जनमेजयः-
सप्तसारस्वतं कस्मात् कश्च मङ्कणको मुनिः
कथं सिद्धस्स भगवान् कश्चास्य नियमोऽभवत्
कस्य वंशे समुत्पन्नः किं वाऽधीतं च वै द्विज
एतन्मे सर्वमाचक्ष्व यथावृत्तं महामुने
वैशम्पायनः-
सप्त नद्यस्सरस्वत्या याभिर्व्याप्तमिदं जगत्
आहूता बलवद्भिस्तु तत्र तत्र सरस्वती
सुप्रभा काञ्चनाक्षी च विशाला च मनोवृता
सरस्वत्योघमाला च सुरेणुर्विमलोदका
पितामहस्य महतो वर्तमाने महीपते
वितते यज्ञवाटे वै समेतेषु द्विजातिषु
पुण्याहघोषैर्विमलैर् वेदानां निनदैस्तथा
देवेषु चैव व्यग्रेषु तस्मिन् यज्ञविधौ ततः
तत्र चैवं महाराज दीक्षिते प्रपितामहे
यजतस्तत्र सत्रेण सर्वकामसमृद्धिना
मनसा चिन्तिता ह्यर्था धर्मार्थकुशलैस्तदा
उपतिष्ठन्ति राजेन्द्र द्विजातींस्तत्र तत्र ह
जगुश्च तत्र गन्धर्वा ननृतुश्चाप्सरोगणाः
प्रावाद्यन्त च दिव्यानि वादयामासुरञ्जसा
तस्य यज्ञस्य सम्पत्त्या तुष्टुवुर्दैवतान्यपि
विस्मयं च परं जग्मुस् सर्वे मानुषयोनयः
वर्तमाने यथा यज्ञे पुष्करस्थे पितामहे
अब्रुवन्नृषयो राजन् नायं यज्ञो महाफलः
न दृश्यते सरिच्छ्रेष्ठा यस्मादिह सरस्वती
तच्छ्रुत्वा भगवान् प्रीतस् सस्माराथ सरस्वतीम्
पितामहेन यजता आहूता पुष्करेषु वै
सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती
तां दृष्ट्वा मुनयस्तुष्टा वेगयुक्तां सरस्वतीम्
पितामहं मानयन्तीं क्रतुं तं मेनिरे बहु
एवमेषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती
पितामहार्थं सम्भूता तुष्ट्यर्थं च मनीषिणाम्
नैमिशे मुनयो राजन् समासाद्य समासते
तत्र चित्राः कथा ह्यासन् वेदं प्रति जनेश्वर
नैमिशे मुनयो राजन् नानास्वाध्यायवादिनः
ते समागम्य मुनयस् सस्मरुर्वै सरस्वतीम्
सा तु ध्याता महाराज मुनिभिस्सत्रवादिभिः
समागतानां राजेन्द्र साहाय्यार्थं महात्मनाम्
आजगाम महाभागा तत्र पुण्या सरस्वती
नैमिशे काञ्चनाक्षी तु मुनीनां भवितात्मनाम्
आहूता सरितां श्रेष्ठा तत्र भारत पूजित
गयस्य यजमानस्य गयेष्वेव महाक्रतुम्
आहूता सरितां श्रेष्ठा तत्र तेन सरस्वती
विशालां तु गयेष्वाहुर् मुनयस्संशितव्रताः
सरित् सा हिमवत्पार्श्वात् प्रसूता शीघ्रगामिनी
औद्दालकेस्तथा यज्ञं यजतस्तत्र भारत
समेते सर्वतस्स्फीते मुनीनां मण्डले तथा
उत्तरे कोसले भागे पुण्ये राजन् महात्मनः
औद्दालकेन यजता पूर्वं ध्याता सरस्वती
आजगाम सरिच्छेष्ठा तं देशं मुनिकारणात्
पूज्यमाना मुनिगणैर् वल्कलाजिनसंवृतैः
मनोवृतेति विख्याता सा हि तैर्मनसा वृता
कुरोस्तु यजमानस्य कुरुक्षेत्रे महात्मनः
आजगाम महाभागा सरिच्छ्रेष्ठा सरस्वती
ओघवत्यपि राजर्षे वसिष्ठेन महात्मना
समाहूता कुरुक्षेत्रे दिव्यतोया सरस्वती
दक्षेण यजता चैव गङ्गातीरे सरस्वती
सुवेणिरिति विख्याता प्रस्रुता शीघ्रगामिनी
विमलोदा भगवती ब्रह्मणा यजता पुनः
समाहूता ययौ तत्र पुण्ये हैमवते गिरौ
एकीभूतास्ततस्तास्तु तस्मिंस्तीर्थे समागताः
सप्तसारस्वतं तीर्थं ततस्तत् प्रथितं भुवि
इति सप्त सरस्वत्यो नामतः परिकीर्तिताः
सप्तसारस्वतं चैव तीर्थं पुण्यतमं स्मृतम्
शृणु मङ्कणकस्यापि कौमारब्रह्मचारिणः
आपगामवगाढस्य राजन् प्रक्रीडितं महत्
दृष्ट्वा यदृच्छया तत्र स्त्रियमम्भसि भारत
स्नायन्तीं रुचिराकारां दिग्वाससमनिन्दिताम्
सरस्वत्यां महाराज चस्कन्दे रेत अम्भसि
तद्रेतस्स तु जग्राह कलशेन महातपाः
ऋषिः परमधर्मात्मा तदा पुरुषसत्तम
सप्तधा प्रविभक्तं तत् कलशस्थं जगाम ह
तत्रर्षयस्सप्त जाता जज्ञिरेभ्यो मरुद्गणाः
वायुवेगो वायुबलो वायुहा वायुमण्डलः
वायुजालो वायुरेता वायुचक्रश्च वीर्यवान्
एवमेते समुत्पन्ना मरुतां भावयिष्णवः
इदमन्यच्च राजेन्द्र शृण्वाश्चर्यतमं भुवि
महर्षेश्चरितं यादृक् त्रिषु लोकेषु विश्रुतम्
पुरा मङ्कणकस्सिद्धः कुशाग्रेणेति विश्रुत
क्षतः किल करे राजंस् तस्य शाकरसोऽस्रवत्
तं वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान्
ततस्तस्मिन् प्रनृत्ते वै स्थावरं जङ्गमं च यत्
प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम्
ब्रह्मादिभिस्सुरै राजन् ऋषिभिश्च तपोधनैः
विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप
नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि
ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव ह
सुराणां हितकामार्थं तं शिवः प्रत्यभाषत
शिवः-
हर्षाद्ब्राह्मण धर्मज्ञ किमर्थं त्वं प्रनृत्यसि
हर्षस्थानं किमर्थं वा तवेदं मुनिसत्तम
मङ्कणः-
वैशम्पायनः-
किं न पश्यसि मे देव कराच्छाकरसं सृतम्
यं दृष्ट्वा वै प्रनृत्तोऽहं हर्षेण महता विभो
ततस्तमब्रवीद्देवो मुनिं रागेण मोहितम्
शिवः-
अहं वै विस्मयं विप्र गच्छामीह पश्य माम्
वैशम्पायनः-
एवमुक्त्वा मुनिश्रेष्ठं महादेवेन धीमता
अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितो भृशम्
ततो भस्मक्षताद्राजन् निर्गतं हिमसन्निभम्
तद्दृष्ट्वा व्रीडितो राजन् स मुनिः पादयोर्गतः
मङ्कणकः-
नान्यं दैवमहं मन्ये रुद्रात् परतरं महत्
सुरासुरेषु जगतो गतिस्त्वमसि शूलधृक्
त्वया सृष्टमिदं सर्वं वदन्तीह मनीषिणः
त्वामेव सर्वं व्रजति पुनरेव युगक्षये
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया
त्वयि सर्वेश दृश्यन्ते सुरा ये ब्रह्मादयोऽनघ
सर्वस्त्वमसि देवानां कर्ता कारयिता च ह
त्वत्प्रसादात् सुरास्सर्वे मोदन्ते ह्यकुतोभयाः
त्वं प्रभुः परमैश्वर्याद् अधिकं भासि शङ्करः
त्वयि ब्रह्मा च शक्रश्च लोकान् सन्धार्य तिष्ठतः
त्वन्मूलं च जगत् सर्वं त्वदन्तं च महेश्वर
त्वया हि वितता लोकास् सप्तेमे सर्वसम्भव
सर्वथा सर्वभूतेश त्वामेवार्चन्ति देवताः
त्वन्मयं हि जगत् सर्वं भूतं स्थावरजङ्गमम्
स्वर्गं च परमं स्थानं नृणामभ्युदयार्थिनाम्
ददासि च प्रसन्नस्त्वं भक्तानां परमेश्वर
अनावृत्तिपदं नॄणां नित्यं निश्रेयसार्थिनाम्
ददासि कर्मिणां कर्म भावयन् ध्यानयोगतः
न वृथाऽस्ति महादेव प्रसादस्ते महेश्वर
यस्मात् त्वयोपकरणात् करोमि कमलेक्षण
प्रपद्ये शरणं शम्भुं सर्वदा सर्वतस्स्थितम्
वैशम्पायनः-
कर्मणा मनसा वाचा तमेवाभिभजाम ह
एवं स्तुत्वा महादेवस् ऋषिस्स प्रणतोऽब्रवीत्
मङ्कणः-
वैशम्पायनः-
भगवान् त्वत्प्रसादाद्वै तपो मे न क्षरेदिति
ततो देवः प्रीतमनास् तमृषिं पुनरब्रवीत्
शिवः-
तपस्ते वर्धतां विप्र मत्प्रसादात् सहस्रधा
आश्रमे चेह वत्स्यामि त्वया सार्धमहं सदा
सप्तसारस्वते चास्मिन्नर्चयिष्यन्ति ये नराः
तेषां न दुर्लभं किञ्चिद् भवितेह परत्र वा
सारस्वतं च लोकं ते गमिष्यन्ति न संशयः
एवं मङ्कणकस्यापि चरितं भूरितेजसः
स पुत्रस्सहजन्यायाम् उत्पन्नो मातरिश्वना