सञ्जयः-
ततस्तेष्वपयातेषु रथेषु त्रिषु पाण्डवाः
तं ह्रदं प्रत्यपद्यन्त यत्र दुर्योधनोऽभवत्
आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनं ह्रदम्
स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम्
वासुदेवमिदं वाक्यम् अब्रवीत् कुरुनन्दनः
युधिष्ठिरः-
पश्येमां धार्तराष्ट्रेण मायामप्सु प्रयोजिताम्
विष्टभ्य सलिलं शेते नास्य मानुषतो भयम्
दैवीं मायामिमां कृत्वा सलिलान्तर्गतो ह्ययम्
निकृत्या निकृतिप्रज्ञो न स जीवन् विमोक्ष्यते
यद्यस्य समरे साह्यं कुरुते वज्रभृत्स्वयम्
तथाऽप्येनं हतं युद्धे लोका द्रक्ष्यन्ति माधव
श्रीगवान्-
मायाविन इमां मायां मायया जहि भारत
मायावी मायया वध्यस् सत्यमेतद्युधिष्ठिर
क्रियाभ्युपायैर्बहुलैर् मायामप्सु प्रयुज्य ह
जहि त्वं भरतश्रेष्ठ मायायैव सुयोधनम्
क्रियाभ्युपायैरिन्द्रेण निहता दैत्यदानवाः
क्रियाभ्युपायैः पूर्वं हि बलिर्बद्धो महात्मना
क्रियाभ्युपायैः पूर्वं हि हिरण्याक्षो महासुरः
हिरण्यकशिपुश्चैव क्रिययैव निषूदितः
वृत्रश्च निहतो राजन् क्रिययैव न संशयः
तथा पौलस्त्यतनयो रावणो नाम राक्षसः
रामेण निहतो राजन् सानुबन्धस्सहानुगः
क्रियया योगमास्थाय तथा त्वमपि विक्रम
क्रियाभ्युपायैर्निहतौ यमो नाम महासुरः
नरकश्च महावीर्यो विप्रचित्तिश्च वीर्यवान्
वातापिरिल्वलश्चैव त्रिशिराश्च तथा विभो
सुन्दोपसुन्दावसुरौ क्रिययैव निषूदितौ
तारकश्च महादैत्यो ह्यन्धकश्च निषूदितः
क्रियाभ्युपायैरिन्द्रेण त्रिदिवं भुज्यते विभो
क्रिया बलवती राजन् नान्यत् किञ्चिद्युधिष्ठिर
दैत्याश्च बहवो राजन् राक्षसाः पार्थिवास्तथा
क्रियाभ्युपायैर्निहताः क्रियां तस्मात् समाचर
सञ्जयः-
इत्युक्तो वासुदेवेन पाण्डवस्संशितव्रतः
जलस्थं तं महाराज तव पुत्रं महारथम्
अभ्यभाषत कौन्तेयः प्रहसन्निव भारत
युधिष्ठिरः-
सुयोधन किमर्थोऽयम् आरम्भोऽप्सु कृतस्त्वया
सर्वक्षत्रं घातयित्वा स्वजनं च विशां पते
जलाशयं प्रविष्टोऽद्य वाञ्छञ्जीवितमात्मनः
उत्तिष्ठ राजन् युद्धाय सहास्माभिस्सुयोधन
क्व ते दर्पो नरश्रेष्ठ स च मानः क्व ते गतः
यस्त्वं संस्तम्भ्य सलिलं राजन् भीतो व्यवस्थितः
सर्वे त्वां शूर इत्येवं जना जल्पन्ति संसदि
व्यर्थं तद्भवतो मन्ये शौर्यं सलिलशायिनः
उत्तिष्ठ राजन् युध्यस्व क्षत्रियोऽसि कुलोद्भवः
कौरवेयो विशेषेण कुलं जन्म च संस्मर
स कथं कौरवे वंशे प्रशस्तं जन्म चात्मनः
युद्धा त्रस्तस्ततस्तोयं प्रविश्य प्रतितिष्ठसि
अयुद्धेन व्यवस्थानं नैष धर्मस्सनातनः
अनार्यजुष्टमस्वर्ग्यं रणाद्राज्ञः पलायनम्
कथं पारमगत्वा हि युद्धे त्वं वै जिजीविषुः
इमान् निपतितान् दृष्ट्वा पुत्रान् भ्रातॄन् पितॄन् सखीन्
सम्बन्धिनो बान्धवांश्च वयस्यान् मातुलांस्तथा
घातयित्वा कथं तात ह्रदे तिष्ठसि साम्प्रतम्
शूरमानी न शूरस्त्वं मिथ्या वदसि कौरव
शूरोऽहमिति दुर्बुद्धे सर्वलोकस्य पश्यतः
न हि शूराः पलायन्ते शत्रून् दृष्ट्वा कथञ्चन
ब्रूहि वा त्वं यया वृत्त्या शूरस्त्यजसि संयुगम्
स त्वमुत्तिष्ठ युध्यस्व विहाय भयमात्मनः
पातयित्वा सर्वसैन्यान् भ्रातॄंश्चैव सुयोधन
नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षया
क्षत्रधर्मं समाश्रित्य त्वद्विधेन सुयोधन
यत् त्वं हि कर्णमुपाश्रित्य शकुनिं चापि सौबलम्
दुश्शासनं च मोहात् त्वम् आत्मानं नावबुद्धवान्
तत् पापं सुमहत् कृत्वा प्रतियुध्यस्व भारत
कथं हि त्वद्विधो मोहाद् रोचयेत पलायनम्
क्व चैतत् पौरुषं यातं क्व च मानस्सुयोधन
क्व च विक्रान्तता याता क्व च विष्फूर्जितं महत्
क्व ते कृतास्त्रता याता किं नु शेषे जलाशये
स त्वमुत्तिष्ठ युध्यस्व क्षत्रधर्मेण भारत
अस्मान् वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम्
अथवा निहतोस्माभिस् स्वर्गमाप्नुहि भारत
एष ते प्रथमो धर्मस् सृष्टो धात्रा महात्मना
तं कुरुष्व यथातत्त्वं पौरुषे स्वे व्यवस्थितः
दुर्योधनः-
नैतच्चित्रं महाराज यद्भीः प्राणिनमाविशेत्
न च प्राणभयाद्भीतो व्यपयातोऽस्मि भारत
विरथश्चानिषङ्गी च निहतः पार्ष्णिसारथिः
एकश्च विगणस्सोऽहं प्रत्याश्वासमरोचयम्
न प्राणहेतोर्न भयान्न विषादाद्विशां पते
इदमम्भः प्रविष्टोऽस्मि श्रमात्त्विदमनुष्ठितम्
त्वं चाश्वसिहि कौन्तेय ये चाप्यनुगतास्तव
अहमुत्थाय वस्सर्वान् प्रतियोद्धास्मि संयुगे
युधिष्ठिरः-
आश्वस्ता वयं सर्वे चिरं त्वां मृगयामहे
त्वमिदानीं समुत्तिष्ठ युध्यस्वेह सुयोधन
हत्वा च समरे पार्थान् स्फीतं राज्यमवाप्नुहि
निहतो वा रणेऽस्माभिर् वीरलोकं गमिष्यसि
दुर्योधनः-
यदर्थं राज्यमिच्छेयं कुरूणां कुरुनन्दन
त इमे निहतास्सर्वे भ्रातरो मे जनेश्वर
क्षीणरत्नां च पृथिवीं हतक्षत्रियपुङ्गवाम्
नैतामिच्छाम्यहं भोक्तुं विधवामिव योषितम्
अद्यापि त्वहमाशंसे त्वां विजेतुं युधिष्ठिर
भङ्क्त्वा पाञ्चालपाण्डूनाम् उत्साहं भरतर्षभ
न त्विदानीमहं मन्ये कार्यं युद्धेन केन चित्
द्रोणे कर्णे च संशान्ते निहते च पितामहे
अस्त्विदानीमियं राजन् केवला पृथिवी तव
असहायो हि को राजा राज्यमिच्छेत् प्रशासितुम्
सुहृदस्तादृशान् हत्वा पुत्रान् भ्रातॄन् पितॄनपि
भवद्भिश्च हृते राज्ये को नु जीवेत मादृशः
अहं वनं गमिष्यामि अजिनैः परिवारितः
रतिर्हि नास्ति मे राज्ये हतपक्षस्य भारत
हतबान्धवभूयिष्ठा हताश्वा हतकुञ्जरा
एषा ते पृथिवी राजन् भुङ्क्ष्वैनां विगतज्वरः
वनमेव गमिष्यामि वसानो मृगचर्म वै
न हि मे निर्जनस्यास्ति जीवितेऽद्य स्पृहा विभो
गच्छ त्वं भुङ्क्ष्व राजेन्द्र पृथिवीं निहतद्विषम्
हतयोधां नष्टरत्नां शीर्णक्षत्रां यथासुखम्
युधिष्ठिरः-
आर्तप्रलापं मा तात सलिलस्थः प्रभाषथाः
नैतन्मे रोचते राजन् वाशितं शकुनेरिव
यदि वाऽपि समर्थस्स्यास् त्वं दानाय सुयोधन
नाहमिच्छेयमवनिं त्वया दत्तां प्रशासितुम्
अधर्मेण न गृह्णीयां त्वया दत्तां महीमिमाम्
न हि धर्मो भवेद्राजन् क्षत्रियस्य प्रतिग्रहः
त्वया दत्तां न चेच्छेयं पृथिवीमखिलामहम्
त्वां च युद्धे विनिर्जित्य भोक्तास्मि वसुधामिमाम्
अनीश्वरश्च पृथिवीं कथं त्वं दातुमिच्छसि
त्वयेयं पृथिवी राजन् किं न दत्ता तदैव हि
धर्मतो याचमानानां शमार्थं च कुलस्य नः
वार्ष्णेयः प्रथमं राजन् प्रत्याख्यातो महाबलः
अभियुक्तो हि को राजन् दातुमिच्छति मेदिनीम्
किमिदानीं ददास्यद्य को हि ते चित्तविभ्रमः
न त्वमद्य महीं दातुम् ईशः कौरवनन्दन
आच्छेत्तुं वा बलाद्राजन् स कथं दातुमिच्छसि
मां त्वं निर्जित्य सङ्ग्रामे पालयेमां वसुन्धराम्
सूच्यग्रेणापि यद्भूमेर् अपि दीर्येत भारत
तन्मात्रमपि वै मह्यं न ददाति पुरा भवान्
स कथं पृथिवीमेतां प्रददासि विशां पते
सूच्यग्रं नात्यजः पूर्वं स कथं त्यजसि क्षितिम्
एवमैश्वर्यमासाद्य केवलं पृथिवीपते
को नु मूढो व्यवस्येत शत्रोर्दातुं वसुन्धराम्
त्वं तु केवलमौर्ख्येण विमूढो नावबुध्यसे
पृथिवीं दातुकामोऽपि जीवंस्त्वं न विमोक्ष्यसे
अस्मान् वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम्
अथवा निहतोऽस्माभिर् व्रज लोकाननुत्तमान्
आवयोर्जीवतो राजन् मयि च त्वयि च ध्रुवम्
संशयस्सर्वभूतानां विजये नौ भविष्यति
जीवितं तव दुष्प्रापं मयि सम्प्रति वर्तते
जीवयेयमहं पाप न त्वं जीवितुमर्हसि
दहने हि कृतो यत्नस् त्वयाऽस्मासु विशेषतः
आशीविषविषैश्चापि जले वाऽपि प्रवेशनैः
त्वया विनिकृता राजन् राज्यस्य हरणेन च
एतस्मात् कारणात् पाप जीवितं न विद्यते
उत्तिष्ठोत्तिष्ठ युध्यस्व तत्ते श्रेयो भविष्यति
सञ्जयः-
एवं तु विविधा वाचो जययुक्ताः पुनःपुनः
कीर्तयन्ति स्म ते वीरास् तत्र तत्र नराधिप
धृतराष्ट्रः-
एवं सन्तर्ज्यमानस्तु पुत्रो मम महीपतिः
प्रकृत्या मन्युमान् वीरः कथमासीत् परन्तपः
न हि सन्तर्जना तेन श्रुतपूर्वा कदाचन
राजभावेन मान्यश्च सर्वलोकस्य सोऽभवत्
इदं च पृथिवी सर्वा सम्लेच्छाटविका भृशम्
प्रसादाद्ध्रियते यस्य प्रत्यक्षं तव सञ्जय
स तथा तर्ज्यमानस्तु विषमस्थो विशेषतः
विहीनश्च स्वकैर्भृत्यैर् विजनैश्च वृतो भृशम्
स श्रुत्वा कटुका वाचो जययुक्ताः पुनःपुनः
किमब्रवीत् पाण्डवेयांस् तन्ममाचक्ष्व सञ्जय
सञ्जयः-
तर्ज्यमानस्तदा राज उदकस्थस्तवात्मजः
युधिष्ठिरेण राजेन्द्र भ्रातृभिस्सहितेन हि
श्रुत्वा तु कटुका वाचो विषमस्थो नराधिपः
दीर्घमुष्णं च निश्श्वस्य सलिलस्थोि मुहुर्मुहुः
सलिलान्तर्गतो राजा धुन्वन् हस्तौ पुनःपुनः
मनश्चकार युद्धाय राजानं चाभ्यभाषत
दुर्योधनः-
यूयं ससुहृदः पार्थास् सर्वे सरथवाहनाः
अहमेकः परिद्यूनो विरथो हतवाहनः
आत्तशस्त्रै रथोपेतैर् बहुभिः परिवारितः
कथमेकः पदातिस्सन्नशस्त्रो योद्धुमुत्सहे
एकैकशश्च मां यूयं योधयध्वं युधिष्ठिर
न ह्येको बहुभिर्योधैर् न्याय्यं योधयितुं रिपुः
हीनशस्त्रो विकवचश् श्रान्तश्चापस्समाश्रितः
भृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः
न मे त्वत्तो भयं राजन् न च पार्थाद्वृकोदरात्
फल्गुनाद्वासुदेवाद्वा पाञ्चालेभ्योऽथवा पुनः
यमाभ्यां युयुधानाद्वा ये चान्ये तव सैनिकाः
एकस्सर्वानहं क्रुद्धान् एतान् योद्धुमिहोत्सहे
धर्ममूला सतां कीर्तिर् मनुष्याणां जनाधिप
धर्मं चैवेह कीर्तिं च पालयन् प्रब्रवीमि ते
अहमुत्थाय वस्सर्वान् प्रतियोत्स्यामि संयुगे
अन्वभ्याशं गतान् सर्वान् निहनिष्यामि भारत
अद्य वस्सरथान् साश्वान् अशस्त्रो विरथोऽपि सन्
नक्षत्राणीव सर्वाणि सविता रात्रिसङ्क्षये
तेजसा नाशयिष्यामि स्थिरीभवत पाण्डवाः
अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनाम्
बाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः
जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः
मद्रराजस्य शल्यस्य भूरिश्रवस एव च
भ्रातॄणां भरतश्रेष्ठ शकुनेस्सौबलस्य च
मित्राणां सुहृदां चैव बान्धवानां च सर्वशः
अानृण्यमद्य यास्यामि हत्वा त्वां भ्रातृभिस्सह
सञ्जयः-
एवमुक्त्वा तु वचनं विरराम नराधिपः
सलिलान्तर्गतश्श्रीमान् पुत्रो दुर्योधनस्तव
युधिष्ठिरः-
दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुयोधन
दिष्ट्या ते वर्तते बुद्धिर् युद्धायैव महाभुज
दिष्ट्या शूरोऽसि गान्धारे दिष्ट्या जानासि सङ्गरम्
यस्त्वमेकोऽद्य नस्सर्वान् संयुगे योद्धुमिच्छसि
एक एकेन सङ्गम्य यत्ते सम्मतमायुधम्
तत् त्वमादाय युध्यस्व प्रेक्षकास्ते वयं स्थिताः
अहमिष्टं च ते कामं वीर भूयो ददाम्यहम्
हत्वैकं भव नो राजा हतो वा स्वर्गमाप्नुहि
दुर्योधनः-
एकश्चेद्योद्धुमाक्रन्दे वरोऽद्य मम दीयताम्
आयुधानामियं चापि मता मे सततं गदा
भ्रातॄणां भवतामेकश् शक्तो मां यो हि मन्यते
पदातिर्गदया सङ्ख्ये स युध्यतु मया सह
वृत्तानि रथयुद्धानि विचित्राणि पदे पदे
इदं त्वेकं गदायुद्धं भवत्वद्याद्भुतं महत्
अन्नानामपि पर्यायं भोक्तुमिच्छन्ति मानवाः
युद्धानामपि पर्यायो भवत्वनुमते तव
गदया त्वां महाबाहो विजेष्यामि सहानुजम्
पाञ्चालान् सृञ्जयांश्चैव ये चान्ये तव बान्धवाः
युधिष्ठिरः-
उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधन
एक एकेन सङ्गम्य गदया संयुगे बली
पुरुषो भव गान्धारे युध्यस्व सुसमाहितः
अद्य ते जीवितं नास्ति यद्यपि त्वं मनोजवः
सञ्जयः-
एतत् स नरशार्दूलो नामृष्यत तवात्मजः
सलिलान्तर्गतश्श्वभ्रे महानाग इव श्वसन्
ततोऽसौ वाक्प्रतोदेन तुद्यमानः पुनःपुनः
वाचं न ममृषे धिमान् उत्तमाश्वः कशामिव
सङ्क्षोभ्य सलिलं वेगाद् गदामादाय वीर्यवान्
अद्रिसारमयीं गुर्वीं जातरूपपरिष्कृताम्
अन्तर्जलात् समुत्तस्थौ नागेन्द्र इव निश्श्वसन्
स हित्वा स्तम्भितं तोयं स्कन्धे कृत्वाऽऽयसीं गदाम्
उदतिष्ठत पुत्रस्ते प्रतपन् रश्मिमानिव
ततश्शैक्यायसीं गुर्वी जातरूपपरिष्कृताम्
गदां परामृशन् धीमान् धार्तराष्ट्रो महायशाः
गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम्
प्रजानामिव सङ्क्रुद्धं शूलपाणिमवस्थितम्
तमुत्तीर्णं महाबाहुं गदाहस्तमरिन्दमम्
मेनिरे सर्वभूतानि दण्डहस्तमिवान्तकम्
वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम्
ददृशुस्सर्वभूतानि पुत्रं तव जनाधिप
तमुत्तीर्णं तु सम्प्रेक्ष्य समहृष्यन्त सर्वशः
पाञ्चालाः पाण्डवेयाश्च तेऽन्योन्यस्य तलं ददुः
अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तव
उद्धृत्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान्
त्रिशिखां भ्रुकुटीं कृत्वा सन्दष्टदशनच्छदः
प्रत्युवाच ततस्तान् वै पाण्डवान् सहकेशवान्
दुर्योधनः-
अपहासस्य वोऽद्यास्य प्रतिमोक्तास्मि पाण्डवाः
गमिष्यथ हतास्सद्यस् सपाञ्चाला यमक्षयम्
सञ्जयः-
उत्थितस्तु जलात् तस्माद् युद्धुकामस्सुतस्तव
अतिष्ठच्च गदापाणी रुधिरेण समुक्षितः
तस्य शोणितदिग्धस्य रुधिरेण समुक्षितम्
शरीरं तु तदा भाति स्रवन्निव महीधरः
तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाः
वैवस्वतमिव क्रुद्धं शूलपाणिमिवस्थितम्
स मेघनिनदो हर्षाद् विनदन्निव गोवृषः
आजुहाव तदा पार्थान् गदया भीमविक्रमः
दुर्योधनः-
एकैकशश्च मां यूयं योधयध्वं युधिष्ठिर
न ह्येको बहुभिर्न्याय्यं वीर योधयितुं रणे
न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतः
भृशं विक्षतगात्रश्च हतवाहनसैनिकः
युधिष्ठिरः-
मा भूदियं तव प्रज्ञा कथमेकं सुयोधन
यदाऽभिमन्युं बहवो युधि जघ्नुर्महारथाः
गृहाण कवचं वीर मूर्धजान् यमयस्व च
यच्चान्यदपि ते नास्ति तदप्यादत्स्व भारत
इममेकं च ते कामं वीर भूयो ददाम्यहम्
तं हत्वा भव राजा त्वं हतो वा स्वर्गमाप्नुहि
पञ्चानां पाण्डवेयानां येन योद्धुमिहेच्छसि
ऋते च जीवितं वीर युद्धे किं कुर्म ते प्रियम्
सञ्जयः-
ततस्तव सुतो राजन् वर्म जग्राह काञ्चनम्
विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम्
सोऽवबद्धशिरस्त्राणश् शुद्धकाञ्चनवर्मधृक्
रराज राजन् पुत्रस्ते काञ्चनश्शैलराडिव
सन्नद्धस्सगदी राजन् सज्जस्सङ्ग्राममूर्धनि
अब्रवीत् पाण्डवान् राजन् पुत्रो दुर्योधनस्तव
दुर्योधनः-
भ्रातॄणां भवतामेको युध्यतां गदया मया
सहदेवेन वा योत्स्ये भीमेन नकुलेन वा
अथ वा फल्गुनेनाद्य त्वया वा भरतर्षभ
योत्स्येऽहं सङ्गरं प्राप्य विजेष्ये च रणाजिरे
अहमद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम्
गदया पुरुषव्याघ्र हेमपट्टनिबद्धया
गदायुद्धे न मे कश्चित् सदृशोऽस्तीति चिन्तय
गदया पोथयिष्यामि सर्वानेव पृथक् पृथक्
गृह्यातां तु गदा यो वै युध्यतेऽद्य मया सह