सञ्जयः-
एवं दुर्योधने राजन् गर्जमाने पुनः पुनः
वासुदेवोऽब्रवीत् क्रुद्धो युधिष्ठिरमिदं वचः
श्रीभगवान्-
यदि नाम ह्ययं यूद्धे वरयेत् त्वां युधिष्ठिर
अर्जुनं नकुलं वाऽपि सहदेवमथापि वा
किमिदं व्याहृतं राजंस् त्वया साहसमीदृशम्
एकमेव निहत्याजौ भव राजा कुरुष्विति
एतेन हि कृता योग्या वर्षाणीह त्रयोदश
आयसैः पुरुषैः राजन् भीमसेनवधेप्सया
कथं नाम भवेत् कार्यम् अस्माभिर्भरतर्षभ
साहसं कृतवान् यत् त्वम् अनुक्रोशान्नृपोत्तम
न चान्यमद्य पश्यामि प्रतियोद्धारमाहवे
ऋते वृकोदरात् पार्थात् स च नातिकृतश्रमः
तदिदं द्यूतमारब्धं पुनरेव यथा पुरा
विषमं शकुनेश्चैव तव चैव विशेषतः
बली भीमस्समर्थश्च कृती राजन् सुयोधनः
बलवान् वै कृती वेति कृती राजन् विशिष्यते
सोऽयं राजंस्त्वया शत्रुस् समे पथि निवेशितः
न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वयम्
को हि सर्वान् विनिर्जित्य शत्रूनेकेन वैरिणा
पणित्वा चैकपाणेन शोचयेेदेवमाहवम्
न हि पश्यामि तल्ँलोके गदाहस्तं नरेश्वर
योऽद्य दुर्योधनं सङ्ख्ये कृतित्वाद्धि विशेषयेत्
फल्गुनो वा भवान् वाऽपि माद्रीपुत्रावथापि वा
न समर्थानहं मन्ये गदाहस्तस्य संयुगे
स कथं वदसे शत्रुं युध्यस्व गदयेति हि
एकं वा त्वं निहत्याजौ भव राजेति भारत
वृकोदरं समासाद्य संशयो विजयो हि नः
न्यायतो युध्यमानानां कृती ह्येष महाबलः
भीमः-
मधुसूदन मा कार्षीर् विषादं यदुपुङ्गव
अद्य पारं गमिष्यामि वैरस्यास्य सुदुर्गमम्
अहं सुयोधनं सङ्ख्ये हनिष्यामि न संशयः
विजयो वै ध्रुवः कृष्ण धर्मराजस्य दृश्यते
अत्यर्थेन गुणेनेयं गदा गुरुतरी मम
न तथा धार्तराष्ट्रस्य मा कार्षीर्माधव व्यथाम्
अनया गदया चाहं संयुगे योद्धुमुत्सहे
भवन्तः प्रेक्षकास्सर्वे मम सन्तु जनार्दन
सामरानपि लोकांस्त्रीन् नानाशस्त्रधरान् युधि
योधयेयं रणे हृष्टः किमुताद्य सुयोधनम्
सञ्जयः-
तं तथा भाषमाणं तु वासुदेवो वृकोदरम्
हृष्टस्सम्पूजयामास वचनं चेदमब्रवीत्
श्रीभगवान्-
त्वामासाद्य महाबाहो धर्मराजो युधिष्ठिरः
निहतारिस्स्वकां दीप्तां श्रियमप्नोत्यसंशयम्
त्वया विनिहतास्सर्वे धृतराष्ट्रसुता रणे
राजानो राजपुत्राश्च नागाश्च विनिपातिताः
कलिङ्गामागधाः प्राच्या गान्धाराः कुरवस्तथा
त्वामासाद्य महायुद्धे निहताः पाण्डुनन्दन
हत्वा दुर्योधनं चापि प्रयच्छोर्वीं ससागराम्
धर्मराजाय कौन्तेय सशैलवनकाननाम्
त्वां तु प्राप्य रणे पापो धार्तराष्ट्रो विनश्यति
त्वमस्य सक्थिनी भङ्क्त्वा प्रतिज्ञां पालयिष्यसि
यत्नेन हि त्वया पार्थ योद्धव्यो धृतराष्ट्रजः
कृती च युद्धशौण्डश्च बलवांश्चैव पार्थिवः
सञ्जयः-
ततस्तु सात्यकी राजन् पूजयामास पाण्डवम्
विविधाभरणस्त्रग्भिर् भीमसेनं जनेश्वर
पाञ्चालाः पाण्डवेयाश्च धर्मराजपुरोगमाः
तद्वचो भीमसेनस्य सर्व एवाभ्यपूजयन्
ततो भीमबलो भीमो युधिष्ठिरमथाब्रवीत्
सृञ्जयैस्सह तिष्ठन्तं तपन्तमिव भास्करम्
अहमेतेन सङ्गम्य संयुगे योद्धुमुत्सहे
न हि शक्तो रणे जेतुं मामेष पुरुषाधमः
अद्य क्रोधं विमोक्ष्यामि निहितं हृच्छयं भृशम्
सुयोधने धार्तराष्ट्रे खाण्डवेऽग्निमिवार्जुनः
शल्यमद्योद्धरिष्यामि तव पाण्डव हृद्गतम्
निहते गदया पापम् अद्य राजन् सुखी भव
अद्य कीर्तिमयीं मालां प्रितमोक्ष्ये तवानघ
प्राणान् श्रियं च राज्यं च मोक्ष्यतेऽद्य सुयोधनः
राजा तु धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं निपातितम्
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम्
सञ्जयः-
इत्युक्त्वा भरतश्रेष्ठो गदामुद्यम्य भारत
अवातिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन्
तमेकाकिनमासाद्य धार्तराष्ट्रं महाबलम्
निर्यूथमिव मातङ्गं समहृष्यन्त पाण्डवाः
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्
भीमसेनस्तदा राजन् दुर्योधनमथाब्रवीत्
भीमः-
राज्ञा च धृतराष्ट्रेण त्वया चास्मासु यत् कृतम्
स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते
द्रौपदी सुपरिक्लिष्टा समामध्ये रजस्वला
द्यूते च वञ्चितो राजा शकुनेर्बुद्धिलाघवात्
यानि चान्यानि दुष्टात्मन् पापानि कृतवानसि
पार्थेषु यत् कृतं त्वागस् तस्य पश्य महत् फलम्
त्वत्कृते निहतश्शेते शरतल्पे महायशाः
गाङ्गेयो भरतश्रेष्ठस् सर्वेषां नः पितामहः
हतो द्रोणश्च कर्णश्च हतश्शल्यश्च वीर्यवान्
वैराग्नेरादिकर्ता च शकुनिर्विनिपातितः
भ्रातरस्ते हताश्शूरा पुत्राश्च सहसैनिकाः
राजानश्च हताश्शूरास् समरेष्वनिवर्तिनः
एते चान्ये च बहवो निहताः क्षत्रियर्षभाः
प्रातिकामी हतः पापो द्रौपद्याः क्लेशकृच्छठः
अवशिष्टस्त्वमेवैकः कुलघ्नोऽधमपूरुषः
त्वामप्यद्य हनिष्यामि गदया नात्र संशयः
अद्य तेऽहं रणे दर्पं सर्वं नाशयिता नृप
राज्याशां विपुलां चापि पाण्डवेषु च दुष्टताम्
दुर्योधनः-
किं कत्थनेन बहुधा युध्यस्वाद्य मया सह
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां वृकोदर
किं न पश्यसि मां पार्थ गदापाणिमवस्थितम्
हिमवच्छिखराकारां प्रगृह्य महतीं गदाम्
गदिनं कोऽद्य मां पार्थ जेतुमुत्सहते रिपुः
न्यायतो युध्यमानश्च देवेष्वपि पुरन्दरः
मा वृथा गर्ज कौन्तेय शारदाभ्र इवाजलः
दर्शयस्व बलं युद्धे यावन्नासून् निहन्मि ते
सञ्जयः-
तस्य तद्वचनं श्रुत्वा पाण्डवास्सहसृञ्जयाः
सर्वे सम्पूजयामासुस् तद्वचो विजिगीषवः
तं मत्तमिव मातङ्गं तलशब्देन पार्थिवाः
भूयस्संहर्षयामासू राजन् दुर्योधनं द्विषः
बृंहन्ति कुञ्जरा राजन् हया हेषन्ति चासकृत्
शस्त्राणि सम्प्रदीप्यन्ते पाण्डवानां यशस्विनाम्
तस्मिन् युद्धे महाराज सम्प्रवृत्ते भयानके
उपविष्टेषु सर्वेषु पाण्डवेषु महात्मसु
ततस्तालध्वजो रामस् तयोर्युद्ध उपस्थिते
श्रुत्वा तच्छिष्ययोर्युद्धम् अाजगाम महाबलः
तं दृष्ट्वा परमप्रीताः पूजयित्वा महाबलाः
शिष्ययोः कौशलं युद्धे पश्य रामेति चाब्रुवन्
अब्रवीच्च तदा रामो दृष्ट्वा कृष्णं च पाण्डवम्
दुर्योधनं च कौरव्यं गदापाणिमवस्थितम्
बलरामः-
चत्वारिंशद्दिनान्यद्य द्वे चान्ये निस्सृतस्य मे
पुष्येण सम्प्रयातोऽस्मि श्रवणे पुनरागतः
शिष्ययोर्वै गदायुद्धं द्रुष्टुकामोऽस्मि माधव
सञ्जयः-
ततो युधिष्ठिरो राजा परिष्वज्य हलायुधम्
स्वागतं कुशलं चास्मै पर्यपृच्छद्यथातथम्
कृष्णौ चापि महेष्वासावभिवाद्य हलायुधम्
सस्वजाते परं प्रीत्या प्रीयमाणौ यशस्विनौ
माद्रीपुत्रौ तथा शूरौ द्रौपद्याः पञ्च चात्मजाः
अभिवाद्य स्थिता राजन् रौहिणेयं महाबलम्
भीमसेनोऽपि बलवान् पुत्रश्च तव भारत
तौ तथैवोद्यतगदौ पूजयेतां हलायुधम्
स्वागतेन च ते तत्र प्रतिपूज्य पुनः पुनः
पश्य युद्धं महाबाह्वोर् इति ते राममब्रुवन्
एवमूचुर्महात्मानं रौहिणेयं नराधिपाः
परिष्वज्य तदा रामः पाण्डवान् सह सृञ्जयानपि
अपृच्छत् कुशलं सर्वान् पार्थिवांश्चामितौजसः
तथैव ते समासाद्य पप्रच्छुस्तमनामयम्
तान् प्रत्यर्च्य हली सर्वान् क्षत्रियांश्चामितौजसः
कृत्वा कुशलसम्प्रश्नं संविदं च यथावयः
जनार्दनं सात्यकिं च प्रेम्णा सम्परिषस्वजे
मूर्ध्नि चैतावुपाघ्राय कुशलं पर्यपृच्छत
तौ चैनं विधिवद्राजन् पूजयामासतुर्गुरुम्
ब्रह्माणामिव देवेशम् इन्द्रोपेन्द्रौ मुदा युतौ
ततोऽब्रवीद्धर्मसुतो रौहिणेयमरिन्दमम्
इदं भ्रात्रोर्महायुद्धं पश्य रामेति भारत
तेषां मध्ये महाबाहुश् श्रीमान् केशवपूर्वजः
न्यविशत् परमप्रीतः पूज्यमानो महारथैः
स बभौ राजमध्यस्थो नीलवासास्सितप्रभः
दिवीव नक्षत्रगणैः परिकीर्णो निशाकरः
ततस्तयोस्सन्निपातस् तुमुलो रोमहर्षणः
आसीदन्तकरो राजन् वैरस्यान्तं विधित्सतोः