सञ्जयः-
अल्पावशिष्टे सैन्ये तु पाण्डवैर्निहते बले
अश्वैस्सप्तसहस्रैस्तु उपावर्तत सौबलः
स यात्वा वाहिनीं तूर्णं चोदयानस्स्वकान् युधि
युध्यध्वमिति संहृष्टाः पुनः पुनररिन्दमाः
अपृच्छत् क्षत्रियांश्चत्र क्व स राजा सुयोधनः
शकुनेस्तु वचश्श्रुत्वा त ऊचुर्भरतर्षभ
सैनिकाः-
असौ तिष्ठति कौरव्यो रणमध्ये महाबलः
यत्रैतत् सुमहच्छत्रं पूर्णचन्द्रसमप्रभम्
यत्रैते सतलत्राणा रथास्तिष्ठन्ति दंशिताः
यत्रैष शब्दस्तुमुलः पर्जन्यनिनदोपमः
तत्र गच्छ द्रुतं राजंस् ततो द्रक्ष्यसि कौरवम्
सञ्जयः-
एवमुक्तस्तु तैश्शूरैश् शकुनिस्सौबलस्तदा
प्रययौ तत्र यत्रासौ पुत्रस्तव जनाधिप
सर्वतस्संवृतो वीरैस् समरेष्वनिवर्तिभिः
ततो दुर्योधनं दृष्ट्वा रथानीके व्यवस्थितम्
सरथांस्तावकान् सर्वान् हर्षयञ् शकुनिस्ततः
दुर्योधनमिदं वाक्यं हृष्टरूपो विशां पते
कृतकार्यमिवात्मानं मन्यमानोऽब्रवीन्नृपम्
शकुनिः-
जहि राजन् रथानीक् अश्वास्सर्वे हता मया
नात्यक्त्वा जीवितं सङ्ख्ये शक्यो जेतुं युधिष्ठिरः
हते तस्मिन् रथानीके पाण्डवेनाभिपालिते
गजानेतान् हनिष्यामः पदातींश्चेतरान् बहून्
सञ्जयः-
श्रुत्वा तु वचनं तस्य तावका जयगृघ्नवः
जवेनाभ्यपतन् हृष्टाः पाण्डवानामनीकिनीम्
बद्धनिस्त्रिंशतूणीराः प्रगृहीतशरासनाः
शरासनानि धून्वानास् सिंहनादान् प्रचक्रिरे
ततो ज्यातलनिर्घोषः पुनरासीद्विशां पते
प्रादुरासीच्छराणां च प्रमुक्तानां सुदारुणः
तान् समीपगतान् दृष्ट्वा जवेनोद्यतकार्मुकान्
उवाच देवकीपुत्रं कुन्तीपुत्रो धनञ्जयः
अर्जुनः-
चोदयाश्वानसम्भ्रान्तः प्रविशैतद्बलार्णवम्
अन्तमद्य गमिष्यामि शत्रूणां निशितैश्शरैः
अष्टादश दिनान्यद्य युद्धस्यास्य जनार्दन
वर्तमानस्य महतस् समासाद्य परस्परम्
अनन्तकल्पा ध्वजिनी हता ह्येषां महात्मनाम्
क्षयमद्य गता युद्धे पश्य दैवं यथाविधम्
समुद्रकल्पं च बलं धार्तराष्ट्रस्य माधव
अस्मनासाद्य सञ्जातं गोष्पदोपममच्युत
हते भीष्मे धीर्ममासीच् छमस्स्यादिति माधव
न च तत् कृतवान् मूढो धार्तराष्ट्रस्सुबालिशः
उक्तं भीष्मेण यद्वाक्यं हितं पथ्यं च माधव
तच्चापि नासौ कृतवान् हीनबुद्धिस्सुयोधनः
तस्मिंस्तु निहते भीष्मे प्रच्युते पृथिवीपतौ
न जाने कारणं किन्नु येन युद्धमवर्तत
मूढांस्तु सर्वथा मन्ये धार्तराष्ट्रान् सुबालिशान्
पतिते शन्तनोः पुत्रे येऽकार्षुस्सङ्गरं पुनः
अनन्तरं च निहते द्रोणे ब्रह्मविदां वरे
राधेये च विकर्णे च नैव शाम्यति वैशसम्
अल्पावशिष्टे सैन्येऽस्मिन् सूतपुत्रे निपातिते
सहपुत्रे नरव्याघ्रे नैव शाम्यति वैशसम्
श्रुतायुषि हते वीरे जलसन्धे च मागधे
श्रुतायुधे च विक्रान्ते नैव शाम्यति वैशसम्
भूरिश्रवसि शल्ये च साल्वे चैव जनार्दन
आवन्त्येषु च शूरेषु नैव शाम्यति वैशसम्
जयद्रथे च निहते राक्षसे चाप्यलायुधे
बाह्लिके सोमदत्ते च नैव शाम्यति वैशसम्
भगदत्ते हते शूरे काम्भोजे च सुदाक्षिणे
नानादेशसमुत्थे च हते सैन्ये पथग्विधे
दुश्शासने च निहते नैव शाम्यति वैशसम्
दृष्ट्वा च निहताञ् शूरान् परान् माण्डलिकान् नृपान्
बलानि च रणे कृष्ण नैव शाम्यति वैशसम्
अक्षौहिणीं हतां दृष्ट्वा भीमसेनेन संयुगे
मोहाद्वा यदि वा लोभान्नैव शाम्यति वैशसम्
हतप्रवीरां विध्वस्तां दृष्ट्वा चेमां चमूं रणे
अलम्बुसे च निहते नैव शाम्यति वैशसम्
भ्रातॄन् विनिहतान् दृष्ट्वा वयस्यान् मातुलानपि
पुत्रान् विनिहतान् सङ्ख्ये नैव शाम्यति वैशसम्
को नु राजा कुले जातः कौरवेयो विशेषतः
निरर्थकं महद्वैरं कुर्यादन्यस्सुयोधनात्
गुणतोऽभ्यधिकाञ् श्रुत्वा बलतश्शौर्यतोऽपि वा
अमूढः को नु युध्येत जानन् प्राज्ञो हिताहितम्
यन्न तस्य मनोऽप्यासीत् त्वयोक्तस्य हितं वचः
प्रशमे पाण्डवैस्सार्धं सोऽन्यस्य शृणुयात् कथम्
येन शान्तनवो भीष्मो द्रोणो विदुर एव च
प्रत्याख्याताश्शमस्यार्थे किन्नु तस्यास्ति भेषजम्
मौर्ख्याद्येन पिता वृद्धः प्रत्याख्यातो जनार्दन
तथा माता हितं वाक्यं भाषमाणा हितैषिणी
प्रत्याख्याता ह्यसत्कृत्य कस्माद्रोचयते वचः
कुलान्तकरणो व्यक्तं जात एष जनार्दन
यथाऽस्य दृश्यते चेष्टा नीतिश्चैव विशां पते
नैष दास्यति नो राज्यम् इति मे मतिरच्युत
उक्तो हि बहुशस्तात विदुरेण महात्मना
न जीवन् दास्यते भागं धार्तराष्ट्रः कथञ्चनः
यावत् प्राणा धरिष्यन्ति धार्तराष्ट्रस्य मानद
तावद्युष्मास्वपापेषु प्रकरिष्यति पापकम्
न स शक्योऽन्यथा जेतुम् ऋते युद्धेन माधव
इत्यब्रवीत् सदा मां हि विदुरस्सत्यदर्शनः
तत् सर्वमद्य जानामि व्यवसायं दुरात्मनः
यदुक्तं वचनं तेन विदुरेण महात्मना
यो हि श्रुत्वा वचः पथ्यं धार्तराष्ट्रो यथातथम्
नाकरोद्विदुरस्यातो ध्रुवं नाश उपस्थितः
उक्तं हि बहुभिस्सिद्धैर् जातमात्रे सुयोधने
एनं प्राप्य दुरात्मानं क्षयं क्षत्रं गमिष्यति
तदिदं वचनं तेषाम् अद्य प्राप्तं जनार्दन
क्षयं याता हि राजानो दुर्योधनकृतेन हि
सोऽद्य सर्वान् रणे योधान् निहनिष्यति माधव
क्षत्रियेषु हतेष्वाशु शून्ये च शिबिरे कृते
वधाय चात्मनोऽस्माभिस् संयुगं रोचयिष्यति
तदन्तं हि भवेद्वैरम् संयुगं रोचयिष्यति
एवं पश्यामि वार्ष्णेय चिन्तयन् प्रज्ञया स्वयम्
विदुरस्य च वाक्येन चेष्टया च दुरात्मनः
तस्माद्याहि चमूं वीर यावद्धन्मि शितैश्शरैः
दुर्योधनं दुरात्मानं वाहिनीं चास्य संयुगे
क्षेममद्य करिष्यामि धर्मराजस्य माधव
हत्वैतद्दुर्बलं सैन्यं धार्तराष्ट्रस्य पश्यतः
सञ्जयः-
अभीशुहस्तो दाशार्हस् तथोक्तस्सव्यसाचिना
तं बलौघममित्राणां तूर्णं सम्प्राविशद्रणे
शरासनवनं घोरं शक्तिकण्टकसंवृतम्
गदापरिघपाषाणं रथनागमहाद्रुमम्
हयपत्तिलताकीर्णं गाहमानो महायशाः
व्यचरत् तत्र गोविन्दस् स्वरथेनाशुपातिना
ते हयाः पाण्डुरा राजन् वहन्तोऽर्जुनमाहवे
दिक्षु सर्वास्वदृश्यन्त दाशार्हेण प्रचोदिताः
ततः प्रायाद्रथेनाजौ सव्यसाची परन्तपः
किरञ् शरशतांस्तीक्ष्णान् वारिधारा इवाम्बुदः
प्रादुरासीन्महाञ्शब्दश् शराणां नतपर्वणाम्
इषुभिश्छाद्यमानानां सङ्ग्रामे सव्यसाचिना
असज्जन्तस्तनुत्रेषु शरौघाः प्रापतन् भुवि
इन्द्राशनिसमस्पर्शा गाण्डीवप्रेषिताश्शराः
नरान् नागान् समाहत्य हयांश्चापि विशां पते
अापतंस्तु रणे बाणाः पतङ्गा इव घोषिणः
आसीत् सर्वमवच्छन्नं गाण्डीवप्रेषितैश्शरैः
न प्राज्ञायन्त सङ्ग्रामे दिशो वा प्रदिशोऽपि वा
सर्वमासीज्जगत् पूर्णं पार्थनामाङ्कितैश्शरैः
रुक्मपुङ्खैश्शितैर्बाणैः कर्मारपरिमार्जितैः
ते दह्यमानाः पार्थेन पावकेनेव कुञ्जराः
समासीदंस्तु कौरव्या वध्यमानाश्शितैश्शरैः
शरचापधरः पार्थः प्रज्वलन्निव भारत
ददाह समरे योधान् कक्षमग्निरिव ज्वलन्
यथा वनान्ते वनपैर्विसृष्टः कक्षं दहेत् कृष्णगतिस्सुघोषः
भूरिद्रुमं शुष्कलताप्रतानं भृशं समिद्धो ज्वलनः प्रतापी
एवं स नाराचगणम्प्रतापी शराग्निरुच्चावचतिग्मतेजाः
ददाह सर्वां तव पुत्रसेनाम् अमृष्यमाणस्तरसा तरस्वी
तस्येषवः प्राणहरास्सुमुक्ता न सज्जन्ते वर्मसु रुक्मपुङ्खाः
न च द्वितीयं प्रमुमोच काण्डम् नरे हये वाऽपि रथे द्विपे वा
अनेकरूपाकृतिभिश्च बाणैर् महारथानीकमनुप्रविश्य
स एक एवं तव पुत्रसेनां जघान दैत्यानिव वज्रपाणिः