सञ्जयः-
मुहूर्तादिव राजेन्द्र सर्वं शून्यमदृश्यत
मत्तवारणसङ्घुष्टं शिबिरं विद्रुते बले
यत्र शब्देन महता अबुध्यन्त महारथाः
तत्र शब्दं न शृणुमो मनुष्यस्यापि कस्य चित्
धृतराष्ट्रः-
हतेषु तेषु सैन्येषु पाण्डुपुत्रै रणाजिरे
मामका ह्यवशिष्टास्ते किमकुर्वत सञ्जय
कृपश्च कृतवर्मा च द्रोणपुत्रश्च वीर्यवान्
दुर्योधनश्च मन्दात्मा राजा किमकरोत् तदा
सञ्जयः-
सम्प्राद्रवत्सु दारेषु क्षत्रियाणां महात्मनाम्
विद्रुते शिबिरे शून्ये भृशोद्विग्नास्त्रयो रथाः
निशम्य पाण्डुपुत्राणां जयिनां सुमहास्वनम्
विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगर्धिनः
स्थानं नारोचयंस्तत्र ततस्तं ह्रदमभ्ययुः
युधिष्ठिरोऽपि कौन्तेयो भ्रातृभिस्सहितो रणे
हृष्टः पर्यपतद्राजन् दुर्योधनवधेप्सया
मार्गमाणास्तु सङ्क्रुद्धास् तव पुत्रं जिघांसवः
यत्नतोऽन्वेषमाणाश्च नैवापश्यन् नराधिपम्
स तु तीव्रेण वेगेन गदापाणिरपाक्रमत्
तं ह्रदं प्राविशच्चापि विष्टभ्यापस्स्वमायया
यदा तु पाण्डवास्सर्वे सुपरिश्रान्तवाहनाः
ततस्ते शिबिरं प्राप्य व्यतिष्ठन् सहसैनिकाः
ततः कृपश्च द्रौणिश्च कृतवर्मा च सात्वतः
सन्निविष्टेषु पार्थेषु प्रययुस्तं ह्रदं शनैः
ते तं ह्रदं समासाद्य यत्र शेते जनाधिपः
अभ्यभाषन्त दुर्धर्षं राजानं सुप्तमम्भसि
कृपादयः-
राजन्नुत्तिष्ठ युध्यस्व सहास्माभिर्युधिष्ठिरम्
जित्वा वा पृथिवीं भुङ्क्ष्व हतो वा स्वर्गमाप्नुहि
तेषामपि बलं सर्वं हतं दुर्योधन त्वया
प्रतिरुद्धाश्च भूयिष्ठं ये शिष्टास्तत्र सैनिकाः
न ते वेगं विषहितुं शक्तास्तव विशां पते
अस्माभिरभिगुप्तस्य तस्मादुत्तिष्ठ भारत
दुर्योधनः-
दिष्ट्या पश्यामि वो मुक्तान् ईदृशाज्जनसङ्क्षयात्
पाण्डुकौरवसम्मर्दे जीवमानान् नरर्षभान्
विजेष्यामो वयं सर्वे विश्रान्ता विगतक्लमाः
भवन्तश्च परिश्रान्ता अहं च भृशविक्षताः
उदीर्णं च बलं तेषां तेन युद्धं न रोचये
भवतामद्भुतं वीरा यद्वो महदिदं मनः
अस्मासु च परा भक्तिर् दर्शिता कार्यगौरवात्
सञ्जयः-
विश्रम्यैकां निशामद्य भवद्भिस्सहितो रणे
प्रतियोद्धास्मि तान् शत्रून् श्वो वा न स्याच्छ्रमो मम
एवमुक्तोऽब्रवीद्द्रौणी राजानं युद्धदुर्मदम्
अश्वत्थामा-
उत्तिष्ठ राजन् भद्रं ते विजेष्यामो रणे परान्
इष्टापूर्तेन सत्येन दानेन च जपेन च
शपे राजन् यथा ह्यद्य निहनिष्यामि सोमकान्
मा स्म यज्ञकृताल्ँलोकान् प्राप्नुयां सज्जनोचितान्
अद्य व्युष्टामिमां रात्रिं न निहन्मीह चेत् परान्
नाहत्वा सर्वपाञ्चालान् विमोक्ष्ये कवचं विभो
इति सत्यं ब्रवीम्येतत् तन्मे शृणु जनाधिप
सञ्जयः-
तेषु सम्भाषमाणेषु व्याधास्तं देशमागसन्
मांसभारपरिश्रान्ताः पानीयार्थं यदृच्छया
ते हि नित्यं महाराज भीमसेनस्य लुब्धकाः
मांसभारानुपाजह्नुर् भक्त्या परमया युताः
ते तत्र विष्ठितास्तेषां सर्वं तद्वचनं रहः
दुर्योधनवचश्चैव शुश्रुवुस्सङ्गता मिथः
ते हि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे
निर्बन्धं परमं चक्रुस् सभृशं युद्धकाङ्क्षिणः
तांस्तथा ते समुद्वीक्ष्य कौरवाणां महारथान्
अयुद्धमनसं चैव पुत्रं तव निशम्य च
तेषां श्रुत्वा च संवादं राज्ञश्च सलिले सतः
व्याधा व्यजानन् राजेन्द्र सलिलस्थं सुतं तव
ते पूर्वं पाण्डुपुत्रेण पृष्टा ह्यासन् सुतं तव
यदृच्छया गतास्तत्र राजानं परिमार्गितुम्
ततस्ते पाण्डुपुत्रस्य स्मृत्वा तद्भाषितं तदा
अन्योन्यमब्रुवन् राजन् मृगव्याधाश्शनैरिदम्
व्याधाः-
दुर्योधनं ख्यापयामो धनं दास्यति पाण्डवः
सुव्यक्तं च हि नः ख्यातो इह दुर्योधनो नृपः
तस्माद्गच्छामहे सर्वे यत्र राजा युधिष्ठिरः
आख्यातुं सलिले सुप्तं दुर्योधनममर्षणम्
धृतराष्ट्रात्मजं तस्मै भीमसेनाय धीमते
शयानं सलिले सर्वे कथयामो धनुर्भृते
स नो दास्यति धर्मात्मा धनानि बहुलान्युत
किं नो मांसेन शुष्केण परिक्लिष्टेन शोषिणा
सञ्जयः-
एवमुक्त्वा तु ते व्याधास् सम्प्रहृष्टा धनार्थिनः
मांसभारानुपादाय प्रययुश्शिबिरं प्रति
पाण्डवाश्च महाराज लब्धलक्षाः प्रहारिणः
अपश्यमानास्समरे दुर्योधनमवस्थितम्
निकृतेस्तस्य पापस्य युद्धाभिगमनेप्सया
चारान् सम्प्रेषयामासुस् समन्तात् तद्रणाजिरात्
आगम्य तु ततस्सर्वे नष्टं दुर्योधनं नृपम्
न्यवेदयन्त सहिता धर्मराजस्य सैनिकाः
तेषां तद्वचनं श्रुत्वा चाराणां भरतर्षभ
चिन्तामभ्यगमत् तीव्रं निशश्वास च पार्थिवः
युधिष्ठिरः-
अरिशेषे जीवति तु सन्दिग्धो विजयो भवेत्
राज्यं कथं लभे तद्धि पूजितं विजयादिभिः
सञ्जयः-
अथ स्थितानां पाण्डूनां दीनानां भरतर्षभ
तस्माद्देशादपक्रम्य त्वरिता लुब्धका विभो
आजग्मुश्शिबिरं हृष्टा दृष्ट्वा दुर्योधनं नृपम्
वार्यमाणाः प्रविष्टाश्च भीमसेनं दिदृक्षवः
ते तु पाण्डवमासाद्य भीमसेनं महाबलम्
तस्मै तत् सर्वमाचख्युर् यद्वृत्तं यच्च वै श्रुतम्
ततो वृकोदरो राजन् दत्त्वा तेषां धनं बहु
धर्मराजाय तत् सर्वम् आचचक्षे परन्तपः
भीमः-
असौ दुर्योधनो राजन् विज्ञातो मम लुब्धकैः
संस्तभ्य सलिलं शेते यस्यार्थे परितप्यसे
सञ्जयः-
तद्वचो भीमसेनस्य प्रियं श्रुत्वा विशां पते
अजातशत्रुः कौन्तेयो हृष्टोऽभूत् सह सोदरैः
तं च श्रुत्वा महेष्वासाः प्रविष्टं सलिलह्रदे
क्षिप्रमेव ततोऽगच्छन् पुरस्कृत्य जनार्दनम्
ततः किलकिलाशब्दः प्रादुरासीद्विशां पते
पाण्डवानां प्रहृष्टानां पाञ्चालानां च सर्वशः
सिंहनादांस्ततश्चक्रुः क्ष्वेलांश्च भरतर्षभ
त्वरिताः क्षत्रिया राजञ् जग्मुर्द्वैपायनह्रदम्
ज्ञातः पापो धार्तराष्ट्रो दृष्टवीर्योऽसकृद्रणे
प्राक्रोशन् सैनिकास्तत्र हृष्टरूपास्समन्ततः
तेषामाशु प्रयातानां रथानारुह्य वेगिनाम्
बभूव तुमुलश्शब्दो दिवस्पृक् पृथिवीपते
दुर्योधनं परीप्सन्तस् तत्र तत्र युधिष्ठिरम्
अन्वयुस्त्वरितास्ते वै राजानं श्रान्तवाहनाः
अर्जुनो भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ
धृष्टद्युम्नश्च पाञ्चाल्यश् शिखण्डी चापराजितः
उत्तमौजा युधामन्युस् सात्यकिश्च महारथः
पाञ्चालानां च ये शिष्टा द्रौपदेयाश्च भारत
हयाश्च सर्वे नागाश्च शतशश्च पदातयः
ततः प्राप्तो महाराज धर्मपुत्रः प्रतापवान्
द्वैपायनह्रदं ख्यातं यत्र दुर्योधनोऽभवत्
शीतामलजलं हृद्यं द्वितीयमिव सागरम्
मायया सलिलं स्तभ्य यत्रा शेते सुतस्तव
अत्यद्भुतेन विधिना दैवयोगेन भारत
सलिलान्तर्गतश्शेते दुर्दर्शः कस्यचिद्विभो
मानुषस्य मनुष्येन्द्रो गदाहस्तो नराधिपः
ततो दुर्योधनो राजा सलिलान्तर्गतोऽपि सन्
शुश्रुवे तुमुलं शब्दं जलदोपमनिस्स्वनम्
युधिष्ठिरोऽपि राजेन्द्र ह्रदं तैस्सह सोदरैः
आजगाम महाराज तव पुत्रवधाय वै
महता सिंहनादेन रथनेमिस्वनेन च
धून्वंश्चापि महारेणुं कम्पयंश्चापि मेदिनीम्
यौधिष्ठिरस्य सैन्यस्य श्रुत्वा शब्दं महारथाः
कृतवर्मा कृपो द्रौणी राजानमिदमब्रुवन्
कृपादयः-
इमे ह्यायान्ति संहृष्टाः पाण्डवा जितकाशिनः
अपयास्यामहे तावद् अनुजानातु नो भवान्
सञ्जयः-
दुर्योधनस्तु तच्छ्रुत्वा तेषां चैव यशस्विनाम्
तथेत्युक्त्वा ह्रदं तं वै माययाऽस्तम्भयत् प्रभो
ते त्वनुज्ञाप्य राजानं भृशं शोकपरायणाः
जग्मुर्दूरं महाराज कृपप्रभृतयो रथाः
ते गत्वा दूरमध्वानं न्यग्रोधं प्रेक्ष्य मारिष
न्यविशन्त भृशं श्रान्ताश् चिन्तयन्तो नृपं प्रति
विष्टभ्य सलिलं सुप्तो धार्तराष्ट्रो महाबलः
पाण्डवाश्चापि सम्प्राप्तास् तं देशं युद्धमीप्सवः
कृपादयः-
कथं नु युद्धं भविता कथं नु स्यात् स पार्थिवः
कथं नु पाण्डवाश्चात्र प्रतिपत्स्यन्ति कौरवम्
सञ्जयः-
इत्येवं चिन्तयन्तस्ते रथेभ्योऽश्वान् विमुच्य च
तत्रासाञ्चक्रिरे राजन् कृपप्रभृतयस्तदा