जनमेजयः-
पूर्वमेव यदा रामो युद्धे तस्मिन्नुपस्थिते
आमन्त्र्य केशवं यातो वृष्णिभिस्सहितः प्रभुः
बलरामः-
साहाय्यं धार्तराष्ट्रस्य न चेत् कर्तास्मि केशव
तथैव पाण्डुपुत्राणां गमिष्यामि यथागतम्
जनमेजयः-
एवमुक्त्वा तदा रामो यातश्शत्रुनिषूदनः
तस्य चागमनं भूयो ब्रह्मन् ब्रूह्यद्य मे प्रभो
आख्याहि मे विस्तरशः कथं राम उपस्थितः
कथं च दृष्टवान् युद्धं कुशलो ह्यसि वै द्विज
वैशम्पायनः-
उपप्लाव्ये निविष्टेषु पाण्डवेषु महात्मसु
प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः
शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम्
स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च
उक्तवान् वचनं पथ्यं हितं चैव विशां पते
न च तत् कृतवान् राजा यथाऽऽख्यातं हि ते पुरा
अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः
आगच्छच्च महाबाहुर् उपप्लाव्यं जनाधिप
ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः
आजगाम नरव्याघ्रः पाण्डवानामनीकिनीम्
यथोक्तं च यथावृत्तम् उक्त्त्वा पाण्डवमब्रवीत्
श्रीभगवान्-
न कुर्वन्ति वचो मह्यं कुरवः कालनोदिताः
निर्गच्छध्वं पाण्डवेयाः पुष्येण सहिता मया
वैशम्पायनः-
ततो विभज्यमानेषु बलेषु बलिनां वरः
प्रोवाच भ्रातरं कृष्णं रौहिणेयो प्रतापवान्
तेषामपि महाबाहो साहाय्यं मधुसूदन
क्रियतामिति तत् कृष्णो नास्य चक्रे वचस्तदा
ततो मन्युपरीतात्मा जगाम यदुनन्दनः
तीर्थयात्रां हलधरस् सरस्वत्यां महायशाः
मैत्रे नक्षत्रयोगे वै सहितस्सर्वयादवैः
आश्रयामास भोजस्तु दुर्योधनमरिन्दमम्
युयुधानेन सहितो वासुदेवश्च पाण्डवान्
रौहिणेये गते शूरे पुष्येण मधुसूदनः
पाण्डवेयान् पुरस्कृत्य ययावभिमुखः कूरून्
गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह
बलरामः-
सम्भारांस्तीर्थयात्रायास् सर्वोपकरणानि च
आनयध्वं द्वारकाया अग्नीन् वै याजकांस्तथा
सुवर्णं रजतं चैव धेनूर्वासांसि वाजिनः
कुञ्जरांश्च रथांश्चैव खरोष्ट्रमहिषानपि
क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम्
प्रतिस्रोतस्सरस्वत्या गच्छध्वं शीघ्रगामिनः
ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान्
वैशम्पायनः-
एतं सन्दिश्य तु प्रेष्यान् बलदेवो महाबलः
तीर्थयात्रां गतो रामः कुरूणां वैशसे तदा
सरस्वत्याः प्रतिस्रोतस् समुद्रादभिजग्मिवान
रामो यदूत्तमश्श्रीमान् तीर्थयात्रामनुस्मरन्
ऋत्विग्भिश्च सुहृद्भिश्च तथाऽन्यैर्द्विजसत्तमैः
रथैर्नागैस्तथाऽश्वैश्च प्रेष्यैश्च भरतर्षभ
गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्नृप
श्रान्तानां क्लान्तमनसां शिशूनां विपुलायुषाम्
तानि यानीह देशेषु प्रतीक्षन्ते स्म भारत
बुभुक्षितानामर्थाय क्लृप्तं राजन् समन्ततः
यो यो यत्र द्विजो भोक्तुं कामं कामयते तदा
तस्य तस्य तु तत्रैव उपजह्रुस्तथा नृप
यत्र स्थिता नरा राजन् रौहिणेयस्य शासनात्
भक्ष्यपेयस्य कुर्वन्ति राशिं तत्र पृथक् पृथक्
वासांसि च महार्हाणि पर्यङ्कास्तरणानि च
पूजार्थं तत्र क्लृप्तानि विप्राणां सुखमिच्छताम्
यत्रैव सुषुपुर्विप्रा ये वा जाग्रति भारत
तत्र तत्रैव सर्वस्य क्लृप्तं सर्वमदृश्यत
यथासुखं जनस्सर्वस् तिष्ठते च दिवानिशम्
यातुकामस्य यानानि पानानि तृषितस्य च
बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ
पूजार्थं तत्र क्लृप्तानि विप्राणां सुखमिच्छताम्
उपजह्रुर्नरास्तत्र वस्त्राण्याभरणानि च
स पन्थाः प्रबभौ राजन् सर्वस्यैव सुखावहः
स्वर्गोपमस्तदा राजन् नराणां तत्र गच्छताम्
नित्यप्रमुदितोपेतस् स्वादुभक्षजलान्वितः
विपणापणपण्यैश्च नानाजनपदैर्वृतः
नानाद्रुमलतोपेतो नानारत्नविभूषितः
ततो महात्मा नियमे स्थितात्मा पुण्येषु तीर्थेषु वसूनि राजन्
ददौ द्विजेभ्यः क्रतुदक्षिणां च यदुप्रवीरो हलधृक् प्रतीतः
दोग्ध्रीश्च धेनूश्च सहस्रशो वै सुवाससः काञ्चनबद्धशृङ्गाः
हयांश्च नानाविधदेशजातान् यानानि दासीश्च शुचीर्द्विजेभ्यः
वासांसि मुक्तामणिविद्रुमांश्च गृहान् सुवर्णं रजतं च शुभ्रम्
अयोमयं ताम्रमयं च भाण्डं ददौ द्विजातिप्रवरेषु रामः
एवं स वित्तं प्रददौ महात्मा सरस्वतीतीर्थगतेषु भूरि
ययौ क्रमेणाप्रतिमप्रभावस् ततः कुरुक्षेत्रमुदारवृत्तः
जनमेजयः-
सारस्वतानां तीर्थानां गुणोत्पत्तिं ब्रवीहि मे
फलं च द्विपदां श्रेष्ठ निर्वृत्तिमपि कर्मणाम्
यथाक्रमं च भगवंस् तीर्थानामनुपूर्वशः
ब्रूहि ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे
वैशम्पायनः-
तीर्थानां विस्तरं राजन् गुणोत्पत्तिं च सर्वशः
मयोच्यमानां शृणु मे पुण्यां राजेन्द्र पावनीम्
पूर्वं महाराज यदुप्रवीर ऋत्विक्सुहृद्विप्रगणैश्च सार्धम्
पुण्यं प्रभासं समुपाजगाम यत्रोडुराड्यक्ष्मणा क्षीयमाणः
विमुक्तशापः पुनरात्ततेजास् सर्वं जगद्भासयते नरेन्द्र
एतत्तु तीर्थप्रवरं पृथिव्यां प्रभासनात् तस्य ततः प्रभासः
जनमेजयः-
किमर्थं भगवान् सोमो यक्ष्मणा पर्यगृह्यत
कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत
कथमाप्लुत्य तस्मिंश्च पुनराप्यायितश्शशी
एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने
वैशम्पायनः-
दक्षस्य तनया राजन् प्रादुरासन् विशां पते
सप्तविंशत्तु ताः कन्यास् सोमाय प्रददौ प्रभुः
नक्षत्रयोगनिरतास् सङ्ख्यानार्थं च भावयन्
पत्न्यस्तस्य तु राजेन्द्र सोमस्य शुभलक्षणाः
तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमा भवन्
अत्यरिच्यत तासां तु रोहिणी रूपसम्पदा
ततस्तस्यां स भगवान् प्रीतिं चक्रे निशाकरः
साऽस्य हृद्या बभूवाथ तस्मात्तां भजते सदा
शशी पुरा हि राजेन्द्र रोहिण्यामवसच्चिरम्
ततोऽस्मै कुपितान्यासन् नक्षत्राणि महात्मने
ता गत्वा पितरं प्राहुः प्रजापतिमनिन्द्रिताः
तारकाः-
सोमो वसति नास्मासु रोहिण्यां वसते सदा
वैशम्पायनः-
ता वयं सहितास्सर्वास् त्वत्सकाशं प्रजेश्वर
वत्स्यामो नियताहारास् तपश्चरणतत्पराः
श्रुत्वा तु वचनं तासां दक्षस्सोममथाब्रवीत्
दक्षः-
सोम वर्तस्व सर्वासु मा त्वाऽधर्मो महान् स्पृशेत्
वैशम्पायनः-
तास्सर्वाश्चाब्रवीद्दक्षो गच्छध्वं सोममन्तिकम्
समं वत्स्यति सर्वासु चन्द्रमा मम शासनात्
विसृष्टास्तास्तदा जग्मुश् शीतांशोर्भवनं तथा
ततस्तु सोमो भगवान् पुनरेव महीपते
रोहिण्या सार्धमवसत् प्रीयमाणो मुहुर्मुहुः
ततस्तास्सहितास्सर्वा भूयः पितरमब्रुवन्
नक्षत्राणि-
वैशम्पायनः-
सोमो वसति नास्मासु नाकरोद्वचनं तव
तव शुश्रूषणे युक्ता वत्स्यामो हि तवग्रतः
तासां तु वचनं श्रुत्वा दक्षस्सोममथाब्रवीत्
दक्षः-
समं वर्तस्व सर्वासु मा स्म शप्स्ये ह चन्द्रमाः
वैशम्पायनः-
अनादृत्य तु तद्वाक्यं दक्षस्य भगवान् शशी
रोहिण्या सार्धमवसत् ततस्ताः कुपिताः पुनः
गत्वा च वचनं प्राहुश् शरोभिः प्रणतास्तदा
नक्षत्राणि-
सोमो वसति नास्मासु तस्मान्नश्शरणं भव
रोहिण्यामेव भगवान् सदा वसति चन्द्रमाः
तस्मान्नस्त्राहि सर्वा वै यथा नस्सोम आविशेत्
वैशम्पायनः-
तच्छ्रुत्वा भगवान् क्रुद्धो यक्ष्माणं पृथिवीपते
ससर्ज रोषात् सोमाय स चोडुपतिमाविशत्
स यक्ष्मणाऽभिभूतस्सन् क्षीयतेऽहरहश्शशी
यत्नं चाप्यकरोद्राजन् मोक्षार्थं तस्य यक्ष्मणः
इष्ट्वेष्टिभिर्महाराज विचित्राभिर्निशाकरः
न चामुच्यत शापाद्वै क्षयं चैवाधिगच्छति
क्षीयमाणे ततस्सोमे ओषध्यो न प्रजज्ञिरे
निरास्वादरसास्सर्वा हतवीर्याश्च सर्वशः
ओषधीनां क्षये जाते प्राणिनामपि सङ्क्षयः
कृशाश्चासन् प्रजास्सर्वाः क्षीयमाणे निशाकरे
ततो देवास्समागम्य सोममूचुर्नराधिप
देवाः-
किमिदं भवतो रूपम् ईदृशं सम्प्रकाशते
कारणं ब्रूहि नस्सर्वं येनेदं ते महद्भयम्
श्रुत्वा तु कारणं त्वत्तो विधास्यामस्ततो वयम्
वैशम्पायनः-
एवमुक्तः प्रत्युवाच सर्वांस्ताञ् शशलक्षणः
शापस्य कारणं चैव यक्ष्माणं च तथाऽऽत्मनः
देवास्तस्य वचश्श्रुत्वा गत्वा दक्षमथाऽब्रुवन्
दवाः-
प्रसीदतु भवान् सोमाच् छापश्चैव निवर्त्यताम्
असौ हि चन्द्रमाः क्षीणः किञ्चिच्छेषश्च लक्ष्यते
क्षयं व्रजति शीतांशौ तत्प्रजा आगताः क्षयम्
वीरुदोषधयश्चैव बीजानि विविधानि च
वैशम्पायनः-
तथा वयं लोकगुरो प्रसादं कर्तुमर्हसि
एवमुक्तस्तु सञ्चिन्त्य प्राह वाक्यं प्रजापतिः
दक्षः-
नै गच्छक्यं मम वचो व्यावर्तयितुमञ्जसा
हेतुना तु महाभागा निवर्तिष्यति केनचित्
समं वर्तेत सर्वासु शशी भार्यासु सर्वशः
अस्मिंस्तीर्थवरे चापि निमज्जेच्छशलक्षणः
पुनर्वर्धिष्यते देवास् तद्वै सत्यं वचो मम
मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति
मासार्धं च पुनर्वृद्विं सत्यमेवं ब्रवीमि वः
तीर्थयात्रां ततस्सोमो जगाम ऋषिशासनात्
प्रभासं प्रथमं तीर्थं सरस्वत्या जगाम ह
अमावास्यां महातेजास् तत्रा मज्जन् महाद्युतिः
लोकान् प्रभासयामास शीतांशुत्वमवाप च
देवाश्च सर्वे राजेन्द्र प्रसादं प्राप्य पुष्कलम्
सोमेन सहिता भूत्वा दक्षस्य प्रमुखे स्थिताः
ततः प्रजापतिर्देवो विससर्जाथ देवताः
सोमं च भगवान् भूयः प्रीतो वचनमब्रवीत्
दक्षः-
माऽवमंस्थास्स्त्रियः पुत्र मा च विप्रान् कदाचन
गच्छ युक्तस्सदा भूत्वा कुरु त्वं शासनं मम
वैशम्पायनः-
स विसृष्टो महातेजा जगामाथ स्वमालयम्
प्रजाश्च मुदिता भूत्वा ईजिरे च यथापुरम्
एतत् ते सर्वमाख्यातं यथा शप्तो निशाकरः
प्रभासं च यथा तीर्थं तीर्थानां प्रवरं ह्यभूत्
अमावास्यां महाराज स नित्यं शशलक्षणः
स्नात्वा ह्याप्यायते श्रीमान् प्रभासे तीर्थसत्तमे
अतश्चैनं प्रजानन्ति प्रभासमिति भूमिप
प्रभां हि परमां लेभे तस्मिन्नामज्य चन्द्रमाः
लोकान् प्रभासयामास पुपोष च वपुस्तथा
तत्र स्नात्वा हली रामो दत्वा प्रीतोऽथ दक्षिणाः
ततस्तु चमसोद्भेदम् अभीतस्त्वगमद्बली
चमसोद्भेद इत्येवं यं जनोऽकथयद्भुवि
तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः
उषित्वा रजनीमेकां स्नात्वा च विधिवत् तदा
उदपानमथागच्छत् त्वरावान् केशवाग्रजः
आद्यं स्वस्त्ययनं चैव तत्रावाप्य महाबलः
स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय
जानन्ति सिद्धा मुनयो निगूढां तां सरस्वतीम्