तपोधन
शक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः
वैशम्पायनः-
इत्युक्तो भगवान् देवस् स्मयन्निव निरीक्ष्य ताम्
उवाच विनयज्ञस्तां सान्त्वयन्निव भारत
इन्द्रः-
उग्रं तपश्चरसि हि विदिता मेऽसि सुव्रते
यदर्थमयमारम्भस् तव कल्याणि हृद्गतः
तत् सर्वं च तथाभूतं भविष्यति वरानने
तपसा लभ्यते सर्वं सर्वं तपसि तिष्ठति
यथा स्थानानि सर्वाणि विबुधानां शुभानने
तपसा तानि लभ्यन्ते तपोमूलं महात् सुखम्
इह कृत्वा तपो घोरं देहं सन्त्यस्य मानवाः
देवत्वं यान्ति कल्याणि शृणु चेदं वचो मम
पञ्चखैतानि सुभगे बदराणि शुभव्रते
वैशम्पायनः-
पचेत्युक्त्वा तु भगवाञ् जगाम बलसूदनः
आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सः
अविदूरे ततस्तस्माद् आश्रमात् तीर्थ उत्तमे
तच्च तीर्थं महाराज यत्र जप्यं जजाप सा
इन्द्रतीर्थं महाराज त्रिषु लोकेषु विश्रुतम्
तस्य जिज्ञासनार्थे तु भगवान् पाकशासनः
बदराणामपचनं चकार विबुधाधिपः
ततस्सा प्रयता राजन् वाग्यता विगतक्लमा
तत्परा शुचिसंवीता पावके समधिश्रयत्
अपचत् पुरुषव्याघ्र बदराणि शुभव्रता
तस्याः पचन्त्यास्सुचिरं कालोऽगात् पुरुषर्षभ
न च स्म तानि पच्यन्ते दिनं च क्षयमभ्ययात्
हुताशनेन दग्धश्च यस्तस्याः काष्ठसञ्चयः
अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथापचत्
पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शना
दग्धौ दग्धौ पुनः पादावुपावर्तयतानघ
चरणौ दह्यमानौ च नाचिन्तयदनिन्दिता
दुःखं कमलपत्राक्षी महर्षेः प्रियकाम्यया
न वैमनस्यं तस्यास्तु मुखभेदोऽथवाऽभवत्
शरीरमग्निना दीप्य जलमध्ये यथा स्थिता
तस्याश्च पचनं नित्यम् अवर्तद्धृदि भारत
सर्वथा बदराण्येव पक्तव्यानीति काम्यया
सा तद्धृदि दृढं कृत्वा महर्षेर्वचनं शुभा
अपचद्बदराण्येव न चापच्यन्त भारत
तस्याश्च चरणौ वह्निर् ददाह भगवान् भृशम्
न च तस्या मनोदुःखं स्वल्पमप्यभवत् तदा
अथ तत् कर्म दृष्ट्वाऽस्याः प्रीतस्त्रिभुवनेश्वरः
ततस्स दर्शयामास कन्यायै रूपमात्मनः
उवाच च सुरश्रेष्ठस् तां कन्यां सुदृढव्रताम्
इन्द्रः-
प्रीतोऽस्मि ते शुभे भक्त्या तपसा विपुलेन च
तस्माद्योऽभिमतः कामस् स ते सम्पत्स्यते शुभे
देहं त्यक्त्वा महाभागे त्रिदिवे निवत्स्यसि
इदं च ते तीर्थवरं ख्यातं लोके भविष्यति
सर्वपापापहं सुभ्रु नाम्ना बदरपाचनम्
विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम्
अस्मिन् खलु महाभागे शुभे तीर्थवरे पुरा
न्यस्य सप्तर्षयो याता हिमवन्तमरुन्धतीम्
ततस्ते सुमहाभागा गत्वा तत्र सुसंशिताः
वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल
तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वने
अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी
ते त कृत्वाऽऽश्रमं राजन न्यवसन्त तपस्विनः
अरुन्धत्यपि कल्याणी तपोनित्याऽभवत् तदा
अरुन्धतीं ततो दृष्ट्वा तीर्थे नियममास्थिताम्
अथागमत् त्रिनयनस् सम्प्रीतो वरदस्तदा
ब्राह्मरूपं तदा कृत्वा महादेवो महायशाः
तामभ्येत्याब्रवीद्देवो भिक्षामिच्छाम्यहं शुभे
प्रत्युवाच ततस्सा तु ब्राह्मणं चारुदर्शना
अरुन्धती-
क्षीणोऽन्नसञ्चयो विप्र बदराणीह भक्षय
इन्द्रः-
ततोऽब्रवीन्महादेवः पचस्वैतानि भामिनि
इत्युक्ता साऽपचत्तानि ब्राह्मणप्रियकाम्यया
अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी
दिव्या मनोरमाः पुण्याः कथाश्शुश्राव सा शुभा
अतीता सा त्वनावृष्टिर् घोरा द्वादशवार्षिकी
अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाश्शुभाः
अह्ना समस्स तस्यास्तु कालोऽतीतस्सुदारुणः
ततस्ते मुनयः प्राप्ताः फलान्यादाय पर्वतात्
ततस्स भगवान् प्रीतः प्रोवाचारुन्धतीं तदा
महादेवः-
उपसर्पस्व भद्रं ते यथापूर्वं हि तानृषीन्
प्रीतोऽस्मि ते महाभागे तपसा नियमेन च
इन्द्रः-
ततस्तां दर्शयामास स्वरूपं भगवान् हरः
ततोऽब्रवीत् तदा तेभ्यस् तस्यास्तच्चरितं महत्
महादेवः-
भवद्भिर्हिमवत्पृष्ठे यत्तपस्समुपार्जितम्
अस्याश्च यत्तपो विप्रास् सममेतन्मतं मम
अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम्
अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः
इन्द्रः-
महादेवः-
ततः प्रोवाच भगवांस् तामेवारुन्धतीं तदा
वरं वृणीष्व कल्याणि यस्तेऽभिलषितं हृदिः
इन्द्रः-
साऽब्रवीत् पृथुताम्राक्षी देवं सप्तर्षिसंसदि
अरुन्धती-
भगवान् यदि तुष्टो मे तीर्थं स्यादिदमुत्तमम्
सिद्धदेवर्षिदयितं नाम्ना बदरपाचनम्
तथाऽस्मिन् देवदेवेश त्रिरात्रमुषितो नरः
प्राप्नुयादुपवासेन फलं द्वादशवार्षिकम्
इन्द्रः-
एवमस्त्विति तां देवः प्रत्युवाच तपस्विनीम्
सप्तर्षिभिस्स्तुतो देवस् तदा यातस्त्रिविष्टपम्
ऋषयो विस्मयं जग्मुस् तां दृष्ट्वा चाप्यरुन्धतीम्
अश्रान्तामिविवर्णां च क्षुत्पिपासासहां सतीम्
एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशिष्टया
त्वया तथा महाभागे मदर्थं संशितव्रते
विशेषो हि त्वया भद्रे व्रते ह्यस्मिन् समर्पितः
यथा तथा ददाम्यद्य नियमेन सुतोषितः
विशेषं तव कल्याणि प्रयच्छामि वरं वरम्
अरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना
तस्य वरप्रदानेन तव कल्याणि तेजसा
प्रवक्ष्याम्यपरं भूयो वरमत्र यथाविधि
यस्त्वेकां रजनीं तीर्थे वत्स्यते सुसमाहितः
नेदुर्दुन्दुभयश्चापि समन्तात् सुमहास्वनाः
स स्नात्वा प्राप्नुयाल्लोकान् देहन्यासाच्च दुर्लभान्
मारुतश्च ववुर्युक्ताः पुण्यगन्धो विशां पते
वैशम्पायनः-
इत्युक्त्वा भगवान् देवस् सहस्राक्षः प्रतापवान्
स्रुचावतीं ततः पुण्यां जगाम त्रिदिवं पुनः
गते वज्रधरे राजंस् ततो वर्षं पपात ह
पुष्पाणां भरतश्रेष्ठ दिव्यानां दिव्यगन्धिनाम्
उत्सृज्य तु कृशं देहं जगामेन्द्रस्य भार्यताम्
तपसोग्रेण सा लब्ध्वा रेमे तेन सहाच्युत
जनमेजयः-
का नु तस्याभवन्माता क्व संवृद्धा च शोभना
श्रोतुमिच्छाम्यहं ब्रह्मन् कौतूहलमतीव मे
वैशम्पायनः-
भरद्वाजस्य विप्रर्षेस् स्कन्नं रेतो महात्मनः
दृष्ट्वाऽप्सरसमायान्तीं घृताचीं पृथलोचनाम्
स तु जग्राह तद्रेतः करेण जपतां वरः
तदाऽपतत् पर्णपुटे तत्र सा सम्भवत्सुता
तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः
नाम तस्यास्तु कृतवान् भरद्वाजो महामुनिः
स्रुचावतीति धर्मात्मा देवर्षिगणसंसदि
स च तामाश्रमे न्यस्य जगाम हिमवद्वनम्
तत्राप्युपस्पृश्य महानुभावो वसूनि दत्त्वा च महाद्विजेभ्यः
जगाम तीर्थं सुसमाहितात्मा शक्रस्य तत् तीर्थवरं तदानीम्