जनमेजयः-
सरस्वत्याः प्रभावोऽयम् उक्तस्ते द्विजसत्तम
कुमारस्याभिषेकं तु ब्रह्मन्नाख्यातुमर्हसि
यस्मिन् काले च देशे च यथा च वदतां वर
यैश्चाभिषिक्तो भगवान् विधिना येन च प्रभुः
स्कन्दो यथा च दैत्यानाम् अकरोत् कदनं महत्
तथा सर्वं त्वमाचक्ष्व परं कौतूहलं हि मे
वैशम्पायनः-
कुरुवंशस्य सदृशम् इदं कौतूहलं तव
हर्षमुत्पादयतद् वचो मे जनमेजय
अहं तत् कथयिष्यामि शृण्वतस्ते जनाधिप
अभिषेकं कुमारस्य प्रभावं च महात्मनः
तेजो माहेश्वरं स्कन्नम् अग्नौ प्राणिहितं पुरा
तत् सर्वं भगवानग्निर् नाशकद्धर्तुमक्षयम्
तेन सीदति तेजस्वी दीप्तिमान् हव्यवाहनः
न चैनं धारयामास ब्रह्मणे चोक्तवान् प्रभुः
स गङ्गामुपसङ्गम्य नियोगाद्ब्रह्मणः प्रभुः
गर्भमाहितवान् दिव्यं भास्करोपमतेजसम्
अथ गङ्गाऽपि तं गर्भम् असहन्ती च धारणे
उत्ससर्ज गिरौ तस्मिन् हिमवत्यमरार्चिते
स तत्र ववृधे लोकान् आवृत्य ज्वलनात्मजः
ददृशुर्ज्वलनाकारं तं गर्भमथ कृत्तिकाः
शरस्तम्बे महात्मानम् अनलात्मजमीश्वरम्
ममायमिति सर्वास्ताः पुत्रार्थिन्यो विचुक्रुशुः
तासां विदित्वा भावं तं मातॄणां भगवान् प्रभुः
प्रस्नुतानां पयष्षड्भिर् आननैरपिबत् तदा
तं प्रभावं समालक्ष्य तस्य बालस्य कृत्तिकाः
परं विस्मयमापन्ना देव्यो दिव्यवपुर्धराः
यत्रोत्सृष्टश्च गर्भस्स गङ्गया निरिमूर्धनि
स शैलः काञ्चनस्सर्वस् सम्बभौ मेरुरुत्तमः
वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता
अतश्च सर्वे संवृत्ता गिरयः काञ्चनात्मकाः
कुमारस्तु सुमहावीर्यः कार्तिकेय इति स्मृतः
गाङ्गेयः पूर्वमभवन्महाकायो बलान्वितः
स देवस्तपसा चैव वीर्येण च समन्वितः
ववृधेऽतीव राजेन्द्र चन्द्रवत् प्रियदर्शनः
स तस्मिन् काञ्चने दिव्ये शरस्तम्बे श्रिया वृतः
स्तूयमानस्सदा शेते गन्धर्वैर्मुनिभिस्तथा
तथैनमुपनृत्यन्ति देवकन्यास्सहस्रशः
दिव्यवादित्रनृत्तज्ञास् स्तुवन्त्यश्चारुदर्शनाः
अन्वयुश्चाग्नयस्सर्वे गङ्गा च सरितां वरा
दधार पृथिवी चैनं बिभ्रती रूपमुत्तमम्
जातकर्मादिकास्तस्य क्रियाश्चक्रे बृहस्पतिः
वेदश्चैनं चतुर्मूर्तिर् उपतस्थे कृताञ्जलिः
धनुर्वेदश्चतुष्पादस् सास्त्रग्रामस्ससङ्ग्रहः
तत्रैनं समुपातिष्ठत् साक्षाद्वाणी च केवला
स ददर्श महात्मानं देवदेवमुमापतिम्
शैलपुत्र्या समागम्य भूतसङ्घैस्समावृतः
निकाया भूतसङ्घानां परमाद्भुतदर्शनाः
विकृता विकृताकारा विकृताभरणध्वजाः
व्याघ्रसिंहर्क्षवदना बिडालमकराननाः
वृषदंशमुखाश्चान्ये खरोष्ट्रवदनास्तथा
उलूकवदनाः केचिद् गृध्रगोमायुदर्शनाः
क्रौञ्चपारावतनिभैर् वदनैर्भैरवैरपि
श्वाविच्छल्यकगोधानां खरैडकगवामपि
सदृशानि वपूंष्यन्ये तत्र तत्र व्यधारयन्
केचिच्छैलाम्बुदप्रख्याश् चक्रालातगदायुधाः
केचिदञ्जनपुञ्जाभाः केचिच्छ्वेताचलप्रभाः
सप्तमातृगणाश्चापि समाजग्मुर्विशां पते
साध्या विश्वेऽथ वसतो मरुतः पितरस्तथा
रुद्रादित्यास्तथा यक्षा भुजगा दानवाः खगाः
ब्रह्मा स्वयम्भूर्भगवान् सपुत्रस्सह विष्णुना
शक्रस्तथाऽभ्ययाद्द्रष्टुं कुमारममितप्रभम्
नारदप्रमुखाश्चैव देवगन्धर्वसत्तमाः
देवर्षयश्च सिद्धाश्च बृहस्पतिपुरोगमाः
ऋभवो नाम वरदा देवानामपि देवताः
तेऽपि तत्र समाजग्मुर् व्योमयानास्सहस्रशः
स तु बालोऽपि भगवान् महायोगबलान्वितः
अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम्
तमाव्रजन्तमालोक्य शिवस्यासीन्मनोगतम्
युगपच्छैलपुत्र्याश्च गङ्गायाः पावकस्य च
कं नु पूर्वमयं बालो गौरवादभ्युपैति च
अपि मामिति सर्वेषां तेषामासीन्मनोगतम्
तेषामेतमभिप्रायं चतुर्णामुपलक्ष्य सः
युगपद्योगमास्थाय ससर्ज विविधास्तनूः
ततोऽभवच्चतुर्मूर्तिः क्षणेन भगवान् प्रभुः
स्कन्दश्शाखो विशाखश्च नैगमेषश्च पृष्ठतः
एवं कृत्वा स चात्मानं कुमारो भगवान् प्रभुः
यतो रुद्रस्ततस्स्कन्दो जगामाद्भुतदर्शनः
विशाखस्तु ततो देवीं ययौ गिरिवरात्मजाम्
शाखो ययौ च भगवान् दिव्यमूर्तिर्विभावसुम्
नैगमेयोऽगमद्गङ्गां कुमारः पावकप्रभः
सर्वे भास्वरदेहास्ते चत्वारस्समरूपिणः
तान् समभ्ययुरव्यग्रास् तदद्भुतमिवाभवत्
हाहाकारो महानासीद् देवदानवरक्षसाम्
दृष्ट्वा तन्महदाश्चर्यम् अद्भुतं रोमहर्षणम्
ततो रुद्रश्च देवी च पावकश्च पितामहम्
गङ्गया सहितास्सर्वे प्रणिपेतुर्जगत्पतिम्
प्रणिपत्य ततस्ते तु विधिवद्राजपुङ्गव
इदमूचुर्वचो राजन् कार्तिकेयप्रियेप्सया
रुद्रादयः-
अस्य बालस्य भगवन्नाधिपत्यं यथेप्सितम्
अस्मत्प्रियार्थं देवेश सदृशं दातुमर्हसि
वैशम्पायनः-
ततस्स भगवान् प्रीतस् सर्वलोकपितामहः
मनसा चिन्तयामास किमयं लभतामिति
ऐश्वर्याणि च सर्वाणि देवगदानवरक्षसाम्
भूतयक्षपिशाचानां पन्नगानां च सर्वशः
पूर्वमेवादिदेशासौ निकायेषु महात्मनाम्
समर्थं च तमैश्वर्ये महामतिरमन्यत
ततो मुहूर्तं स ध्यात्वा देवानां श्रेयसि स्थितः
सैनापत्यं ददौ तस्मै सर्वभूतेषु भारत
देवि देवनिकायानां ये राजान् परिश्रुताः
तान् सर्वान् व्यादिदेशास्मै सर्वभूतपितामहः
ततः कुमारमादाय देवा ब्रह्मपुरोगमाः
अभिषेकार्थमाजग्मुश् शैलेन्द्रं सहितास्तदा
पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम्
समन्तपञ्चके या वै पितृलोकेषु विश्रुता
तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते
निषेदुर्देवगन्धर्वास् सर्वे सम्पूर्णमानसाः