वैशम्पायनः-
उषित्वा तत्र रामस्तु सम्पूज्याश्रमवासिनः
तदा मङ्कणके प्रीतिं परां चक्रे हलायुधः
दत्त्वा दानं द्विजातिभ्यो रजनीं तामुपोष्य च
पूजितो मुनिभिश्चैव प्रातरुत्थाय लाङ्गली
अनुज्ञाप्य मुनीन् सर्वान् स्पृष्ट्वा तोयं च भारत
प्रययौ त्वरितं रामस् तीर्थहेतोर्महाबलः
तत औशनसं तीर्थम् आजगाम हलायुधः
कपालमोचनं नाम यत्र मुक्तो महामुनिः
महता शिरसा राजन् ग्रस्तजङ्घो महोदरः
राक्षसस्य महाराज रामक्षिप्तस्य वै पुरा
तत्र पूर्वं तपस्तप्तं काव्येन सुमहात्मना
यत्रास्य नीतिर्निखिला प्रादुर्भूता महात्मनः
तत्र सञ्चिन्तयामास देवदानवविग्रहम्
तत् प्राप्य च बलो राजन् तीर्थप्रवरमुत्तमम्
विधिवद्वि ददौ वित्तं ब्राह्मणानां महात्मनाम्
जनमेजयः-
कपालमोचनं ब्रह्मन् कथं प्राप्तो महामुनिः
कथं चास्य शिरो लग्नं केन चैव तु हेतुना
वैशम्पायनः-
पुरा वै दण्डकारण्ये राघवेण महात्मना
वसता राजशार्दूल राक्षसास्तत्र हिंसिता
जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनः
क्षुरेण शितधारेण तत् पपात महावने
महोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया
वने विचरतो राजन्नस्थि भित्त्वाऽस्फुरत् तदा
स तेन लग्नेन तदा द्विजातिर्न शशाक ह
अभिगन्तुं महाप्राज्ञ तीर्थान्यायतनानि च
स पूतिना विस्रवता वेदनार्तो महामुनिः
जगाम सर्वतीर्थानि पृथिव्यामिति नश्श्रुतम्
स गत्वा सरितस्सर्वास् समुद्रांश्च महातपाः
कथयामास तत् सर्वम् ऋषीणां भावितात्मनाम्
आप्लुतस्सर्वतीर्थेषु न च मोक्षमवाप्तवान्
स तु शुश्राव विप्रेन्द्रो मुनीनां वचनं महत्
सरस्वत्यां तीर्थवरं ख्यातमौशनसं तथा
सर्वपापप्रशमनं सिद्धिक्षेत्रमनुत्तमम्
स तु गत्वा ततस्तत्र तीर्थमौशनसं द्विजः
ततश्चौसनसं तीर्थं तस्योपस्पृशतस्तदा
तच्छिरश्चरणं मुक्त्वा पपातान्तर्जले ततः
ततस्स निरुजो राजन् महात्मा वीतकल्मषः
आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः
सोऽथ गत्वाऽश्रमं पुण्यं विप्रमुक्तो महातपाः
कथयामास तत् सर्वं ऋषीणां भावितात्मनाम्
तच्छ्रुत्वा वचनं तस्य तदा तीर्थस्य मानद
कपालमोचनमिति नाम चक्रुस्समागताः
तत्र दत्त्वा बहून् देयान् विप्रान् सम्पूज्य सादरम्
जगाम तत्र राजेन्द्र उशङ्गोराश्रमं प्रति
यत्र तप्तं तपो घोरम् आर्ष्टिषेणेन भारत
ब्राह्मण्यं लब्धवान् यत्र विश्वामित्रो महातपाः
ततो हलधरश्श्रीमान् ब्राह्मणैः परिवारितः
जगाम तत्र राजेन्द्र उशङ्गुस्तनुमत्यजत्
उशङ्गुर्ब्राह्मणो वृद्धस् तपोनित्यश्च भारत
देहन्यासे कृतमना विचिन्त्य बहुधा नृप
ततस्सर्वानुपादाय तनयान् वै महातपाः
उशङ्गुरब्रवीत् तत्र नयध्वं मां पृथूदकम्
विज्ञायातीतवयसम् उशङ्गुं तं तपोधनाः
तद्वै तीर्थमपानिन्युस् सरस्वत्यास्तपोधनम्
स तैः पुत्रैस्तदा धीमान् आनीतो वै सरस्वतीम्
पुण्यां तीर्थशतोपेतां विप्रसङ्घैर्निषेविताम्
स तत्र विधिना राजन्नाप्लुत्य सुमहातपाः
ज्ञात्वा तीर्थगुणां चैव प्राहेदं मुनिसत्तमः
सुप्रीतः पुरुषव्याघ्रस् सर्वान् पुत्रानिदं वचः
उशङ्गुः
सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम्
पृथूदके जप्यपरो नैनं श्वो मरणं तपेत्
वैश्पायनः-
तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः
दत्त्वा चैव बूहून् देयान् विप्राणां विप्रवत्सलः
ससर्ज यत्र भगवान् ब्रह्मा लोकपितामहः
यत्रार्ष्टिषेणः कौरव्य ब्राह्मण्यस्संशितव्रतः
तपसा महता राजन् प्राप्तवान् सिद्धिमुत्तमाम्
सिन्धुद्वीपं च सम्प्राप्य देवापिश्च महातपाः
ब्राह्मण्यं लब्धवान् यत्र विश्वामित्रो महातपाः
तपस्वी भगवानुग्र उरुतेजा महायशाः
तत्राजगाम बलवान् बलदेवः प्रतापवान्