सञ्जयः-
ततः क्रुद्धा महाराज सौबलस्य पदानुगाः
त्यक्त्वा जीवितमाक्रन्दे पाण्डवान् पर्यवारयन्
तानर्जुनः प्रत्यगृह्णात् सहदेवजये धृतः
भीमसेनश्च तेजस्वी क्रुद्धाशीविषदर्शनः
शक्त्यृष्टिप्रासहस्तानां सहदेवं जिघांसताम्
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः
प्रगृहीतायुधान् बाहून् योधानामभिधावताम्
भल्लैश्चिच्छेद बीभत्सुश् शिरांस्यपि भुजानपि
ते हयाः प्रत्यपद्यन्त वसुधां विगतासवः
त्वरता लोकवीरेण निहतास्सव्यसाचिना
ततो दुर्योधनो राजा दृष्ट्वा स्वबलसङ्क्षयम्
हतशेषान् समानीय रथान् नवशतान् विभो
कुञ्जरांश्च हयांश्चैव पादातांश्च परन्तपः
उवाच दुःखितान् सर्वान् धार्तराष्ट्रो महीपतिः
दुर्योधनः-
समासाद्य रणे सर्वान् पाण्डवान् ससुहृद्गणान्
पाञ्चाल्यं चापि सबलं हत्वा शीघ्रं निवर्तत
सञ्जयः-
तस्यैते शिरसा गृह्य शासनं युद्धदुर्मदाः
प्रत्युद्ययू रणे पार्थांस् तव पुत्रस्य शासनात्
तानभ्यापततश्शीघ्रं हतशेषान् महारणे
शरैराशीविषाकारैः पाण्डवास्समवाकिरन्
तत् सैन्यं समरे तस्मिन् मुहूर्तेन महात्मभिः
अविध्यत रणं प्राप्य त्रातारं नाभ्यविन्दत
पलायमानं तु भयान्नावतिष्ठति दंशितम्
अश्वैर्विपरिधावद्भिस् सैन्येन रजसा वृते
न प्राज्ञायन्त समरे दिशश्च प्रदिशस्तथा
ततस्तु पाण्डवानीकान्निस्सृत्य बहवो जनाः
ततो निश्शेषमभवत् तव सैन्यं विशां पते
अभ्यघ्नंस्तावकान् युद्धे मुहूर्तादिव भारत
अक्षौहिण्यस्समेतास्तु तव पुत्रस्य भारत
एकादश हता युद्धे ताः प्रभो पाण्डुसृञ्जयैः
तेषु राजसहस्रेषु तावकेषु महात्मसु
एको दुर्योधनो राजन्नदृश्यत भृशं क्षतः
ततो वीक्ष्य दिशस्सर्वा दृष्ट्वा शून्यां च मेदिनीम्
विहीनस्सर्वयोधैश्च पाण्डवान् वीक्ष्यं संयुगे
मुदितान् सर्वसिद्धार्थान् नर्दमानान् समन्ततः
बाणशब्दरवांश्चैव श्रुत्वा तेषां महात्मनाम्
दुर्योधनो महाराज कश्मलेनाभिसंवृतः
अपयाने मनश्चक्रे विहीनबलवाहनः
धृतराष्ट्रः-
निहते मामके सैन्ये निश्शेषे शिबिरे कृते
पाण्डवानां बले सूत किं शेषमभवत् तदा
एतन्मे पृच्छतो ब्रूहि कुशलो ह्यसि सञ्जय
यश्च दुर्योधनो मन्दः कृतवांस्तनयो मम
बलक्षयं तदा दृष्ट्वाऽकुशलः पृथिवीपतिः
सञ्जयः-
द्वे सहस्रे रथानां तु सप्त नागशतानि च
पञ्च चाश्वसहस्राणि पत्तीनामयुतं तथा
एतच्छेषमभूद्राजन् पाण्डवानां बलं तदा
परिगृह्य हि यद्युद्धे धृष्टद्युम्नो व्यवस्थितः
एकाकी भरतश्रेष्ठ ततो दुर्योधनो नृपः
नापश्यत् समरे कञ्चित् सहायं रथिनां वरः
नर्दमानान् परान् दृष्ट्वा स्वबलस्य च सङ्क्षयम्
दृष्ट्वा भरतशार्दूल कश्मलेनाभिसंवृतः
हतं स्वहयमुत्सृज्य प्रोप्लुत्य प्राद्रवद्भयात्
एकादश चमूभर्ता पुत्रो दुर्योधनस्तव
गदामादाय तेजस्वी पदातिः प्रस्थितो ह्रदम्
नातिदूरं ततो गत्वा पद्भ्यामेव नराधिपः
सस्मार वचनं क्षत्तुर् धर्मशीलस्य धीमतः
दुर्योधनः-
इदं नूनं महाप्राज्ञो विदुरो दृष्ट्वान् पुरा
महद्व्सनमस्माकं क्षत्रियाणां च सर्वशः
सञ्जयः-
एवं विचिन्तयानस्तु प्रविवेश ह्रदं नृपः
दुःखसन्तप्तहृदयो दृष्ट्वा राजन् बलक्षयम्
दशैकाक्षौहिणीभर्ता स्वयं दुर्योधनोऽपि सन्
प्राप्तवान् व्यसनं तीव्रं दैवं हि बलवत्तरम्
पाण्डवास्तु महाराज धृष्टद्युम्नपुरोगमाः
अभ्यधावन्त सङ्क्रुद्धास् तव राजन् बलं प्रति
शक्त्यृष्टिप्रासहस्तानां बलानामभिगर्जताम्
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः
तान् हत्वा निशितैर्बाणैस् सामात्यान् सह बन्धुभिः
रथे श्वेतहये तिष्ठन्नर्जुनो बह्वशोभत
सुबलस्य हते पुत्रे सवाजिरथकुञ्जरे
महावनमिव च्छिन्नम् अभवत् तावकं बलम्
अनेकशतसाहस्रे बले दुर्योधनार्जिते
नान्यो महारथो राजन् जीवमानोऽव्यदृश्यत
द्रोणपुत्रादृते वीरात् तथैव कृतवर्मणः
कृपाच्च गौतमाद्राजन् पार्थिवाच्च तवात्मजात्
धृष्टद्युम्नस्तु मां दृष्ट्वा हसन् सात्यकिमब्रवीत्
धृष्टद्युम्नः-
किमनेन गृहीतेन नानेनार्थोऽस्ति जीवता
सञ्जयः-
धृष्टद्युम्नवचश्श्रुत्वा शिनेर्नप्ता महारथः
उद्यम्य निशितं खड्गं हन्तुं मामुद्यतस्तदा
तदाऽऽगम्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत्
व्यासः-
मुच्यतां सञ्जयो जीवन् न हन्तव्यः कथञ्चन
सञ्जयः-
द्वैपायनवचश्श्रुत्वा शिनेर्नप्ता कृताञ्जलिः
ततो मामब्रवीन्मुक्त्वा स्वस्ति सञ्जय साधय
अनुज्ञातो ह्यहं तेन न्यस्तवर्मा निरायुधः
प्रातिष्ठं येन नगरं सायाह्ने रुधिरोक्षितः
क्रोशमात्रमपक्रान्तं गदापाणिमवस्थितम्
एकं दुर्योधनं राजन्नपश्यं भृशविक्षतम्
स तु मामश्रुपूर्णाक्षो नाशक्नोदभिवीक्षितुम्
उपप्रैक्षत मां दृष्ट्वा तदा दीनमुपस्थितम्
तं चाहमनुशोचानो दृष्ट्वैकाकिनमाहवे
मुहूर्तं नाशकं वक्तुं किञ्चिद्दुःखपरिप्लुतः
यस्य मूर्धावसिक्तानां सहस्रं मणिमौलिनाम्
आहृत्य च करं सर्वं स्वस्य वै वशमागतम्
चतुस्सागरपर्यन्ता पृथिवी रत्नभूषिता
कर्णेनैकेन यस्यार्थे करमाहारिता पुरा
यस्याज्ञा परराष्ट्रेषु कर्णेनैव प्रसारिता
नाभवद्यस्य शस्त्रेषु खेदो राज्ञः प्रशासतः
आसीनो हास्तिनपुरे क्षेमं राज्यमकण्टकम्
अन्वपालयदैश्वर्यात् कुबेरमपि नास्मरत्
भवनाद्भवनं राजन् प्रयातुं पृथिवीपते
देवालयप्रदेशे च पन्था यस्य हिरण्मयः
पताकावृतसूर्यांशुस् तोरणोच्छ्रितशोभनः
प्रयाणे पृथिवीभर्तुर् धन्यानामभवन् गृहाः
आरुह्यैरावतप्रख्यं नागमिन्द्रसमो बली
विभूत्या सुमहत्या यः प्रयाति पृथिवीपते
तं भृशक्षतमिन्द्राभं पद्भ्यामेव धरातले
तिष्ठन्तमेकं दृष्ट्वा तु ममाभूत् क्लेश उत्तमः
तस्य चैवंविधस्यास्य जगन्नाथस्य भूपतेः
विपदप्रतिमाऽभूद्या बलीयान् विधिरेव हि
ततोऽस्य तदहं सर्वम् उक्तवान् नृपतेस्तदा
द्वैपायनप्रसादाच्च जीवतो मोक्षमाहवे
स मुहूर्तमिव ध्यात्वा प्रतिलभ्य च चेतनाम्
भ्रातॄंश्च सर्वसैन्यांश्च पर्यपृच्छत मां ततः
तस्मै तदहमाचक्षे सर्वं प्रत्यक्षदर्शिवान्
भ्रातॄणां निधनं सर्वं सैन्यानां च निपातनम्
त्रयः किल रथाश्शिष्टास् तावकानां नराधिप
इति प्रस्थानकाले मां कृष्णद्वैपायनोऽब्रवीत्
स दीर्घमिव निश्श्वस्य सम्प्रेक्ष्य च पुनः पुनः
अंसे मां पाणिना गृह्य पुत्रस्ते पर्यभाषत
दुर्योधनः-
त्वदन्यो नेह सङ्ग्रामे कश्चिज्जीवति सञ्जय
द्वितीयं नैव पश्यामि ससहायाश्च पाण्डवाः
ब्रूयास्सञ्जय राजानं प्रज्ञाचक्षुषमीश्वरम्
दुर्योधनस्तव सुतः प्रविष्टो ह्रदमित्युत
सुहृद्भिस्तादृशैर्हीनः पुत्रैर्भ्रातृभिरेव च
पाण्डवैश्च हृते राज्ये को नु जीवेत मादृशः
आचक्षीथास्सर्वमिदं मां च मुक्तं महाभयात्
अस्मिंस्तोयह्रदे सुप्तं जीवन्तं भृशविक्षतम्
सञ्जयः-
एवमुक्त्वा महाराज प्राविशत् तं ह्रदं नृप
अस्तम्भयत तोयं च मायया मनुजाधिपः
तस्मिन् ह्रदं प्रविष्टे तु त्रीन् रथाञ् श्रान्तवाहनान्
अपश्यं सहितानेकस् तं देशं समुपेयुषः
कृपं शारद्वतं वीरं द्रौणिं च रथिनां वरम्
भोजं च कृतवर्माणं सहिताञ् शरविक्षतान्
ते सर्वे समभिप्रेक्ष्य तूर्णमश्वानचोदयन्
उपेत्य चैव मामूचुर् दिष्ट्या जीवसि सञ्जय
अपृच्छंश्चैव मां सर्वे पुत्रं तव जनाधिपम्
कच्चिद्दुर्योधनो राजा स नो जीवति सञ्जय
आख्यातवानहं तेभ्यस् तदा कुशलिनं नृपम्
तच्चैव सर्वमाचक्षे यन्मां दुर्योधनोऽब्रवीत्
ह्रदं चैवाचचक्षेऽहं यं प्रविष्टो जनाधिपः
अश्वत्थामा तु तद्राजन् निशम्य वचनं मम
ह्रदप्रवेशं श्रुत्वा च करुणं पर्यदेवयत्
अहो धिक् स न जानाति जीवतोऽस्मान् नराधिप
पर्याप्ता हि वयं तेन सह योधयितुं परान्
ते तु तत्र चिरं कालं विलप्य च महारथाः
प्राद्रवन् रथिनां श्रेष्ठा दृष्ट्वा पाण्डुसुतान् रणे
ते तु मां रथमारोप्य कृपस्य तु परिक्षतम्
सेनानिवेशमाजग्मुर् हतशेषास्त्रयो रथाः
तत्र गुल्माः परिक्षिप्तास् सूर्ये चास्तमिते सति
सर्वे विचुक्रुशुश्श्रुत्वा पुत्राणां तव सङ्क्षयम्
ततो वृद्धा महाराज योषितां रक्षिणे रताः
राजदारानुपादाय प्रययुर्नगरं प्रति
तत्र विक्रोशतीनां च रुदन्तीनां च निस्स्वनः
प्रादुरासीन्महाघोरश् श्रुत्वा तं बलसङ्क्षयम्
ततस्तु योषितो राजन् क्रन्दन्त्यो वै मुहुर्मुहुः
कुरर्य इव शब्देन नादयन्त्यो महीतलम्
आजघ्नुः करजैश्चापि पाणिभिश्च शिरांस्युत
लुलुचुश्च तदा केशान् क्रोशन्त्यस्तत्र तत्र ह
हाहाकारं विकुर्वाणा विनिघ्नन्त्य उरांसि च
क्रोशन्त्यस्तत्र रुरुदुः क्रन्दमाना विशां पते
ततो दुर्योधनामात्यास् सास्रकण्ठा भृशातुराः
राजदारानुपादाय प्रययुर्नगरं प्रति
वेत्रझर्झरहस्ताश्च द्वाराध्यक्षा विशां पते
शयनीयानि शुभ्राणि मृद्वास्तरणवन्ति च
समादाय ययुस्तूर्णं नगरं जनरक्षिणः
आस्थायाश्वतरीयुक्तान् स्यन्दनानपरे पुनः
स्वान् स्वान् दारानुपादाय प्रययुर्नगरं प्रति
अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु
ददृशुस्ता महाराज जना यान्तीः पुरं प्रति
तास्स्त्रियो भरतश्रेष्ठ सौकुमार्यसमन्विताः
प्रययुर्नगरं तूर्णं हतस्वजनबान्धवाः
आगोपालाविपालेभ्यो द्रवन्तो नगरं प्रति
ययुर्मनुष्यास्सम्भ्रान्ता भीमसेनभयार्दिताः
अपि चैषां भयं तीव्रं पार्थेभ्योऽभूत् सुदारुणम्
प्रेक्षमाणास्तदाऽन्योन्यम् आधावन् नगरं प्रति
तस्मिंस्तथा वर्तमाने विप्लवे भृशदारुणे
युयुत्सुश्शोकसम्मूढः प्राप्तकालमचिन्तयत्
युयुत्सुः-
जितो दुर्योधनस्सङ्ख्ये पाण्डवैर्भीमविक्रमैः
एकादशचमूभर्ता भ्रातरश्चास्य सूदिताः
हताश्च कुरवस्सर्वे भीष्मद्रोणपुरस्सराः
अहमेको विमुक्तश्च भाग्ययोगाद्यदृच्छया
विद्रुतानि च सैन्यानि शिबिराद्वै समन्ततः
दुर्योधनस्य सचिवा ये केचिदवशेषिताः
राजदारानुपादाय व्यधावन् नगरं प्रति
प्राप्तकालमहं मन्ये प्रवेशं तैस्सहभि भो
युधिष्ठिरमनुज्ञाय वासूदेवं तथैव च
सञ्जयः-
एवमेतन्महाबाहुर् उभयोस्सन्न्यवेदयत्
तस्य प्रीतोऽभवद्राजा नित्यं करुणवेदिनः
परिष्वज्य महाबाहुर् वैश्यापुत्रं व्यसर्जयत्
ततस्स रथमास्थाय द्रुतमश्वानचोदयत्
सम्भावयित्वा तांश्चापि राजदारान् पुरं प्रति
तैश्चैव सहितः क्षिप्रम् अस्तं गच्छति भास्करे
प्रविष्टो हास्तिनपुरं बाष्पकण्ठोऽश्रुलोचनः
अपश्यच्च महाप्राज्ञं विदुरं साश्रुलोचनम्
राज्ञस्समीपान्निष्क्रान्तं शोकोपहतचेतसम्
तमब्रवीत् सत्यधृतिः प्रणयादग्रतस्स्थितम्
विदुरः-
अस्मिन् कुरुक्षये वृत्ते दिष्ट्या त्वं पुत्र जीवसि
विना राज्ञः प्रवेशाद्वै किमसि त्वमिहागतः
एतद्वै कारणं सर्वं विस्तरेण निवेदय
युयुत्सुः-
निहते शकुनौ तात सज्ञातिसुतबान्धवे
हतशेषपरीवारो राजा दुर्योधनस्ततः
स्वकं हयं समुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात्
अपक्रान्ते तु नृपतौ स्कन्धावारनिवेशनात्
भयव्याकुलितं सैन्यं प्राद्रवन्नगरं प्रति
ततो राज्ञः कलत्राणि भ्रातॄणां चापि सर्वशः
वाहनेषु समारोप्य स्त्र्यध्यक्षाः प्राद्रावन् भयात्
ततोऽहं समनुज्ञाप्य राजानं सहकेशवम्
प्रविष्टो हास्तिनपुरं रक्षन् लोकस्य वाच्यताम्
सञ्जयः-
एतच्छ्रुत्वा तु वचनं वैश्यापुत्रेण भाषितम्
प्राप्तकालमिति ज्ञात्वा विदुरस्सर्वधर्मवित्
अपूजयदमेयात्मा युयुत्सुं वाक्यकोविदम्
विदुरः-
प्राप्तकालमिदं सर्वं भवता भरतक्षये
अद्याहमपि विश्रान्तश् श्वो गन्तास्मि युधिष्ठिरम्
एतावदुक्त्वा वचनं विदुरस्सर्वधर्मवित्
युयुत्सुं समनुज्ञाप्य विवेश नृपतेः क्षयम्
पौरजानपदैर्दुःखाद्धाहेति भृशनादितम्
निरानन्दं गतश्रीकं हृतानागमिवाशयम्
शून्यरूपमवध्वस्तं दृष्ट्वा ध्वस्तरतोऽभवत्
विदुरस्सर्वधर्मज्ञो व्याकुलेनान्तरात्मना
विवेश नृपतेर्वेश्म निशश्वास शनैश्शनैः
युयुत्सुरपि तां रात्रिं स्वगृहे न्यवसत् तदा
वत्स्यमानस्स्वकैश्चापि नाभ्यनन्दत् सुदुःखितः
चिन्तयानो महाराज हतानां च परस्परम्