सञ्जयः-
तस्मिन् प्रवृत्ते सङ्ग्रामे गजवाजिनरक्षये
शकुनिस्सौबलो राजन् सहदेवं समभ्ययात्
ततोऽस्यापततस्तूर्णं सहदेवः प्रतापवान्
शरौघान् प्रेषयामास पतङ्गानिव घोषिणः
उलूकं च रणे राजन् विव्याध निशितैश्शरैः
शकुनिस्तु महाराज भीमं विद्ध्वा त्रिभिश्शरैः
सायकानां नवत्या वै सहदेवं समाकिरत्
ते शूरास्समरे राजन् समासाद्य परस्परम्
विव्यधुर्निशितैर्बाणैः कङ्कबर्हिणवाजितैः
स्वर्णपुङ्खैश्शिलधौतैर् आकर्णात् प्रहितैश्शरैः
तेषां चापभुजोत्सृष्टा शरवृष्टिर्विशां पते
प्राच्छादयद्दिशस्सर्वा धाराभिरिव तोयदः
ततः क्रुद्धो रणे भीमस् सहदेवश्च भारत
चेरतुः कदनं सङ्ख्ये प्रकुर्वन्तौ महाबलौ
ताभ्यां शरशतैश्छन्नं तद्बलं भरतर्षभ
अन्धकारमिवाकाशम् अभवत् तत्र तत्र ह
अश्वैर्विपरिधावद्भिश् शरश्छिन्नैर्विशां पते
तत्र तत्र कृतो मार्गो विकर्षद्भिर्हतान् बहून्
निहतानां हयानां च सहैव हययोधिभिः
वर्मभिर्विनिकृत्तैश्च प्रासैश्छिन्नैश्च मारिष
यष्टिभिश्शक्तिभिश्चैव तोमरैश्च परन्तप
सञ्छन्ना वसुधा तैस्तु कुसुमैश्शबला इव
योधास्तत्र महाराज समासाद्य परस्परम्
व्यचरन्त रणे क्रुद्धा विनिघ्नन्तश्शरैश्शितैः
उद्वृत्तनयनै रोषात् सन्दष्टोष्ठपुटैर्मुखैः
सकुण्डलैर्मही च्छन्ना पद्मकिञ्चल्कसन्निभैः
भुजैश्छिन्नैर्महाराज नागराजकरोपमैः
स गदैस्सतलत्रैश्च सासिप्रासपरश्वथैः
कबन्धैरुत्थितैश्चैव नृत्यद्भिश्चापरैर्युधि
क्रव्यादगणसम्पूर्णा घोराऽभूत् पृथिवी विभो
अल्पावशिष्टे सैन्ये तु कौरवेयान् महाहवे
प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम्
एतस्मिन्नन्तरे शूरस् सौबलेयः प्रतापवान्
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम्
स विह्वलो महाराज रथोपस्थ उपाविशत्
सहदेवं तथा दृष्ट्वा भीमसेनः प्रतापवान्
सर्वसैन्यानि सङ्क्रुद्धो वारयामास भारत
निर्बिभेद च नाराचैश् शतशोऽथ सहस्रशः
स निर्भिद्य रणे चक्रे सिंहनादमथानदत्
तेन शब्देन वित्रस्तास् सर्वे सहयवारणाः
प्राद्रवन् सहसा भीताश् शकुनेश्च पदानुगाः
प्रभग्नानथ तान् दृष्ट्वा राजा दुर्योधनोऽब्रवीत्
दुर्योधनः-
निवर्तध्वमधर्मज्ञा युध्यध्वं किं द्रुतेन वः
इह कीर्तिं समाधाय प्रेत्य लोकान् समश्नुते
प्राणाञ्जहाति यो वीरो युधि पृष्ठमदर्शयन्
सञ्जयः-
एवमुक्तास्ततो राज्ञा सौबलस्य पदानुगाः
पाण्डवानभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम्
द्रवद्भिस्तत्र ततो राजेन् कृतश्शब्दोऽतिदारुणः
क्षुब्धसागरसङ्काशः क्षुभितैस्सर्वतो दिशम्
तांस्ततऽऽपततो दृष्ट्वा सौबलस्य पदानुगान्
प्रत्युद्ययुर्महाराज पाण्डवा विजये धृताः
प्रत्याश्वस्य च दुर्धर्षस् सहदेवो विशां पते
शकुनिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिश्शरैः
धनुश्चिच्छेद च शरैस् सौबलस्य हसन्निव
अथान्यद्धनुरादाय शकुनिर्युद्धदुर्मदः
विव्याध नकुलं षष्ट्या भीमसेनं च सप्तभिः
उलूकस्तु महाराज भीमं विव्याध सप्तभिः
सहदेवं च सप्तत्या परीप्सन् पितरं रणे
तं भीमसेनस्समरे विव्याध निशितैश्शरैः
शकुनिं च चतुष्षष्ट्या पार्श्वपांश्च त्रिभिस्त्रिभिः
ते हन्यमाना भीमेन नाराचैस्तैलपायितैः
सहदेवं रणे क्रुद्धाश् छादयञ् शरवृष्टिभिः
पर्वतं वारिधाराभिस् सविद्युत इवाम्बुदाः
ततो ह्यापततस्तूर्णं सहदेवः प्रतापवान्
उलूकस्य महाराज भल्लेनापाहरच्छिरः
स जगाम रथाद्भूमिं सहदेवेन पातितः
रुधिराप्लुतसर्वाङ्गो नन्दयन् पाण्डवान् रणे
पुत्रं तु निहतं दृष्ट्वा शकुनिस्तत्र भारत
सास्रकण्ठो विनिश्श्वस्य क्षत्तुर्वाक्यमनुस्मरन्
चिन्तयित्वा मुहूर्तं तु बाष्पपूर्णेक्षणश्श्वसन्
सहदेवं समासाद्य विव्याध त्रिभिराशुगैः
तानपास्य शरान् मुक्ताञ् शरसङ्घैः प्रतापवान्
सहदेवो महाराज धनुश्चिच्छेद संयुगे
छिन्ने धनुषि राजेन्द्र शकुनिस्सौबलस्तदा
तमापतन्तं सहसा घोररूपं विशां पते
प्रगृह्य विपुलं खड्गं सहदेवाय प्राहिणोत्
द्विधा चिच्छेद राजेन्द्र सौबलस्य हसन्निव
असिं दृष्ट्वा द्विधा च्छिन्नं प्रगृह्य महतीं गदाम्
प्राहिणोत् सहदेवाय सा मोघा न्यपतद्भुवि
ततश्शक्तिं महाघोरां कालरात्रीमिवोद्यताम्
प्रेषयामास सक्रुद्धः पाण्डवं प्रति सौबलः
तामापतन्तीं सहसा शरैः काञ्चनभूषणैः
त्रिधा चिच्छेद समरे सहदेवो हसन्निव
सा पपात त्रिधा छिन्ना भूमौ कनकभूषणा
शीर्यमाणा यथा दीप्ता गगनाद्वै शतह्रदा
शक्तिं विनिहतां दृष्ट्वा सौबलं च भयार्दितम्
दुद्रुवुस्तावकास्सर्वे भये जाते ससौबलाः
अथोत्क्रुष्टं महच्चासीत् पाण्डवैर्जितकाशिभिः
धार्तराष्ट्रास्ततस्सर्वे प्रायशो विमुखा भवन्
तान् वै विमनसो दृष्ट्वा माद्रीपुत्रः प्रतापवान्
शरैरनेकसाहस्रैर् वारयामास संयुगे
ततो गान्धारकैर्गुप्तं पुष्टैरश्वैर्जये धृतम्
आससाद रणे यान्तं सहदेवोऽथ सौबलम्
स्वमंशमवशिष्टं स संस्मृत्य शकुनिं नृप
रथेन काञ्चनाङ्गेन सहदेवस्समभ्ययात्
अधिज्यं बलवत् कृत्वा व्याक्षिपन् सशरं धनुः
स सौबलमभिद्रुत्य गार्ध्रपत्रैश्शिलाशितैः
भृशमभ्यहनत् कुद्धस् तोत्रैरिव महाद्विपम्
उवाच चैनं मेधावी निगृह्य स्मारयन्निव
सहदेवः-
क्षत्रधर्मे स्थिरो भूत्वा युध्यस्व पुरुषो भव
यत् तदा भाषसे मूढ गृह्णन्नक्षान् सभातले
फलमद्य प्रपद्यस्व कर्मणस्तस्य दुर्मते
निहतास्ते दुरात्मानो येऽस्मानवहसन् पुरा
दुर्योधनः कुलाङ्गारश् शिष्टस्त्वं तस्य मातुलः
अद्य ते निहनिष्यामि शरेण ग्रथितं शिरः
वृक्षात् फलमिवोद्धृत्य लगुडेन प्रमाथिना
सञ्जयः-
एवमुक्त्वा महाराज सहदेवो महाबलः
सङ्क्रुद्धो रणशार्दूलो वेगेनाभिजगाम ह
अभिगम्य तु दुर्धर्षस् सहदेवो विशां पते
विकृष्य बलवच्चापं क्रोधेन प्रदहन्निव
शकुनिं दशभिर्विद्ध्वा चतुर्भिश्चास्य वाजिनः
छत्रं ध्वजं धनुश्चास्य छित्वा सिंह इवानदत्
छिन्नध्वजधनुश्छत्रस् सहदेवेन सौबलः
कृतो विद्धश्च बहुभिस् सर्वमर्मसु सायकैः
ततो भूयो महाबाहुस् सहदेवः प्रतापवान्
शकुनेः प्रेषयामास शरवृष्टिं दुरासदाम्
ततस्तु विद्धस्सुबलस्य पुत्रो माद्रीसुतं सहदेवं विमर्दे
प्रासेन जाम्बूनदभूषणेन जिघांसुरेकोऽभिपपात शीघ्रम्
माद्रीसुतस्तस्य समुद्यतं तं प्रासं सुवृत्तौ च भुजौ रणाग्रे
भल्लैस्त्रिभिर्युगपत् सञ्चकर्त ननाद चोच्चैस्तरसाऽऽजिमध्ये
तस्याशुकारी सुसमाहितेन सुवर्णपुङ्खेन दृढायसेन
भल्लेन सर्वावरणातिगेन शिरश्शरीरात् प्रममाथ भूयः
शरेण कार्तस्वरभूषितेन दिवाकराभेण सुसंहितेन
हृतोत्तमाङ्गो युधि पाण्डवेन पपात भूमौ सुबलस्य पुत्रः
मर्मच्छिदा वेगवता शरेण तस्योत्तमाङ्गं च भुजौ सुवृत्तौ
शक्तिश्च भूमौ निपपात पौर्वं पश्चात् कबन्धं रुधिरावसिक्तम्
विस्पन्दमानं निपपात घोरं रथोत्तमात् पार्थिव पार्थिवस्य
निहत्य पापं सुबलस्य पुत्रं जातं कुरुणामनपस्य मूलम्
प्रावेशयत् कुपितः पाण्डुपुत्रस् सुवर्णपुङ्खैरिषुभिःपतन्तम्
तं पाण्डुपुत्रं प्रतिपूजयन्तो हृष्टा व्रुवाणास्सहदेवमाजौ
दिष्ट्या हतो नैकृतिको दुरात्मा सहात्मजो वीर रणे त्वयेति
हृतोत्तमाङ्गं शकुनिं समीक्ष्य भूमौ शयानं रुधिरार्द्रगात्रम्
योधास्त्वदीया भयनष्टसत्त्वा दिशः प्रजग्मुः प्रगृहीतशस्त्राः
विप्रविद्रुताश्शुष्कमुखा विसञ्ज्ञा गाण्डीवघोषेण समाहताश्च
हतस्ततो भग्नरथाश्वनागाः पदातयश्चैव सधार्तराष्ट्राः
ततो रथाच्छकुनिं पातयित्वा मुदाऽन्विता भारत पाण्डवेयाः
शङ्खान् प्रदध्मुस्समरे प्रहृष्टास् सकेशवास्सैनिकान् हर्षयन्तः