वैशम्पायनः-
तस्मान्नदीगतं चापि उदपानं महात्मनः
त्रितस्य वै ततो राजन् जगामाथ हलायुधः
तत्र दत्त्वा बहु द्रव्यं पूजयित्वा च वै द्विजान्
उपस्पृश्य तु तत्रैव प्रहृष्टो मुसलायुधः
तत्र धर्मपरो ह्यासीत् त्रितस्तु सुमहातपाः
कूपे वै वसताऽनेन सोमः पीतो महात्मना
तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्गृहान्
ततस्तु तौ शशापाथ त्रितो ब्राह्मणपुङ्गवः
जनमेजयः-
उदपानं कथं ब्रह्मन् कथं च सुमहातपाः
पतितः किञ्च सन्त्यक्तो भ्रातृभ्यां द्विजसत्तम
कूपे कथं च हित्वैनं जग्मतुर्भ्रातरौ र्गृहान्
एतदाचक्ष्व मे ब्रह्मन् यदि श्राव्यं हि मन्यसे
वैशम्पायनः-
आसन् पूर्वयुगे राजन् मुनयो भ्रातरस्त्रयः
एकतश्च द्वितश्चैव त्रितश्चादित्यसन्निभाः
सर्वे प्रजापतिसमाः प्रजापतय एव च
ब्रह्मलोकजितास्सर्वे तपसा ब्रह्मवादिनः
तेषां तु तपसा प्रीतो नियमेन यमेन च
अभवद्गौतमो नित्यं पिता धर्मरतस्सदा
स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च
जगाम भगवान् स्थानम् अनुरूपमिवात्मनः
राजानस्तस्य ये चापि याज्या राजन् महात्मनः
ते सर्वे स्वर्गते तस्मिंस् तस्य पुत्रानपूजयन्
तेषां तु कर्मणा राजंस् तपसाऽध्ययनेन च
त्रितश्श्रेष्ठत्वमापेदे यथा चास्य पिता तथा
ते स्म सर्वे महाभागा मुनयः पुण्यलक्षणाः
अपूजयन् महाभागं तथा विद्वांस एव च
कदाचिद्धि ततो राजन् भ्रातरावेकतद्वितौ
यज्ञार्थं चक्रतुश्चिन्तां धनार्थं च विशेषतः
तयोश्चिन्ता समभवत् तं प्रगृह्य परन्तप
याज्यान् सर्वानुपादाय प्रतिगृह्य पशूंस्ततः
सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम्
चक्रुश्चैवं तथा राजन् भ्रातरस्त्रय एव च
तथा हि ते परिक्रम्य याज्यान् सर्वान् पशून् प्रति
याजयित्वा ततो याज्याँल्लब्ध्वा तु सुबहून् पशून्
याज्येन कर्मणा तेन प्रतिगृह्य विधानतः
प्राचीं दिशं महात्मान आजग्मुस्ते महर्षयः
त्रितस्तेषां महाराज पुरस्ताद्याति हृष्टवत्
एकतश्च द्वितश्चैव पृष्ठतः कालयन् पशून्
तयोश्चिन्ता समभवद् एकतस्य द्वितस्य च
कथं नु स्युरिमा गाव आवाभ्यां च चित्रं विना
तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह
यदूचतुर्मिथः पापौ तन्निबोध जनाधिप
एकताद्वितौ-
त्रितो यज्ञेषु कुशलस् त्रितो वेदेषु निष्ठितः
अन्यास्त्रितो बहुतरा गावस्समुपलप्स्यते
तदावां सहितौ भूत्वा गाः प्रगृह्य प्रयावहे
त्रितोऽपि गच्छत् तं कामं भ्रातृभ्यां वै विनाकृताः
वैशम्पायनः-
तेषामागच्छतां रात्रौ पथि स्थाने वृकोऽभवत्
तथा कूपोऽविदूरेऽभूत् सरस्वत्यास्तटीगतः
अथ त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः
तद्भयादपसर्पन् वै तस्मिन् कूपे पपात ह
अगाधे सुमहाघोरे सर्वभूतभयङ्करे
त्रितस्ततो महाभागः कूपस्थो मुनिसत्तमः
आर्तनादं महच्चक्रे ततश्शुश्रुवतुर्मुनी
तं ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ
वृकत्रासाच्च लोभाच्च तमुत्सृज्य प्रजग्मतुः
भ्रातृभ्यां पशुलुब्धाभ्याम् उत्सृष्टस्सुमहातपाः
उदपाने तदा राजन् निर्जले पांसुसंवृते
त्रित आत्मानमालक्ष्य वीरुत्पुञ्जतृणावृते
निमग्नो भरतश्रेष्ठ पापकृन्नरके यथा
ततोऽन्वचिन्तयत् प्राज्ञो मृतभूतोस्म्यसोमपाः
सोमः कथं तु पातव्य इहस्थेन मया भवेत्
स एवमभिसञ्चिन्त्य तस्मिन् कूपे महातपाः
ऋचो यजूंषि सामानि मनसाऽचिन्तयन्मुनिः
ददर्श वीरुधं जालं लम्बमानां यदृच्छया
पांसुग्रस्ते ततः कूपे न्यखनत् सलिलं मुनिः
अग्निं सङ्कल्पयामास होतॄनात्मानमेव हि
ततस्तां वीरुधं सोमं सङ्कल्प्य सुमहातपाः
ग्राव्णस्तु शर्कराः कृत्वा प्रचक्रेऽभिषवं मुनिः
आज्यं च सलिलं चक्रे भागांश्च त्रिदिवौकसाम्
सोमस्याभिषवस्याग्रे प्रवृद्धस्तुमुलो ध्वनिः
स चाविशद्दिवं राजन् स्वरश्चैव त्रितस्त वै
समवाप च तं यज्ञं यथोक्तं ब्रह्मवादिभिः
वर्तमाने यथा यज्ञे त्रितस्य सुमहात्मनः
आविग्नं त्रिदिवं सर्वं कारणं न च बुध्यते
ततस्तु तुमुलं शब्दं शुश्राव स बृहस्पतिः
श्रुत्वैव चाब्रवीद्देवान् सर्वान् देवपुरोहितः
बृहस्पतिः-
त्रितस्य वर्तते यज्ञस् तत्र गच्छामहे सुराः
स हि क्रुद्धस्सृजेदन्यान् देवानपि महातपाः
वैशम्पायनः-
तच्छ्रुत्वा वचनं तस्य सहितास्सर्वदेवताः
आययुस्तत्र यत्रास्ते त्रितो यज्ञश्च वर्तते
ते तत्र गत्वा विबुधास् तं कूपं यत्र स त्रितः
ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मणि
दृष्ट्वा चैनं महात्मानं श्रिया परमया युतम्
ऊचुश्चैनं महाराज प्राप्ता भागार्थिनो वयम्
अथाब्रवीदृषिर्देवान् पश्यध्वं त्रिदिवौकसः
अस्मिन् प्रतिभये कूपे निमग्नं नष्टचेतसम्
तत्र त्रितो महाराज भागांस्तेषां यथाविधि
मन्त्रयुक्तान् समाजह्रे तेन प्रीतास्ततोऽभवन्
ततो यथाविधि प्राप्तान् भागान् प्राप्य दिवौकसः
प्रीतात्मानो ददुस्तस्मै वरान् यान् मनसेच्छति
स तु वव्रे वरं देवांस् त्रातुमर्हथ मामितः
यश्चेहापस्स्पृशेत् कूपे स सोमपगतिं लभेत्
तत्र चोर्मिमती राजन्नुत्पपात सरस्वती
तयोत्क्षिप्तस्त्रितस्तस्थौ पूजयंस्त्रिदिवौकसः
तथेति चोक्त्वा विबुधा जग्मू राजन् यथागतम्
त्रितश्चाप्यागमत् प्रीतस् स्वमेव भवनं तदा
क्रुद्धस्स स समासाद्य तावृषी भ्रातरौ तदा
उवाच परुषं वाक्यं शशाप च परन्तप
त्रितः-
पशुलुब्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ
तस्माद्रूपेण तासां वै दंष्ट्रिणावभितश्चरौ
भवितारौ मया शप्तौ पापेनानेन कर्मणा
प्रसवश्चैव युवयोर् गोलाङ्गूलर्क्षवानराः
वैशम्पायनः-
इत्युक्तेऽथ तदा तेन क्षणादेव विशां पते
तथाभूतावदृश्येतां वचनात् सत्यवादिनः
तत्राप्यमितविक्रान्तस् स्पृष्ट्वा तोयं हलायुधः
दत्त्वा च विविधान् देयान् पूजयित्वा च वै द्विजान्
उदपानं च तद्दृष्ट्वा प्रशस्य च पुनःपुनः
नदीगतममेयात्मा प्राप्तो विनशनं तदा