सञ्जयः-
दुर्योधनो महाराज सुदर्शश्चापि ते सुतः
हतशेषौ तदा सङ्ख्ये वाजिमध्ये व्यवस्थितौ
ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम्
उवाच देवकीपुत्रः कुन्तीपुत्रं धनञ्जयम्
श्रीभगवान्-
शत्रवो हतभूयिष्ठाः ज्ञातयः परिपालिताः
गृहीत्वा सञ्जयं चासौ निवृत्तश्शिनिपुङ्गवः
परिश्रान्तश्च नकुलस् सहदेवश्च भारत
योधयित्वा रणे पार्थान् धार्तराष्ट्रपदानुगान्
सुयोधनमभित्यज्य त्रय एते व्यवस्थिताः
कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः
असौ तिष्ठति पाञ्चाल्यश् श्रिया परमया युतः
दुर्योधनबलं हत्वा सहसर्वैः प्रभद्रकैः
असौ दुर्योधनः पार्थ वाजिमध्ये व्यवस्थितः
छत्रेण ध्रियामणेन प्रेक्षमाणो मुहुर्मुहुः
प्रतिव्यूह्य बलं सर्वं सङ्ग्रामे धृतराष्ट्रजः
एनं हत्वा शितैर्बाणैः कृतकृत्यो भविष्यसि
गजानीकं हतं दृष्ट्वा त्वां च प्राप्तमरिन्दम
यावन्नाभ्यतिवर्तेत तावज्जहि सुयोधनम्
यातु कश्चित्तु पाञ्चाल्यं क्षिप्रमागम्यतामिति
परिश्रान्तबलस्तात नैव मुच्येत किल्बिषी
तवा हत्वा बलं सर्वं सङ्ग्रमे धृतराष्ट्रजः
जितान् पाण्डुसुतान् मत्वा रूपं धारयते महत्
सञ्जयः-
निहतं स्वबलं दृष्ट्वा पीडितं चापि पाण्डवैः
ध्रुवमेष्यति सङ्ग्रामे वधायैवात्मनो नृपः
एवमुक्तः फल्गुनस्तु कृष्णं वचनमब्रवीत्
अर्जुनः-
धृतराष्ट्रसुतास्सर्वे हता भीमेन माधव
यावेताववतिष्ठेतां तावद्य न भविष्यतः
हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः
मद्रराजो हतश्शल्यो हतः कृष्णजयद्रथः
हयाः पञ्चशताश्शिष्टाश् शकुनेस्सौबलस्य च
रथानां च शते शिष्टे द्वे एव तु जनार्दन
दन्तिनां च शतं साग्रं त्रिसाहस्रं च पत्तयः
अश्वत्थामा कृपश्चैव त्रिगर्ताधिपतिस्तथा
उलूकश्शकुनिश्चैव कृतवर्मा च सात्वतः
एतद्बलमभूच्छेषं धार्तराष्ट्रस्य माधव
मोक्षो न नूनं कालाद्धि विद्यते भुवि कस्यचित्
तथा विनिहते सैन्ये पश्य दुर्योधनं स्थितम्
अद्याह्ना हि महाराजो हतामित्रो भविष्यति
न हि मे मोक्ष्यते कश्चित् परेषामिति निश्चयः
ये त्वद्य समरं कृष्ण न हास्यन्ति रणोत्कटाः
तान् वै सर्वान् हनिष्यामि यद्यपि स्युरमानुषाः
अद्य युद्धे समुन्नद्धं दीर्घं राज्ञः प्रजागरम्
अपनेष्यामि गान्धारं पातयित्वा शितैश्शरैः
निकृत्या वै दुराचारो यानि रत्नानि सौबलः
सभायामहरद्द्यूते पुनस्तान्याहराम्यहम्
अद्य वेत्स्यन्ति मच्छक्तिं सर्वा नागपुरस्त्रियः
श्रुत्वा पतींश्च पुत्रांश्च पाण्डवैर्निहतान् युधि
समाप्तमद्य वै कृष्णस् सर्वं कर्म भविष्यति
अद्य दुर्योधनो दीप्तां श्रियं प्राणानपि त्यजेत्
नापयाति भयात् कृष्ण सङ्ग्रामाद्यदि चेन्मम
निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम्
मम ह्येतदपर्याप्तं वाजिबृन्दमरिन्दम
सोढुं ज्यातलनिर्घोषान् याहि यावन्निहन्म्यहम्
सञ्जयः-
एवमुक्तस्तु दाशार्हः पाण्डवेन यशस्विना
अचोदयद्धायन् राजन् दुर्योधनबलं प्रति
तदनीकमभिप्रेक्ष्य त्रयस्सज्जा महारथाः
भीमसेनोऽर्जुनश्चैव सहदेवश्च मारिष
प्रययुस्सिंहनादेन दुर्योधनजिघांसया
तान् समीक्ष्य ततस्सर्वाञ् जवेनोद्यतकार्मुकान्
सौबलोऽभ्यद्रवद्युद्धे पाण्डवानाततायिनः
सुदर्शनस्तव सुतो भीमसेनं समभ्ययात्
सुशर्मा शकुनिश्चैव युयुधाते किरीटिना
सहदेवं तव सुतो हयपृष्ठगतोऽभ्ययात्
ततोभ्यापततः क्षिप्रं तव पुत्रो जनाधिप
सहदेवस्य शिरसि प्रासेन प्राहरद्भृशम्
सोपाविशद्रथोपस्थे तव सुत्रेण घातितः
रुधिराप्लुतसर्वाङ्गो निश्श्वसन्नुरगो यथा
प्रतिलभ्य ततस्सञ्ज्ञां सहदेवो विशां पते
दुर्योधनं शरैस्तीक्ष्णैस् सङ्क्रुद्धस्समवाकिरत्
पार्थोऽपि युधि विक्रम्य कुन्तीपुत्रो धनञ्जयः
शूराणामश्वपृष्ठेभ्यश् शिरांसि निचकर्त ह
तदनीकं तदा पार्थो व्यधमद्बहुभिश्शरैः
पातयित्वा हयान् सर्वांस् त्रिगर्तानां रथान् ययौ
ततस्ते सहितास्सर्वे त्रिगर्तानां महारथाः
अर्जुनं वासुदेवं च शरवर्षैरवाकिरन्
सत्यकर्माणमाक्षिप्य क्षुरप्रेण महायशाः
ततोऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः
शिलाशितेन च विभो क्षुरप्रेण महारथः
स सत्येषुमथादत्त योधानां मिषतां ततः
शिरश्चिच्छेद सहसा तप्तकुण्डलभूषितम्
यथा सिंहो वने राजन् मृगान् प्रति बुभुक्षितः
तं निहत्य ततः पार्थस् सुशर्माणं त्रिभिश्शरैः
विद्ध्वा च न्यहनत् सर्वान् रथान् रुक्मविभूषितान्
ततस्तु प्रवरः पार्थो दीर्घकालस्सुसम्भृतम्
मुञ्चन् क्रोधविषं तीव्रं त्रिगर्ताधिपतिं प्रति
तमर्जुनः पृषत्कानां शतेन नतपर्वणाम्
पूरयित्वा ततो वाहान् न्यहनत् तत्र धन्विनः
ततश्शरं समादाय यमदण्डोपमं महत्
सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्निव
स शरः प्रेषितस्तेन क्रोधदीप्तेन धन्विना
सुशर्माणं समासाद्य बिभेद हृदयं रणे
स गतासुर्महाराज निपपात महीतले
नन्दयन् पाण्डवान् सर्वान् व्यथयंश्चैव तावकान्
सुशर्माणं रणे हत्वा पुत्रानस्य महारथान्
सप्त चाष्टौ च त्रिंशच्च सायकैरनयत् क्षयम्
ततोऽस्य निशितैर्बाणैस् सर्वान् हत्वा पदानुगान्
अभ्यगात् तावकान् सर्वान् हतशेषान् महारथान्
भीमस्तु समरे क्रुद्धः पुत्रं तव जनाधिप
सुदर्शनमदृश्यन्तु शरैश्चक्रे हसन्निव
ततोऽस्य प्रहसन् क्रुद्धश् शिरः कायादपाहरत्
क्षुरप्रेण सुतीक्ष्णेन स हतः प्रापतद्भुवि
तस्मिंस्तु निहते वीरे ततस्तस्य पदानुगाः
परिवव्रू रणे भीमं किरन्तो विशिखान् शितान्
ततस्तु निशितैर्बाणैस्तवानीकं वृकोदरः
इन्द्राशनिसमस्पर्शैस् समन्तात् पर्यवाकिरत्
ततः क्षणेन तान् भीमो न्यहनद्भरतर्षभ
तेषु तूत्साद्यमानेषु सेनाध्यक्षा महाबलाः
भीमसेनं समासाद्य ततोऽयुध्यन्त भारत
तांस्तु सर्वाञ् शरैर्घोरैर् अवाकिरत पाण्डवः
तथैव तावका राजन् पाण्डवेयान् महारथान्
शरवर्षेण महता समन्तात् पर्यवारयन्
व्याकुलं तदभूत् सर्वं पाण्डवानां परैस्सह
तावकानां च समरे पाण्डवेयैर्युयुत्सताम्
तत्र योधास्तदा पेतुः परस्परसमाहताः
उभयोस्सेनयो राजन् संशोचन्ति स्म बान्धवान्