जनमेजयः-
अत्यद्भुतमिदं ब्रह्मञ् श्रुतवानस्मि तत्त्वतः
अभिषेकं कुमारस्य विस्तरेण यथाविधि
यच्छ्रुत्वा पूतमात्मानं विजानामि तपोधन
प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम
अभिषेकं कुमारस्य दैत्यानां च वधं तथा
श्रुत्वा मे परमा प्रीतिर् भूयः कौतूहलं हि मे
वैशम्पायनः-
अपाम्पतिः कथं ह्यस्मिन्नभिषिक्तः पुरा सुरैः
तन्मे ब्रूहि महाप्रज्ञ कुशलो ह्यसि सत्तम
शृणु राजन्निदं चित्रं पूर्वकाले यथाऽभवत्
आदौ कृतयुगे तस्मिन् वर्तमाने यथाविधि
वरुणं देवतास्सर्वास् समेत्येदमथाब्रुवन्
देवः-
यथाऽस्मान् सुरराट् शक्रो भयेभ्यस्स्त्राति सर्वदा
तथा त्वमपि सर्वासां सरितां वै पतिर्भव
वासश्च ते सदा देव सागरे मकरालये
समुद्रोऽयं तव वशे भविष्यति नदीपतिः
वैशम्पायनः-
सोमेन सार्धं तव च हानिर्वृद्धिर्भविष्यति
एवमस्त्विति तान् देवान् वरुणो वाक्यमब्रवीत्
समागम्य तु ते सर्वे वरुणं सागरालयम्
अपाम्पतिं प्रचक्रुर्हि विधिदृष्टेन कर्मणा
अभिषिच्य ततो देवा वरुणं पयसां पतिम्
स्वान्येव जग्मुस्स्थानानि पूजयित्वा जलेश्वरम्
अभिषिक्तस्ततो देवैर् वरुणोऽपि महायशाः
सरितस्सागरांश्चैव नदांश्चैव सरांसि च
पालयामास विधिना यथा देवाञ् शतक्रतुः
ततस्तत्राप्युपस्पृश्य दत्त्वा च विविधं वसु
तस्मात्तीर्थन्नरव्याघ्र स जगाम प्रलम्बहा
नष्टो न दृश्यते यत्र शमीगर्भे हुताशनः
लोकालोकविनाशे च प्रादुर्भूते तदा नृप
उपतस्थुर्महात्मानं सर्वलोकपितामहम्
देवाः-
अग्निः प्रनष्टो भगवान् कारणं न च विद्महे
सर्वलोकक्षयो मा भूत् सम्पादयतु नोऽनलम्
जनमेजयः-
किमर्थं भगवानग्निः प्रनष्टो लोकभावनाः
विज्ञातश्च कथं देवैस् तन्ममाचक्ष्व पृच्छतः
वैशम्पायनः-
भृगोश्शापभयाद्भीतो जातवेदाः प्रतापवान्
शमीगर्भमथासाद्य ननाश भगवांस्ततः
प्रनष्टे तु तदा वह्नौ देवास्सर्वे सवासवाः
अन्वैषयंस्तदा सर्वे ज्वलनं भृशदुःखिताः
ततोऽग्नितीर्थमासाद्य शमीगर्भस्थमेव हि
ददृशुर्ज्वलनं तत्र वसमानं यथातथम्
देवास्सर्वे महाराज बृहस्पतिपुरोगमाः
ज्वलनं ते समासाद्य प्रीता भूवन् सवासवाः
पुनर्यथागतं जग्मुस् सर्वभक्षश्च सोऽभवत्
भृगोश्शापान्महीपाल यदुक्तं ब्रह्मवादिना
तत्राप्याप्लुत्य मतिमान् ब्रह्मयोनिर्जगाम ह
तत्राप्लुत्य ततो ब्रह्मा सह देवैः पुरा प्रभुः
ससर्ज चान्नानि तथा देवतानां यथाविधि
तत्र स्नात्वा च दत्त्वा च वसूनि विविधानि च
कौबेरं प्रययौ तीर्थं यत्र तप्त्वा तपो महत्
धनाधिपत्यं सम्प्राप्तो राजन्नैलबिलः प्रभुः
तत्रस्थमेव तं राजन् धनानि निधयस्तथा
उपतस्थुर्नरश्रेष्ठ तत्तीर्थं लाङ्गली तदा
गत्वा स्नात्वा च विधिवद् ब्राह्मणानां ददौ धनम्
ददृशे तत्र तत्स्थानं कौबेरे कानने प्रभुः
पुरा यत्र तपस्तप्तं विपुलं सुमहात्मना
यत्र राज्ञा कुबेरेण वरा लब्धाश्च पुष्कलाः
धनाधिपत्यं सख्यं च रुद्रेणामिततेजसा
सुरत्वं लोकपालत्वं पुत्रं च नलकूबरम्
यत्र लेभे महाबाहो धनाधिपतिरञ्जसा
अभिषिक्तश्च यत्रैव समागम्य मरुद्गणैः
वाहनं चास्य तद्दत्तं हंसयुक्तं मनोजवम्
विमानं पुष्पकं दिव्यं नैर्ऋतैश्वर्यमेव च
तत्राप्लुत्य महाराज दत्त्वा देयान् सुपुष्कलान्
जगाम त्वरितो राम तीर्थं श्वेतानुलेपनः
निषेवितं महासत्त्वैर् नाम्ना बदरपाचनम्
सर्वर्तुकवनोपेतं सदापुष्पफलं शुभम्