जनमेजयः-
आर्ष्टिषेणः कथं ब्रह्मन् विपुलं तप्तवांस्तपः
सिन्धुद्वीपः कथं चापि ब्राह्मण्यँल्लब्धवान् पुरा
देवापिश्च कथं राजन् विश्वामित्रश्च सत्तमः
तन्ममाचक्ष्व भगवन् परं कौतूहलं हि मे
वैशम्पायनः-
पुरा कृतयुगे राजन्नार्ष्टिषेणो द्विजोत्तमः
वसन् गुरुकुले नित्यं नियमाध्ययने रतः
तस्य राजन् गुरुकुले वसतो नित्यमेव हि
समाप्तिं नागमन् विद्या नापि वेदा विशां पते
स निर्विण्णस्ततो राजंस् तपस्तेपे महातपाः
ततो वै तपसा तेन प्राप्य वेदाननुत्तमान्
स विद्वान् वेदसंयुक्तस् सिद्धश्चाप्यृषिसत्तमः
तत्र तीर्थे वरान् प्रादात् त्रीनेव सुमहातपाः
आर्ष्टिषेणः-
अस्मिंस्तीर्थे महानद्या अद्यप्रभृति मानवः
आप्लुतो वाजपेयस्य फलं प्राप्नोति पुष्कलम्
अद्यप्रभृति व्यालेभ्यो न भयं भविता पुनः।
अपि चाल्पेन यत्नेन तपः प्राप्स्यति पुष्कलम्
वैशम्पायनः-
एवमुक्त्वा महातेजा जगाम त्रिदिवं मुनिः
एवं स सिद्धो भगवान् आर्ष्टिषेणः प्रतापवान्
तस्मिन्नेव तदा तीर्थे सिन्धुद्वीपः प्रतापवान्
देवापिश्च महाराज ब्राह्मण्यं प्रापतुर्महत्
तथाच कुशिकदायादस् तपोनित्यो जितेन्द्रियः
तपसा वै सुतप्तेन ब्राह्मणत्वमवाप्तवान्
गाधिर्नाम महानासीत् क्षत्रियप्रवरो भुवि
यस्य पुत्रस्त्वभूद्राजन् विश्वामित्रः प्रतापवान्
स राजा कौशिकस्तात महायोग्यभवत् किल
स पुत्रमभिषिच्यैव विश्वामित्रं महातपाः
देहन्यासे मनश्चक्रे तमूचुः प्रणताः प्रजाः
प्रजाः-
वैशम्पायनः-
न गन्तव्यं महाप्राज्ञ त्राहि चास्मान्महाभयात्
एवमुक्तः प्रत्युवाच ततो गाधिः प्रजास्ततः
गाधिः-
कृत्स्नस्य जगतो गोप्ता भविष्यति सुतो मम
वैशम्पायनः-
इत्युक्त्वाऽथ ततो गाधिर् विश्वामित्रं निवेश्य च
जगाम स तदा राजा पथि वै पुण्यकर्मणाम्
तदा गाधिसुतो राजा विश्वामित्रोऽप्यभून्नृपः
न च शक्नोति पृथिवीं यत्नवानपि रक्षितुम्
ततश्शुश्राव राजाऽसौ राक्षसेभ्यो महद् भयम्
निर्ययौ नगराच्चापि चतुरङ्गबलान्वितः
स गत्वा दूरमध्वानं वसिष्ठाश्रममभ्ययात्
ततस्ते सैनिका राजञ् जघ्नुस्तत्र बहून् मृगान्
ततस्तु भगवान् विप्रो वसिष्ठस्तु स्व आश्रमे
ददृशे तु ततस्सर्वं वध्यमानं महावनम्
तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमः
विसृजस्व बलं घोराम् इति स्वां गामुवाच ह
तथोक्ता साऽसृजद्धेनुः पुरुषान् घोरदर्शनान्
ते च तद्बलमासाद्य बभञ्जुस्सर्वतोदिशम्
तच्छ्रुत्वा विद्रुतं सैन्यं विश्वामित्रस्तु गाधिजः
तपः परं मन्यमान् तपस्येव मनो दधे
सोऽस्मिंस्तीर्थवरे राजन् सरस्वत्यां समाहितः
नियमैश्चोपवासैश्च क्षपयन् देहमात्मनः
जलाहारो वायुभक्षः पर्णाहारश्च सोऽभवत्
तथस्स्थण्डिलशायी च ये चान्ये नियमाः पृथक्
असकृत्तस्य देवाश्च व्रतविघ्नं प्रचक्रिरे
न तस्य नियमाद्बुद्धिर् अपयाति महात्मनः
ततः परेण यत्नेन तप्त्वा बहुविधं तपः
तेजसा भास्कराकारो गाधिजस्समपद्यत
घृणया तु तदा युक्तं विश्वामित्रं पितामहः
अमन्यत महातेजा वरदोऽदर्शयत् तदा
स तु वव्रे वरं राजन् स्यामहं ब्राह्मणस्त्विति
तथेति चाब्रवीद्ब्रह्मा सर्वलोकपितामहः
स लब्ध्वा तपसोग्रेण ब्राह्मण्यं सुमहायशाः
विचचार महीं कृत्स्नां कृतकामस्सुरोत्तमैः
तस्मिंस्तीर्थवरे रामः प्रदाय विविधं वसु
पयस्विनीस्तथा धेनूर् यानानि विविधानि च
तथा वस्त्राण्यलङ्कारं भक्ष्यं पेयं च शोभनम्
अददान्मुदितो राजन् पूजयित्वा द्विजोत्तमान्
ययौ राजंस्ततो रामो बकस्याश्रममन्तिकात्
यत्र तेपे तपस्तीव्रं बक दाल्भ्य इति श्रुतिः