वैशम्पायनः-
स शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता
तस्मिंस्तीर्थवरे शुभ्रं शोणितं समुपावहत्
अथाजग्मुस्ततो राजन् राक्षसास्तत्र तत्र ह
ततस्ते शोणितं सर्वे पिबन्तस्समुपासते
तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः
नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितो नराः
कस्यचित्त्वथ कालस्य ऋषयस्सुतपोधनाः
तीर्थयात्रां समाजग्मुस् सरस्वत्यां महीपते
तेषु सर्वेषु तीर्थेषु आप्लुत्य मुनिपुङ्गवाः
प्राप्य प्रीतिं परां चापि तपोलुब्धा विशारदाः
प्रययुर्हि ततो राजन् येन तीर्थं तु तत् तदा
अथागम्य महाभागास् तत्तीर्थं दारुणं तदा
दृष्ट्वा तोयं सरस्वत्याश् शोणितेन समुत्थितम्॥
पीयमानं च रक्षोभिर् बहुभी राजसत्तम
तान् दृष्ट्वा राक्षसान् राजन् मुनयस्संशितव्रताः
परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे
ते तु सर्वे महाभागास् समागम्य महाव्रताः
आहूय सरितां श्रेष्ठाम् इदं वचनमब्रुवन्
ऋषयः-
कारणं ब्रूहि कल्याणि किमर्थं ते हृदो ह्ययम्
एवमग्राह्यतां यातश् श्रुत्वा ध्यास्यामहे वयम्
वैशम्पायनः-
ततस्सा सर्वमाचष्ट यथावृत्तं प्रवेपती
दुःखितामथ तां दृष्ट्वा त ऊचुर्वै तपोधनाः
ऋषयः-
वैशम्पायनः-
कारणं श्रुतमस्माभिश् शापश्चैव श्रुतोऽनघे
करिष्यामस्तु यत् प्राप्तं सर्व एव तपोधनाः
एवमुक्त्वा सरिच्छ्रेष्ठाम् ऊचुस्तेऽथ परस्परम्
ऋषयः-
विमोचयामहे सर्वे शापादेतां सरस्वतीम्
प्रसन्नसलिला भूस्त्वं यथा पुर्वं तथैव हि
वैशम्पायनः-
एवमुक्त्वा तु मुनयो दुःखाच्चैनां व्यमोचयन्
विमुक्ता सरितां श्रेष्ठा विबभौ सा यथा पुरा
दृष्ट्वा तोयं सरस्वत्या मुनिभिस्तैस्तथा कृतम्
कृताञ्जलिपुटा राजन् शिरोभिः प्रणिपत्य च
ऊचुस्तान् वै मुनीन् सर्वान् कृपायुक्तान् पुनः पुनः
राक्षसाः-
वयं तु क्षुधिताश्चैव धर्माद्धीनाश्च शाश्वतात्
न च नः कामकारोऽयं यद्वयं पापकारिणा
युष्माकं च प्रकोपेन दुष्कृतेन च कर्मणा
पक्षोऽयं वर्धतेऽस्माकं यथास्युर्ब्रह्मराक्षसाः
एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च
ये ब्राह्मणान् प्रद्विषन्ति ते भवन्ती हि राक्षसाः
आचार्यनृत्विजश्चैव गुरून् वृद्धजनांस्तथा
येऽवमन्यन्ति पुरुषास् ते भवन्तीह राक्षसाः
योषितां चैव पापानां योनिदोषेण वर्धते
यक्षोऽस्माकं ऋषिश्रेष्ठा यदत्रानन्तरं क्षमम्
तत् कुरुध्वमिहास्माकं तारणं द्विजसत्तमाः
शक्ता भवन्तस्सर्वेषां लोकानामपि तारणे
वैशम्पायनः-
तेभ्योऽपि ऋषयश्श्रुत्वा तुष्टुवुस्तां महानदीम्
मोक्षार्थं रक्षसां तेषाम् ऊचुः प्रयतमानसाः
ऋषयः-
क्षुतकीटावपन्नं च यच्चोच्छिष्टाचितं भवेत्
केशावपन्नमाधूतम् आरुग्णमपि चैव यत्
श्वभिस्संसृष्टमन्नं च भागोस्ते रक्षसामिह
तस्माज्ज्ञात्वा सदा विद्वान् एतान्यन्नानि वर्जयेत्
राक्षसान्नं स भुङ्क्ते हि यो भुङ्क्ते ह्यन्नमीदृशम्
वैशम्पायनः-
शोधयित्वा ततस्तीर्थम् ऋषयस्ते तपोधनाः
मोक्षार्थं राक्षसां तेषां नदीं तां सम्प्रसादयन्
महर्षीणां मतं ज्ञात्वा ततस्सा सरितां वरा
अरुणामानयामास स्वां तनुं भरतर्षभ
तस्यां ते राक्षसास्स्नातास् तनुं त्यक्त्वा दिवं गताः
अरुणायां महाराज ब्रह्मवध्यापहा हि सा
एतमर्थमतो ज्ञात्वा देवदेवश्शतक्रतुः
तस्मिंस्तीर्थवरे स्नात्वा विमुक्तः पाप्मना किल
जनमेजयः-
किमर्थं भगवाञ् शक्रो ब्रह्महत्यामवाप्तवान्
कथमस्मिंश्च तीर्थे स आप्लुत्याकल्मषोऽभवत्
वैशम्पायनः-
शृणुष्वैतदुपाख्यानं यथावृत्तं पुरातनम्
यथा बिभेद समयं नमुचेर्वासवः पुरा
नमुचिर्वासवाद्भीतस् सूर्यरश्मिं समाविशत्
तेनेन्द्रस्सख्यमकरोत् समयं चेदमब्रवीत्
इन्द्रः-
नार्द्रेण त्वां न शुष्केण न रात्रौ न दिवाऽपि वा
वधिष्याम्यसुरश्रेष्ठ सखे सत्येन ते शपे
वेशम्पायनः-
एवं स कृत्वा समयं स्पृष्ट्वा नीहारमीश्वरः
चिच्छेदास्य शिरो राजन्नपां फेनेन वासवः
तच्छिरो नमुचेश्छिन्नं पृष्ठतश्शक्रमन्वियात्
हे मित्रहन् पाप इति ब्रुवाणं शक्रमन्तिकात्
एवं स शिरसा तेन चोद्यमानः पुनः पुनः
पितामहाय सन्तप्त एतमर्थं न्यवेदयत्
तमब्रवील्लोकगुरुर् अरुणायां यथाविधि
इष्ट्वोपस्पृश देवेन्द्र ब्रह्महत्यापहा हि सा
इत्युक्तस्स सरस्वत्यां गुह्यायां जनमेजय
इष्ट्वा यथावद्बलभिद् अरुणायामुपास्पृशत्
स मुक्तः पाप्मना तेन ब्रह्मवध्याकृतेन तु
जगाम संहृष्टमनास् त्रिदिवं त्रिदशेश्वरः
शिरस्तच्चापि नमुचेस् तत्रैवाप्लुत्य भारत
लोकान् कामदुघान् प्राप्तम् अक्षयान् राजसत्तम
तत्राप्युपस्पृश्य तदा महात्मा दत्त्वा च दानानि पृथग्विधानि
अवाप्य धर्मं परमार्यकर्मा जगाम सोमस्य महत् स तीर्थम्
यत्रायजद्राजसूयेन सोमस् साक्षात् पुरा विधिवत् पार्थिवेन्द्र
अत्रिर्धीमान् ब्रह्मपुत्रो बभूव होता यस्मिन् क्रतुमुख्ये महात्मा
यस्यान्तेऽभूत् सुमहान् दानवानां दैतेयानां राक्षसानां च देवैः
स सङ्ग्रामस्स्तारकाख्यस्सुतीव्रो यत्र स्कन्दस्तारकं वै जघान
सैनापत्यं लब्धवान् देवतानां महासेनस्त्वन्तकर्ताऽसुराणाम्
साक्षाच्चात्र न्यवसत् कार्तिकेयस् सदा कुमारो यत्र ररक्ष राजन्