वैशम्पायनः-
ततो विनशनं राम आजगाम महाबलः
शूद्राभिर्द्विष्यमाणा या यत्र नष्टा सरस्वती
यस्मात् सा भरतश्रेष्ठ शूद्रद्वेष्या सरस्वती
तस्मात् तामृषयो नित्यम् आहुर्विनशनेति वै
तच्चाप्यतिक्रम्य बलस् सरस्वत्यां महाबलः
सुभूमिकं ततोऽगच्छत् सरस्वत्यास्तटं वरम्
यत्र चाप्सरसश्शुभ्रास् सर्वकालमतन्द्रिताः
क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः
तत्र देवास्सगन्धर्वा मासि मासि जनेश्वर
अभिगच्छन्ति तत्तीर्थं पुण्यं ब्राह्मणसेवितम्
तत्र नृत्यन्ति गन्धर्वास् तथैवाप्सरसां गणाः
समेतास्सहिता राजन् यथाप्राप्तं यथासुखम्
तत्र मोदन्ति देवाश्च पितरश्च सवीरुधः
पुण्यैः पुष्पैस्सदा दिव्यैः कीर्यमाणाः पुनः पुनः
आक्रीडभूमिस्सा राजंस् तासामप्सरसां शुभा
सुभूमिकेति विख्याता सरस्वत्यास्तटे वने
तत्र स्नात्वा च दत्त्वा च वसु विप्रेषु माधवः
श्रुत्वा गीतं च तद्दिव्यं वादित्राणां च निस्स्वनम्
छायां च विपुलां दृष्ट्वा देवगन्धर्वरक्षसाम्
गन्धर्वाणां ततस्तीर्थम् आगमद्रोहिणीसुतः
विश्वावसुमुखास्तत्र गन्धर्वास्तपसाऽन्विताः
नृत्तवादित्रगीतं च प्राप्तवन्तो मनोरमम्
तत्र दत्वा हलधरो विप्रेभ्यो विविधं वसु
अजाविकं खरोष्ट्रं च सुवर्णं रजतं तथा
भोजयित्वा द्विजान् कामैस् सन्तर्प्य च महाधनैः
प्रययौ सहितो विप्रैस् स्तूयमानस्तु माधवः
तस्माद्गन्धर्वतीर्थाच्च महाबाहुररिन्दमः
गर्गस्रोतो महत्तीर्थम् आजगामैककुण्डलः
यत्र गर्गेण वृद्धेन तपसा भावितात्मना
कालज्ञानगतिश्चैव ज्योतिषां गतिरेव च
उत्पाता दारुणाश्चैक शुभाश्च जनमेजय
सरस्वत्याश्शुभे तीर्थे विदिताश्च महात्मना
तस्य नाम्ना च तत्तीर्थं गर्गस्रोत इति स्मृतम्
तत्र गर्गं महात्मानम् ऋषयस्सुव्रता नृप
उपासाञ्चक्रिरे नित्यं कालज्ञानगतिं प्रति
तत्र गत्वा महाराज बलश्श्वेतानुलेपनः
विधिवद्धि धनं प्रादान्मुनीनां भावितात्मनाम्
उच्चावचांस्तथा देयान् द्विजेभ्योऽभिप्रदाय च
नीलवासास्तदाऽगच्छच् छङ्घतीर्थं महायशाः
तत्रापश्यन्महाशङ्खं महापद्ममिवोत्थितम्
श्वेतपर्वतसङ्काशम् ऋषिसङ्घैर्निषेवितम्
सरस्वत्यास्तटे जातं नगं तालध्वजो बली
यक्षविद्याधराश्चैव राक्षसाश्च सहस्रशः
पिशाचाश्चामितबलास् तत्र सिद्धास्सहस्रशः
ते सर्वे ह्यशनं कृत्वा फलैस्तस्य वनस्पतेः
व्रतैश्च नियमैश्चैव काले काले स्म भुञ्जते
अदृश्यमाना मनुजैर् व्यचरन् भरतर्षभ
एवं ख्यातो नरपते लोकेऽस्मिन् स वनस्पतिः
तत्र तीर्थं सरस्वत्याः पावनं लोकविश्रुतम्
तस्मिंश्च यदुशार्दूलो दत्वा तीर्थे यशस्विनाम्
ताम्रायसानि भाण्डानि वस्त्राण्याभरणानि च
पूजयित्वा द्विजांश्चैव पूजितश्च द्विजोत्तमैः
पुण्यं राजन्नाजगाम मिनितीर्थं महाबलः
तत्र गत्वा मुनीन् दृष्ट्वा नानावेषधरान् बहून्
आप्लुत्य सलिले चापि पूजयामास वै द्विजान्
तथैव दत्त्वा विप्रेभ्यः परिभोगान् सुपुष्कलान्
ततः प्रायाद्बलो राजन् दक्षिणेन सरस्वतीम्
गत्वा चैनां महाबाहुर् नातिदूरे महाबलः
धर्मात्मा नागधन्वानं तीर्थं चागमदच्युतः
तत्तु पन्नगराजस्य वासुकेस्तन्निवेशनम्
महाद्युतेर्महाराज बहुभिः पन्नगैर्वृतम्
तत्रासन् ऋषयस्सिद्धास् सहस्राणि चतुर्दश
यत्र देवास्समागम्य वासुकिं पन्नगोत्तमम्
सर्वपन्नगराजानम् अभ्यषिञ्चन् यथाविधि
पन्नगेभ्यो भयं तत्र न च विद्यते भारत
तत्रापि विधिवद्दत्वा विप्राणां वित्तसञ्चयान्
ययौ प्राचीं दिशं राजन् दीप्यमानस्स वीर्यवान्
आप्लुत्य बहुशो हृर्टस् तेषु तीर्थेषु लाङ्गली
दत्त्वा वसु द्विजाग्र्येभ्यो निर्जगाम महाबलः
तत्रस्थान् ऋषिसङ्घांस्तान् अभिवाद्य हलायुधः
ततो रामोऽगमत्तीर्थं ऋषिभिस्सेवितं महत्
यत्र भूयो निववृते प्राङ्मुखा वै सरस्वती
ऋषीणां नैमिशीयानाम् अपेक्षार्थं महात्मनाम्
निवृत्तां तां सरिच्छ्रेष्ठां तत्र गत्वा तु लाङ्गली
बभूव विस्मितो राजन् बलश्श्वेतानुलेपनः
जनमेजयः-
कस्मात् सरस्वती ब्रह्मन् निवृत्ता प्राङ्मुखी तथा
आख्यातमेतदिच्छामि सर्वमध्वर्युसत्तम
कस्मिंश्च कारणे तत्र विस्मितो यदुनन्दनः
निवृत्ता च सरिच्छ्रेष्ठा कथमेतद्द्विजोत्तम
वैशम्पायनः-
पूर्वं कृतयुगे राजन् नैमिशेयास्तपोधनाः
वर्तमाने सुविपुले सत्रे द्वादशवार्षिके
ऋषयो बहवो राजंस् तत्र सम्प्रतिपेदिरे
उषित्वा च महाभागास् तत्र तीर्थे यथाविधि
निवृत्ते नैमिशेये वै सत्रे द्वादशवार्षिके
आजग्मु रृषयस्तत्र बहवस्तीर्थकारणात्
ऋषीणां बहुलत्त्वात् तु सरस्वत्या विशां पते
तीर्थानि नगरायन्ते कूले वै दक्षिणोत्तरे
समन्तपञ्चकं यावत् तावत्ते द्विजसत्तमाः
तीर्थलोभान्नरव्याघ्र नद्यास्तीरं समाश्रिताः
जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम्
स्वाध्यायेनापि महता बभूवुः पूरितो दिशः
अग्निहोत्रैस्ततस्तेषां हूयमानैर्महात्मनाम्
अशोभत सरिच्छ्रेष्ठा दीप्यमानैस्समन्ततः
वालखिल्या महाराज अश्मकुट्टाश्च तापसाः
दन्तोलूखलिनश्चान्ये सम्प्रक्षालास्तथा परे
वायुभक्षा फलाहाराः पर्णभक्षाश्च तापसाः
नानानियमधर्माश्च तथाऽन्ये स्थण्डिलेशयाः
अवसन् मुनयस्तत्र सरस्वत्यास्समीपतः
व्यशोभयन् सरिच्छ्रेष्ठां गङ्गामिव दिवौकसः
ततः पश्चात् समापेतुर् ऋषयस्सत्रयाजिनः
तेऽवकाशं च ददृशुः कुरुक्षेत्रे महायशः
ततो यज्ञेः पवीत्रैस्ते तत्र कृत्वा सरस्वतीम्
जुहुवुश्चाग्निहोत्राणि चक्रुश्च विविधाः क्रियाः
ततस्तमृषिसङ्घातं निराशं चिन्तयाऽन्वितम्
दर्शयामास राजेन्द्र तेषामर्थे सरस्वती
तत्र कुञ्जान् बहून् कृत्वा सन्निवृत्ता सरस्वती
ऋषीणां पुण्यतपसां माननार्थं महात्मनाम्
ततो निवृत्ता राजेन्द्र तेषामर्थे सरस्वती
भूयः प्रतीच्यभिमुखी सुस्राव सरितां वरा
अमोघं गमनं कृत्वा तेषां भूयो जगाम ह
अत्यद्भुतं तदा चक्रे तत्र राजन् महानदी
एवं स कुञ्जो राजेन्द्र नैमिशेय इति स्मृतः
कुरुक्षेत्रे कुरुश्रेष्ठ कुरुष्व महतीः क्रियाः
तत्र कुञ्जान् बहून् दृष्ट्वा सन्निवृत्तां च तां नदीम्
बभूव विस्मयस्तत्र रामस्याथ महात्मनः
उपस्पृश्य च तत्रापि विधिवद्यदुनन्दनः
दत्त्वा देयान् द्विजातिभ्यो भाण्डानि विविधानि च
भक्ष्यं पेयं च विविधं ब्राह्मणान् प्रत्यभोजयत्
ततः प्रायाद्बलो राजन् पूज्यमानो द्विजातिभिः
सरस्वत्यास्तीर्थवरं नानाद्विजगणायुतम्
बदरेङ्गुदश्यामाकाप्लक्षाश्वत्थबिभीतकैः
पनसैश्च पलाश्चैश्च करीरैश्च पीलुभिः
सरस्वतीतीररुहैश् चन्दनैस्स्पन्दनैस्तथा
शिरीषकवनैश्चैव बिल्वैरामलकैरपि
अतिमुक्तकषण्डैश्च पारिजातैश्च शोभितम्
कदलीवनभूयिष्ठं दृष्टिकान्तं मनोहरम्
वाय्वम्बुफलपर्णादैर् दन्तोलूखलिकैरपि
तथाऽश्मकुट्टैर्वा तोयैर् मुनिभिर्बहुभिर्वृतम्
स्वाध्यायघोषैस्सङ्घुष्टं गजयूधशताकुलम्
अजस्रं र्धर्मपरमैर् नृभिरत्यन्तसेवितम्
सप्तसारस्वतं तीर्थम् आजगाम हलायुधः
यत्र मङ्कणकस्सिद्धस् तपस्तेपे महामुनिः