वैशम्पायनः-
ब्रह्मयोनिभिराकीर्णो जगाम यदुनन्दनः
यत्र दाल्भ्यो बको राजन् पश्वर्थं सुमहातपाः
जुहाव धृतराष्ट्रस्य राष्ट्रं कोपसमन्वितः
तपसा घोररूपेण कर्शयन् देहमात्मनः
क्रोधेन महताऽऽविष्टो धर्मात्मा वै प्रतापवान्
पुरा हि नैमिशीयानां सत्रे द्वादशवार्षिके
वृत्ते वैश्वजिते चैव पाञ्चालानृषयोऽगमन्
तत्रेश्वरमयाचन्त दक्षिणार्थं मनीषिणः
तत्र ते लेभिरे राजन् पाञ्चालेभ्यो महर्षयः
बलान्वितान् वत्सतरान् निर्व्याधीन् सप्तविंशतिम्
तानब्रवीद्बको विप्रो विभजध्वं पशूनिति
पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम्
एवमुक्त्वा वको राजन्नृषीन् सर्वान् प्रतापवान्
जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः
स समीपं गतो भूत्वा धृतराष्ट्रं नरेश्वरम्
अयाचत पशून् दाल्भ्यस् स चैनं रुषितोऽब्रवीत्
धृतराष्ट्रः-
यदृच्छया मृता दृष्ट्वा गास्तदा नृपसत्तमः
एतान् पशून् नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि
वैशम्पायनः-
बकः-
ऋषिस्त्वथ बकः क्रुद्धश् चिन्तयामास धर्मवित्
अहो बत नृशंसं वै वाक्यमुक्तोऽस्मि संसदि
वैशम्पायनः-
चिन्तयित्वा मुहूर्तेन रोषाविष्टो द्विजोत्तमः
मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः
उत्कृत्य तु मृता गा वै मांसानि द्विजसत्तमः
जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः परम्
अवतीर्णेसरस्वत्यास् तीर्थे प्रज्वाल्य पावकम्
बको दाल्भ्यो महाराज परमं नियमं स्थितः
स तैरेव जुहावाग्नौ राष्ट्रं मांसैर्महातपः
तस्मिंस्तु विधिवत् सत्रे वर्तमाने सुदारुणे
अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव
छिद्यमानं यथा कान्तं वनं परशुना विभो
बभूवापहृतं तच्च व्यवकीर्णमचेतनम्
दृष्ट्वा तदवकीर्णं तु राज्यं स मनुजाधिपः
बभूव दुर्मना राजंश् चिन्तयामास च प्रभुः
मोक्षार्थमकरोद्यत्नं ब्राह्मणैस्सहितः पुरा
अथासौ पार्थिवः खिन्नस् ते च विप्रास्तदा नृप
यदा चापि न शक्नोति राष्ट्रं मोक्षयितुं नृपः
अथ विप्रान्निकांस्तत्र पप्रच्छ जनमेजय
ततो विप्राश्रिकाः प्राहुः पशुर्विप्रकृतस्त्वया
मांसैरथ जुहोतीदं तव राष्ट्रं मुनिर्बकः
तेन ते हूयमानस्य राष्ट्रस्याीत् क्षयो महान्
तस्य तत्तपसः कर्म येन ते ह्यनयो महान्
यदीच्छसि महाबाहो शान्तिं राष्ट्रस्य भूमिप
अपां कूले सरस्वत्यास् तं प्रसादय पार्थिव
सरस्वतीं ततो गत्वा स राजा बकमब्रवीत्
निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ
राजा-
प्रसादये त्वां भगवन्नपराधं क्षमस्व मे
मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः
त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि
वैशम्पायनः-
तं तथा विलपन्तं तु शोकोपहतचेतसम्
दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तस्य व्यमोचयत्
ऋषिः प्रसन्नस्तस्यासीत् संरम्भं च विहाय सः
मोक्षार्थं तस्य राष्ट्रस्य जुहाव पुनराहुतिम्
मोक्षयित्वा तदा राष्ट्रं प्रतिगृह्य तथा पशून्
हृष्टात्मा नैमिशारण्यं जगाम पुनरेव ह
धृतराष्ट्रोऽपि धर्मात्मा स्वस्थचेता महामनाः
स्वमेव नगरं राजन् प्रविवेश महर्द्धिमत्
तत्र तीर्थे महाराज बृहस्पतिरुदारधीः
असुराणामभावाय भवाय च दिवौकसाम्
मांसैरभिजुहावेष्टिम् अक्षीयन्त ततोऽसुराः
दैवतैरभिसम्भग्ना जितकाशिभिराहवे
तत्रापि विधिवद्दत्त्वा ब्राह्मणेभ्यो महायशाः
वाजिनः कुञ्जरांश्चैव रथांश्चाश्वतरीस्तथा
रत्नानि च महाराज धनं धान्यं च पुष्कलम्
ययौ तीर्थं महाराज यायातं पृथिवीपते
तत्र यज्ञे ययातेस्तु महाराज सरस्वती
सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः
यत्रेष्ट्वा पुरुषव्याघ्र ययातिः पृथिवीपतिः
आक्रामदूर्ध्वं त्वरितो लेभे कामांश्च पुष्कलान्
ययातेर्यजमानस्य यत्र राजन् सरस्वती
सघृता प्रययौ राजन् ब्राह्मणानां महात्मनाम्
यत्र यत्र हि यो विप्रो यान् यान् कामानभीप्सति
तस्यतस्य सरिच्छ्रेष्ठा गृहादि शयनादिकम्
तत्र देवास्सगन्धर्वाः प्रीता यज्ञस्य सम्पदा
विस्मिता मानुषा ह्यासन् दृष्ट्वा तां यज्ञसम्पदम्
ततस्तालकेतुर्महाधर्मसेतुर् महात्मा कृतात्मा महादाननित्यः
वसिष्ठापवाहं महाभीमवेगं धृतात्मा जितात्मा समभ्याजगाम