सञ्जयः-
अस्यतां यतमानानां शूराणामनिवर्तिनाम्
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः
इन्द्राशनिसमस्पर्शान् अविषह्यान् मनिजवान्
विसृजन् दृश्यते बाणान् धारा मुञ्चन्निवाम्बुदः
तत् सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना
सम्प्रदुद्राव सङ्ग्रामात् तव पुत्रस्य पश्यतः
हतयुग्यास्तथा केचिद्धतसूतरथाः परे
भग्नाक्षयुगचक्रेषाः केचिदासन् विशाम्पते
अक्षता युगपत् केचित् प्राद्रवन् भयपीडिताः
अन्येषां सायकाः क्षीणास् तथाऽन्ये शरपीडिताः
केचित् पुत्रानुपादाय हतभूयिष्ठवाहनाः
विचुक्रुशुः पितॄनन्ये सहायानपरे पुनः
बान्धवांश्च नरव्याघ्र भ्रातॄन् सम्बन्धिनस्तथा
दुद्रुवुः केचिदुत्सृज्य तत्र तत्र विशां पते
बहवोऽत्र भृशं विद्धा मुह्यमाना महारथाः
निष्टसञ्ज्ञास्स्म दृश्यन्ते पार्थबाणहता नराः
तानन्ये रथमारोप्य आश्वास्य च मुहूर्तकम्
विश्रान्ताश्च वितृष्णाश्च पुनर्युद्धाय जग्मिरे
तानपास्य गताः केचित् पुनरेव युयुत्सवः
कुर्वन्तस्तव पुत्रस्य शासनं युद्धदुर्मदाः
पानीयमपरे पीत्वा समाश्वास्य च वाहनम्
वर्माणि च समारोप्य जग्मुर्भरतसत्तम
समाश्वास्या परे भ्रातॄन् निक्षिप्य शिबिरेऽपि च
पुत्रानन्ये पितॄनन्ये पुनर्युद्धमरोचयन्
सज्जयित्वा रथान् केचिद् यथा मुख्या विशां पते
आवृत्य पाण्डवानीकं पुनर्युद्धमरोचयन्
ते शूराः किङ्किणीजालैस् समाच्छन्ना बभासिरे
त्रैलोक्यविजये युक्ता यथा दैवतदानवाः
आगम्य सहसा केचिद् रथैस्स्वर्णविभूषितैः
पाण्डवानामनीकेषु धृष्टद्युम्नमयोधयन्
धृष्टद्युम्नोऽपि पाञ्चाल्यश् शिखण्डी च महारथः
नाकुलिश्च शतानीको रथानीकमयोधयन्
पाञ्चाल्यस्तु ततः क्रुद्धस् सैन्येन महता वृतः
अभ्यधावत सङ्क्रुद्धस् तावकान् हन्तुमुद्यतः
ततस्त्वापततस्तस्य तव पुत्रो जनाधिप
बाणसङ्घाननेकान् वै प्रेषयामास भारत
धृष्टद्युम्नस्ततो राजंस् तव पुत्रेण धन्विना
नाराचैर्बहुभिः क्षिप्रं बाह्वोरुरसि चार्पितः
सोऽतिविद्धो महेष्वासस् तोत्रार्दित इव द्विपः
तस्याश्वांश्चतुरो बाणैः प्रेषयामास मृत्यवे
सारथेश्चास्य भल्लेन शिरः कायादपाहरत्
ततो दुर्योधनो राजा पृष्ठमारुह्य वाजिनः
अपाक्रामद्धतरथो नातिदूरमरिन्दमः
दृष्टा तु हतभूयिष्ठं स्वमनीकममर्षणः
तव पुत्रो महाराज प्रययौ यत्र सौबलः
ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः
पाण्डवान् रथिनः पञ्च समन्तात् पर्यवारयन्
ततोऽर्जुनो महाराज लब्धलक्षो महाभुजः
विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः
ते वृतास्समरे पञ्च गजानीकेन भारत
तैस्समन्तात् परिवृतः कुञ्जरैः पर्वतोपमैः
अशोभन्त नरव्याघ्रा ग्रहास्तारागणैरिव
नाराचैर्विधैस्तीक्ष्णैर् गजानीकमयोधयत्
तत्रैकबाणनिहतान् अपश्याम महागजान्
पतितान् पात्यमानांश्च प्रभग्नान् सव्यसाचिना
भीमसेनस्तु तान् दृष्ट्वा नागान् वै पर्वतोपमान्
करेण गृह्य महतीं गदामभ्यद्रवद्बली
अवप्लुत्य रथात् तूर्णं दण्डपाणिरिवान्तकः
तमुद्यतगदं दृष्ट्वा पाण्डवानां महारथम्
वित्रेसुस्तावका योधाश् शकृन्मूत्रं च सुस्रुवुः
आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे
गदया भीमसेनेन भिन्नकुम्भान् कृतव्रणान्
धावमानानपश्याम कुञ्जरान् पर्वतोपमान्
प्राधाव्य कुञ्जरास्ते तु भीमसेनगदाहताः
पेतुरार्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः
तान् भिन्नकुम्भांस्तु बहून् द्रवमाणानितस्ततः
पतमानांस्तु सम्प्रेक्ष्य वित्रेसुस्तव सैनिकाः
युधिष्ठिरोऽपि सङ्क्रुद्धो माद्रीपुत्रौ च पाण्डवौ
गार्ध्रपत्रैश्शितैर्बाणैर् जघ्नुर्वै गजयोधिनः
धृष्टद्युम्नस्तु समरे पारजित्य नराधिपम्
अपक्रान्ते तव सुते हयपृष्ठे समाश्रिते
दृष्ट्वा च पाण्डवान् सर्वान् कुञ्चरैः परिवारितान्
समेतश्च महाराज सह सर्वैः प्रभद्रकैः
पुत्रः पाञ्चालराजस्य जिघांसुः कौरवान् ययौ
अदृष्ट्वा तु रथानीके दुर्योधनमरिन्दमम्
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः
अपृच्छन् क्षत्रियांस्तत्र क्व नु दुर्योधनो गतः
अपश्यमाना राजानं वर्तमाने जनक्षये
मन्वाना निहतं तत्र तव पुत्रं महारथाः
विषण्णवदना भूत्वा पर्यपृच्छन्त ते सुतम्
आहुः केचिद्धते सूते प्रयातो यत्र सौबलः
हित्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम्
अपरे त्वब्रुवंस्तत्र क्षत्रिया भृशविक्षताः
क्षत्रियाः-
दुर्योधनेन किं कार्यं द्रक्ष्यध्वं यदि जीवति
युध्यध्वं सहितास्सर्वे किं वा राजा करिष्यति
सञ्जयः-
ते क्षत्रियाः क्षतैर्गात्रैर् हतभूयिष्ठवाहनाः
शरैस्सम्पीड्यमानाश्च नातिव्यक्तमथाब्रुवन्
क्षत्रियाः-
इदं सर्वं बलं हन्मो येन स्म परिवारिताः
एते सर्वे गजान् हत्वा उपयान्ति स्म पाण्डवाः
श्रुत्वा तु वचनं तेषाम् अश्वत्थामा महाबलः
भित्त्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम्
कृपश्च कृतवर्मा च प्रययुर्यत्र सौबलः
रथानीकं परित्यज्य शूरास्सुदृढधन्विनः
ततस्तेषु प्रयातेषु धृष्टद्युम्नपुरस्कृताः
आययुः पाण्डवा राजन् विनिघ्नन्तश्च तावकान्
दृष्ट्वा तु तानापततस् सम्प्रहृष्टान् महारथान्
पराक्रान्तांस्ततो दृष्ट्वा निराशा जीवितेऽभवन्
विवर्णमुखभूयिष्ठम् अभवत् तावकं बलम्
परिक्षीणायुधान् दृष्ट्वा तानहं परिवारितान्
राजन् बलेन त्र्यङ्गेन त्यक्त्वा जीवितमात्मनः
आत्मना पञ्चमोऽयुध्यं पाञ्चालस्य बलेन ह
तस्मिन् देशे व्यवस्थाप्य यत्र शारद्वतस्स्थितः
तं प्रयुद्धा वयं पञ्च किरीटिशरपीडिताः
धृष्टद्युम्नस्य चानीके तत्र नाऽभूद्रणो महान्
निर्जितास्ते वयं सर्वे व्यपयाम रणात् ततः
अथापश्यं सात्यकिं तम् उपायान्तं महारथम्
रथैश्चतुश्शतैर्वीरो मां चाभ्यद्रवदाहवे
धृष्टद्युम्नादहं मुक्तः कथञ्चिच्छान्तवाहनः
पतितो माधवानीके दुष्कृती नरके यथा
तत्र युद्धमभूद्धोरं मुहूर्तमतिदारुणम्
सात्यकिस्तु महाबाहुर् मम हत्वा परिच्छदम्
जीवग्राहमगृह्णान्मां मूर्च्छितं पतितं भुवि
तदा मुहूर्तादेवाथ गजानीकमविध्यत
गदया भीमसेनेन नाराचैरर्जुनेन च
प्रतिविष्टैर्महानागैस् समन्तात् पर्वतोपमैः
नातिप्रसिद्धैव गतिः पाण्डवानामजायत
रथमार्गं ततश्चक्रे भीमसेनो महाबलः
पाण्डवानां महाराज व्यपाकर्षन् महागजान्
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः
अपश्यन्तो गजानीके दुर्योधनमरिन्दमम्
राजानं मृगयामासुस् तव पुत्रं महारथम्
परित्यज्य च पाञ्चाल्यं प्रयाता यत्र सौबलः
राज्ञोऽदर्शनसंविग्ना वर्तमानो जनक्षये