सञ्जयः-
गजानीके हते तस्मिन् पाण्डुपुत्रेण भारत
वध्यमाने बले राजन् भीमसेनेन सर्वशः
विचरन्तमपश्याम भीमसेनं रणाजिरे
दण्डहस्तमिव क्रुद्धम् अन्तकं प्राणहारिणम्
समेत्य च महाराज हतशेषास्सुतास्तव
अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव
सोदर्यास्सहिता भूत्वा भीमसेनमुपाद्रवन्
श्रुतर्वा सञ्जयश्चैव जयत्सेनश्श्रुतान्तकः
दुर्विमोचनकश्चैव तथा दुर्विषहो बली
दुर्मर्षणो महाराज जैत्रो भूरिबलो नलः
इत्येते सहिता भूत्वा तव पुत्रासमन्ततः
भीमसेनमभिद्रुत्य रुरुधुस्सर्वतो दिशः
ततो भीमो महाराज स्वरथं पुनरास्थितः
मुमोच निशितान् बाणान् पुत्राणां तव मर्मसु
ते कीर्यमाणा भीमेन पुत्रास्तव महारणे
भीमसेनमवासेधन् प्लवाता इव कुञ्जरम्
ततः क्रुद्धो रणे भीमश् शिरो दुर्मर्षणस्य ह
क्षुरप्रेण प्रमथ्याशु पातयामास भूतले
ततोऽपरेण भल्लेन सर्वावरणभेदिना
श्रुतान्तमवधीद्भीमस् तव पुत्रं महारथम्
जयत्सेनं ततो विद्ध्वा नाराचेन हसन्निव
पातयामास कौरव्यं रथोपस्थादरिन्दमः
स पपात रथाद्राजन् भूमौ तूर्णं ममार च
श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष
शतेन गृध्रवाजानां शराणां नतपर्वणाम्
ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं नलम्
त्रीनेतांस्त्रिभिरानर्च्छद् विषाग्निप्रतिमैश्शरैः
ते हता न्यपतन् भूमौ स्यन्दनेभ्यो महारथाः
वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः
ततोऽपरेण तीक्ष्णेन नाराचेन परन्तपः
दुर्विमोचनमाहत्य प्रेषयामास मृत्यवे
स हतः प्रापतद्भूमौ रथेन रथिनां वरः
गिरेस्तु कूटजो वृक्षो मारुतेनेव पादपः
दुष्प्रधर्षं ततश्चैव सुजातं च सुतौ तव
एकैकं ह्यवधीत् सङ्ख्ये द्वाभ्यां द्वाभ्यां महाबलः
तौ शिलीमुखनुन्नाङ्गौ पेततू रथसत्तमौ
ततो यतन्तपरम् अभिवीक्ष्य सुतं तव
भल्लेन युधि विव्याध भीमो दुर्विषहं रणे
स पपात रणे राजन् पश्यतां सर्वधन्विनाम्
दृष्ट्वा तु निहतान् भ्रातॄन् बहूनेकेन संयुगे
अमर्षवशमापन्नश् श्रुतर्वा भीममभ्ययात्
विक्षिपंस्तु महच्चापं कार्तस्वरविभूषितम्
विसृजन् सायकांश्चैव विषाग्निप्रतिमान् बहून्
स तु राजन् धनुश्छित्त्वा पाण्डवस्य महामृधे
अथैनं छिन्नधन्वानं विंशत्या समवाकिरत्
ततोऽन्यद्धनुरादाय भीमसेनो महारथः
अवाकिरत्तव सुतं तिष्ठ तिष्ठेति चाब्रवीत्
महदासीत्तयोर्युद्धं चित्ररूपं भयानकम्
यादृशस्समरः पूर्वं जम्भवासवयोरभूत्
तयोस्तत्र शितैर्मुक्तैर् यमदण्डनिभैश्शितैः
समाच्छन्ना धरा सर्वा स्व च सर्वा दिशस्तथा
ततश्श्रुतर्वा सङ्क्रुद्धो धनुरादाय सायकैः
भीमसेनं रणे तूर्णं बाह्वोरुरसि चार्पयत्
सोऽतिविद्धो महाराज तव पुत्रेण धन्विना
भीमस्सञ्चुक्षुभे क्रुद्धः पर्वणीव महोदधिः
ततो भीमो रुषाविष्टः पुत्रस्य तव भारत
सारथिं चतुरोऽश्वांश् शरैर्निन्ये यमक्षयम्
विरथं तं समालक्ष्य विशिखैर्लोमवापिभिः
अवाकिरदमेयात्मा दर्शयन् पाणिलाघवम्
श्रुतर्वा विरथो राजन् नाददे खड्गचर्मणी
तस्याथाऽददतः खड्गं शतचन्द्रं च भानुमत्
क्षुरप्रेणं शिरः कायात् पातयामास पाण्डवः
छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मना
पपात कायस्स्वरथाद् वसुधामनुनादयन्
तस्मिन्निपतिते वीरे तावका भयमोहिताः
अभ्यद्रवन्त सङ्ग्रामे भीमसेनं युयुत्सया
तानापतत एवाशु हतशेषान् महाबलान्
दंशितः प्रतिजग्राह भीमसेनः प्रतापवान्
ते तु तं वै समासाद्य परिवव्रुस्समन्ततः
ततस्तु संवृतो भीमस् तावकैर्निशितैश्शरैः
पीडयामास तान् सर्वान् सहस्राक्ष इवासुरान्
ततः पञ्चशतान् हत्वा सवरूथान् महारथान्
जघान कुञ्जरानीकं पुनस्सप्तशतं युधि
हत्वा दश सहस्राणि पत्तीनां परमेषुभिः
वाजिनां च शतान्यष्टौ पाण्डवस्स विराजते
भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव
मेने कृतार्थमात्मानं सफलं जन्म च प्रभो
तं तथा युध्यमानं च विनिघ्नन्तं च तावकान्
ईक्षितुं नोत्सहन्ते स्म तव सैन्या नराधिप
विद्राव्य च कुरून् सर्वांस् तांश्च हत्वा पदानुगान्
दोर्भ्यां शब्दं ततश्चक्रे त्रासयानो महाद्विपान्
हतभूयिष्ठयोधा तु तव सेना विशां पते
किञ्चिच्छेषा महाराज कृपणं समपद्यत