सञ्जयः-
पुत्रस्तु ते महाराज रथस्थो रथिनां वरः
दुराधर्षो बभौ युद्धे यथा रुद्रः प्रतापवान्
तस्य बाणसहस्रैस्तु प्रच्छन्ना ह्यभवन्मही
परांश्च सिषिचे बाणैर् धाराभिरिव पर्वतान्
न च सोऽस्ति पुमान् कश्चित् पाण्डवानां बलार्णवे
हयो गजो रथो वाऽपि योऽस्य बाणैरविक्षतः
यं यं हि समरे योधं प्रपश्यामि विशां पते
स स बाणैश्चितोऽभूद्वै तव पुत्रेण भारत
यथा सैन्येन रजसा समुद्भूतेन वाहिनी
प्रत्यदृश्यत सञ्छन्ना तथा बाणैर्महात्मनः
बाणभूतामपश्याम पृथिवीं पृथिवीपते
दुर्योधनेनापतता क्षिप्रहस्तेन धन्विना
तेषु योधसहस्रेषु तावकेषु परेषु च
नास्ति दुर्योधनसमः पुमानिति मतिर्मम
तत्राद्भुतमपश्याम तव पुत्रस्य विक्रमम्
यदेकं सहिताः पार्था नात्यवर्तन्त भारत
युधिष्ठिरं शतेनाजौ विव्याध भरतर्षभ
भीमसेनं त्रिसप्तत्या सहदेवं च पञ्चभिः
नकुलं च चतुष्षष्ट्या धृष्टद्युम्नं च पञ्चभिः
सप्तभिर्द्रौपदेयांश्च त्रिभिर्विव्याध सात्यकिम्
धनुश्चिच्छेद भल्लेन सहदेवस्य भारत
तदपास्य धनुश्छिन्नं माद्रीपुत्रः प्रतापवान्
अभ्यधावत राजानं प्रगृह्या सुमहद्धनुः
ततो दुर्योधनं सङ्ख्ये विव्याध दशभिश्शरैः
नकुलश्च ततो वीरो राजानं नवभिः पुनः
घोररूपैर्महेष्वासो विव्याध च ननाद च
सात्यकिश्चापि राजानं शरेण नतपर्वणा
द्रौपदेयास्त्रिसप्तत्या धर्मराजश्च पञ्चभिः
अशीत्या भीमसेनश्च शरै राजानमर्दयन्
समन्तात् कीर्यमाणस्तु बाणसङ्घैर्महात्मभिः
न चचाल महाराज सर्वसैन्यस्य पश्यतः
लाघवात् सौष्ठवाच्चापि धैर्याच्चैव महात्मनः
अति सर्वाणि भूतानि ददृशुस्सर्वपार्थिवाः
धार्तराष्ट्रस्य राजेन्द्र यात्वा हि स्वल्पमन्तरम्
अपश्यमाना राजानं पर्यधावन्त दंशिताः
तेषामापततां घोषस् तुमुलस्समजायत
क्षुब्धस्य हि समुद्रस्य प्रावृट्काले यथा निशि
समासाद्य रणे ते तु राजानमपराजितम्
प्रत्युद्ययुर्महेष्वासाः पाण्डवानाततायिनः
भीमसेनं रणे क्रुद्धं द्रोणपुत्रो न्यवारयत्
तयो बाणैर्महाराज प्रमुक्तैस्सर्वतो दिशम्
नाज्ञायन्त रणे वीरा न दिशः प्रदिशस्तथा
तावुभौ कृतकर्माणावुभौ भारत दुस्सहौ
घोररूपमयुध्येतां कृतप्रतिकृतैषिणौ
त्रासयन्तौ जगत् सर्वं ज्याक्षेपविहतत्वचौ
शकुनिश्च धनुश्धित्वा युधिष्ठिरमपीडयत्
तस्याश्वांश्चतुरो हत्वा सुबलस्य सुतो विभुः
नादं चकार बलवन् सर्वसैन्यानि कम्पयन्
एतस्मिन्नन्तरे वीरं राजानमपराजितम्
अपोवाह रथेनाजौ सहदेवः प्रतापवान्
अथान्यं रथमास्थाय धर्मराजो युधिष्ठिरः
शकुनिं नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः
ननाद च महानादं प्रवरस्सर्वधन्विनाम्
तद्युद्धमभवच्चित्रं घोररूपं च मारिष
ईक्षितृप्रीतिजननं सिद्धचारणसेवितम्
उलूकस्तु महेष्वासो नकुलं युद्धदुर्मदम्
अभ्यवर्षदमेयात्मा शरवर्षैस्समन्ततः
तथैव नकुलश्शूरस् सौबलस्य सुतं रणे
शरवर्षेण महता समन्तात् पर्यवारयत्
तौ तत्र समरे वीरौ कुलपुत्रौ महारथौ
योधयन्तावदृश्येतां परस्परकृतागसौ
तथैव कृतवर्मा तु शैनेयं शत्रुतापनम्
योधयञ् शुशुभे राजन् बलिंश्शक्रमिवाहवे
दुर्योधनो धनुश्छित्वा धृष्टद्युम्नस्य संयुगे
अथैनं छिन्नधन्वानं विव्याध निशितैश्शरैः
धृष्टद्युम्नोऽपि समरे प्रगृह्य सुमहायुधम्
राजानं योधयामास पश्यतां सर्वधन्विनाम्
तयोर्युद्धं महच्चासीत् सङ्क्रुन्दे भरतर्षभ
प्रभिन्नयोर्यथा सक्तं मत्तयोर्वनहस्तिनोः
गौतमस्तु रणे क्रुद्धो द्रौपदेयान् महाबालान्
विव्याध बहुभिर्घोरैश् शरैस्सन्नतपर्वभिः
तस्य तैरभवद्युद्धम् इन्द्रियैरिव देहिनः
घोररूपमसंहार्यं निर्मर्यादमतीव च
ते च तं पीडयामासुर् इन्द्रियाणीव बालिशम्
स च तान् प्रतिसंरब्धः प्रत्ययोधयदाहवे
एवं चित्रमभूद्युद्धं तस्य तैस्सह भारत
उत्थायोत्थाय हि यथा देहिनामिन्द्रियैर्विभो
नराश्चैव नरैस्सार्धं दन्तिनो दन्तिभिस्तथा
हया हयैस्समासक्ता रथिनो रथिभिस्तथा
सङ्कुलं चाभवद्भूयो घोररूपं विशां पते
इदं चित्रमिदं घोरम् इदं रौद्रमिति प्रभो
युद्धान्यासन् महाराज घोराणि च बहूनि च
ते समासाद्य समरे परस्परमरिन्दमाः
विव्यधुश्चैव जघ्नुश्च समाभाष्य महाबलाः
तेषां रथसमुद्भूतं रजस्तीव्रमदृश्यत
प्रवातेनोद्धतं राजन् धावद्भिश्चाश्वसादिभिः
रथनेमिसमुद्भूतं निश्वासैश्चापि दन्तिनाम्
रजस्सन्ध्याभ्रकलिलं दिवाकरपथं ययौ
रजसा तेन सम्पृक्ते भास्करे निष्प्रभीकृते
सञ्छादिताऽभवद्भूमिस् ते च शूरा महारथाः
मुहूर्तादिव सम्पृक्तं विरजस्कं समन्ततः
वीरशोणितसिक्तायां भूमौ भरतसत्तम
उपाशाम्यत् ततस्तीव्रं तद्रजो घोरदर्शनम्
ततोऽपश्यं महाराज द्वन्द्वयुद्धानि भारत
प्रग्रहं च यथा श्रेष्ठं मध्याह्ने वै सुदारुणे
वर्मणां तत्र राजेन्द्र व्यदृश्यन्तोज्ज्वलात्प्रभाः
शब्दस्तु तुमुलस्सङ्ख्ये शराणां पततामभूत्
महावेणुवनस्येव दह्यमानस्य पर्वते
वर्तमाने महायुद्धे घोररूपे भयानके
अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः
तांस्तु यन्तेन महता सन्निवार्य महारथान्
पुत्रास्ते योधयामासुः पाण्डवानामनीकिनीम्
निवृत्तास्सहसा योधास् तव पुत्रप्रियैषिणः
सन्निवृत्तेषु तेष्वेवं युद्धमासीत् सुदारुणम्
तावकानां परेषां च सुरासुररणोपमम्
परेषां ताव सैन्ये वा नास्ति कश्चित् पराङ्मुखः
अनुमानेन युध्यन्ते सञ्ज्ञाभिश्च परस्परम्
तेषां क्षयो महानासीद् युध्यतामितरेतरम्
ततो युधिष्ठिरो राजा क्रोधेन महता वृतः
जिगीषमाणस्सङ्ग्रामे धार्तराष्ट्रान् सराजकान्
त्रिभिश्शारद्वतं विद्ध्वा रुक्मपुङ्खैश्शिलाशितैः
चतुर्भिर्निजघानाश्वान् कल्याणान् कृतवर्मणः
अश्वत्थामा तु हार्दिक्यम् अपोवाह यशस्विनम्
अथ शारद्वतोऽष्टाभिः प्रत्ययुध्यद्युधिष्ठिरम्
ततो दुर्योधनो राजा रथान् सप्तशतान् रणे
प्रैषयद्यत्र राजाऽसौ धर्मपुत्रो युधिष्ठिरः
ते रथा रथिभिर्युक्ता मनोमारुतरंहसः
अभ्यद्रवन्त सङ्ग्रामे कौन्तेयस्य रथं प्रति
ते समन्तान्महाराज परिवार्य युधिष्ठिरम्
अदृश्यं सायकैश्चक्रुर् मेघा इव दिवाकरम्
तं दृष्ट्वा धर्मराजानं कौरवै्स्तैस्समावृतम्
नामृष्यन्त सुसङ्क्रुद्धाश् शिखण्डिप्रमुखा रथाः
रथैरश्ववरैर्युक्तैः किङ्किणीजालसंवृतैः
आजग्मुरमिरक्षन्तः कुन्तीपुत्रं युधिष्ठिरम्
ततः प्रववृते घोरस् सङ्ग्रामश्शोणितोदकः
पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः
रथान् सप्तशतान् हत्वा कुरूणामाततायिनाम्
पाण्डवास्सह पाञ्चालैः पुनरेवाभ्यवारयन्
तत्र युद्धं महच्चासीत् तव पुत्रस्य पाण्डवैः
न च तत्तादृशं दृष्टं नैव चापि परिश्रुतम्
वर्तमाने महायुद्धे निर्मर्यादे समन्ततः
वध्यमानेषु योधेषु तावकेष्वितरेषु च
ज्याघोषैर्योधमुख्यानां तलघोषैस्समन्ततः
उत्क्रुष्टैस्सिंहनादैश्च गर्जितेन च धन्विनाम्
अतिप्रवृद्धे युद्धे च भिद्यमानेषु मर्मसु
धावमानेषु योधेषु जयगृध्रेषु भारत
संहारे सर्वतो जाते पृथिव्यां घोरसम्भवे
बह्वीनामुत्तमस्त्रीणां सीमन्तोद्धरणे कृते
निर्मर्यादे महायुद्धे वर्तमाने सुदारुणे
प्रादुरासन् विनाशाय तदोत्पातास्सुदारुणाः
चचाल शब्दं कुर्वाणा सपर्वतवना मही
सदण्डाश्चोल्मुका राजन् निपतन्ति समन्ततः
उल्काः पेतुर्दिवो भूमावाहत्य रविमण्डलम्
विष्वग्वाताः प्रादुरासन् नीचैश्शर्करवर्षिणः
अश्रूणि मुमुचुर्नागा वेपथुश्चाविशद्भृशम्
एतान् घोराननादृत्य समुत्पातान् सुदारुणान्
पुनर्युद्धाय सम्मन्त्र्य क्षत्रियास्तस्थुरव्यथाः
रमणीये कुरुक्षेत्रे पुण्ये स्वर्गयियासवः
ततो गान्धारराजस्य पुत्रश्शकुनिरब्रवीत्
शकुनिः-
युध्यध्वमग्रतो यावत् पृष्ठतो हन्मि पाण्डवान्
सञ्जयः-
ततोऽभ्यधावंस्त्वरिता मद्रयोधास्तरस्विनः
हृष्टाः किलाकिलाशब्दान् अकुर्वन्नपरे तथा
तेऽस्मांस्तु पुनरासाद्य लब्धलक्षा दुरासदाः
शरासनानि धुन्वनाश् शरवर्षैरवाकिरन्
ततो हतं परैस्तत्र मद्रराजबलं तदा
दुर्योधनबलं दृष्ट्वा पुनरासीत् पराङ्मुखम्
गान्धारराजस्तु पुनर् वाक्यमाह ततो बली
शकुनिः-
निवर्तध्वमधर्मज्ञा युध्यध्वं किं द्रुतेन वः
सञ्जयः-
अनीकं दशसाहस्रम् अश्वानां भरतर्षभ
आसीद्गान्धारराजस्य विमलप्रासयोधिनाम्
बलेन तेन विक्रम्य वर्तमाने जनक्षये
पृष्ठतः पाण्डवानीकम् अभ्यघ्नन्निशितैश्शरैः
तदभ्रमिव वातेन क्षिप्यमाणं समन्ततः
अभज्यत महाराज पाण्डवानां महद्बलम्
ततो युधिष्ठिरः प्रेक्ष्य भग्नं स्वबलमन्तिकात्
अभ्यनोदयदव्यग्रस् सहदेवं महाबलम्
युधिष्ठिरः-
असौ सुबलपुत्रो नो जघनं पश्य दंशितः
सनां निषूदयत्येष पश्य पाण्डव दुर्मतिम्
गच्छ त्वं द्रौपदेयैश्च शकुनिं सौबलं जहि
रथानीकेन युद्ध्येऽहं पाञ्चालैस्सहितोऽनघ
गच्छन्तु कुञ्जरास्सर्वे वाजिनश्च महाजवाः
पादाताश्च त्रिसाहस्राश् शकुनिं तैर्वृतो जहि
सञ्जयः-
ततो गजास्सप्तशतं चापपाणिभिरास्थिताः
पञ्च चाश्वसहस्राणि सहदेवश्च वीर्यवान्
पादाताश्च त्रिसाहस्रा द्रौपदेयाश्च सर्वशः
रणे वाऽभ्यद्रवंस्ते तु शकुनिं युद्धदुर्मदम्
ततस्तु सौबलो राजन्नभ्यतिक्रम्य पाण्डवान्
जघान पृष्ठतस्सेनां जयगृध्नुः प्रतापवान्
अश्वारोहास्समारब्धाः पाण्डवानां तरस्विनाम्
प्राविशन् सौबलानीकम् अभ्यतिक्रम्य तान् रथान्
ते तत्र सादिनश्शूरास् सौबलस्य महद्बलम्
रणमध्ये व्यवस्थाप्य शरवर्षैरवाकिरन्
तदुद्यतगदाप्रासं महापुरुषसेवितम्
प्रावर्तत महद्युद्धं राजन् दुर्मन्त्रिते तव
उपारमन्त निश्शब्दाः प्रेक्षका रथिनोऽभवन्
न हि स्वेषां परेषां वा विशेषः प्रत्यदृश्यत
शूरबाहुविसृष्टानां शराणां भरतर्षभ
ज्योतिषामिव सम्पातम् अपश्यन् कुरुपाण्डवाः
शक्तिभिर्विमलाभिश्च तत्र तत्र विशां पते
सम्पतन्तीभिराकाशम् आवृतं बह्वशोभत
प्रासानां पततां राजन् रूपमासीत् समन्ततः
शलभानामिवाकाशे तदा भरतसत्तम
रुधिरोक्षितसर्वाङ्गैर् विप्रविद्धैर्नियन्तृभिः
हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः
अन्योन्यं प्रतिविद्धाश्च समासाद्य परस्परम्
परिक्षतास्स्म दृश्यन्ते वमन्तो रुधिरं मुखैः
ततोऽभवत्तमो घोरं सैन्येन रजसा वृतम्
तानपाक्रमतोऽद्राक्षं तस्माद्देशादरिन्दमान्
अश्वान् राजन् मनुष्यांश्च रजसा संवृते सति
भूमौ निपतिताश्चान्ये वमन्तो रुधिरं बहु
केशाकेशि समालग्ना न शेकुश्चेष्टितुं नराः
अन्योन्यमश्वपृष्ठेभ्यो विकर्षन्तो महाबलाः
मल्ला इव समासक्ता निजघ्नुरितरेतरम्
अश्वाश्च व्यपकृष्यन्त बहवोऽत्र गतासवः
भूमौ निपतिताश्चान्ये बहवोऽथ जिगीषवः
तत्र तत्र व्यदृश्यन्त पुरुषाश्शूरमानिनः
रक्तोक्षितैश्छिन्नभुजैर् अपकृष्टशिरोधरैः
व्यदृश्यत मही कीर्णा शतशोऽथ सहस्रशः
अन्योन्यं प्रतिविद्धाश्च समासाद्य परस्परम्
दूरं न शक्यं तत्रासीद् गन्तुमश्वेन केनचित्
सारोहैर्निहतैरश्वैर् आवृते वसुधातले
रुधिरोक्षितसर्वाङ्गैर् आत्तशस्त्रैरुदायुधैः
नानाप्रहरणैर्घोरैः परस्परवधैषिभिः
सुसन्निविष्टे सङ्ग्रामे हतभूयिष्ठसैनिके
स मुहूर्तं तदा युद्ध्वा सर्वयोधवधे कृते
षट्साहस्रैर्हयैश्शिष्टैर् अपायाच्छकुनिस्ततः
तथैव पाण्डवानीकं रुधिरेण समुक्षितम्
त्रिसाहस्रै रथैश्शिष्टैर् अपायाच्छ्रान्तवाहनम्
अश्वारोहास्तु पाण्डूनाम् अब्रुवन् रुधिरोक्षिताः
सुसन्निकृष्टे सङ्ग्रामे भूयिष्ठं त्यक्तजीविताः
पाण्डवसादिनः-
न हि शक्यं रथैर्योद्धुं कुत एव महागजैः
रथानेव रथा यान्तु कुञ्जराः कुञ्जरानपि
प्रतियातोऽपि शकुनिस् स्वमनीकमवस्थितः
न पुनस्सौबलो राजा योद्धुमभ्यागमिष्यति
सञ्जयः-
ततस्तु द्रौपदेयास्तु ते च मत्ता महागजाः
प्रययुर्यत्र पाञ्चाल्यो धृष्टद्युम्नो महारथः
सहदेवोऽपि कौरव्य रजोमेघे समुत्थिते
एकाकी प्रययौ तत्र तत्र राजा युधिष्ठिरः
तत्र तेषु प्रयातेषु शकुनिस्सौबलः पुनः
पार्श्वतोऽभ्यहनत् क्रुद्धो धृष्टद्युम्नस्य वाहिनीम्
तत् पुनस्तुमुलं युद्धं प्राणांस्त्यक्त्वाऽभ्यवर्तत
तावकानां परेषां च परस्परवधैषिणाम्
ते ह्यन्योन्यमतक्षन्त तस्मिन् वीरसमागमे
योधाः पर्यपतन् राजञ् शतशोऽथ सहस्रशः
असिभिश्छिद्यमानानां शिरसां लोकसङ्क्षये
प्रादुरासीन्महाञ्शब्दस् तालानां पततामिव
विमुक्तानां शरीराणां भिन्नानां पततां भुवि
सायुधानां च बाहूना वीराणां च विशां पते
आसीत् कटकटाशब्दस् सुमहान् रोमहर्षणः
निघ्नन्तो निशितैश्शस्त्रैर् भ्रातॄन् पुत्रान् सखीनपि
योधाः परिपतन्ति स्म यथाऽऽमिषकृते खगाः
अन्योन्यं प्रतिसंरब्धाः परस्परधैषिणः
अहं पूर्वमहं पूर्वम् इत्यभ्यघ्नन् सहस्रशः
सङ्घातैरासनाद्भ्रष्टैर् अश्वारोहैर्गतासुभिः
हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः
स्फुरतां प्रतिविष्टानाम् अश्वानां शीघ्रसारिणाम्
स्तनतां च मनुष्याणां पततां च विशां पते
भिन्दन्तः परमर्माणि राजन् दुर्मन्त्रिते तव
शक्त्यृष्टिप्रासशब्दश्च तुमुलस्समजायत
निहताश्च शितैश्शस्त्रैर् न न्यवर्न्तत तावकाः
मत्ता रुधिरगन्धेन बहवो गतचेतसः
परान् स्वकांश्च विध्यन्ति क्षयाय जयगृध्नवः
एवं हि योधस्संरब्धाः परस्परसमाहताः
भूमावभ्यपतन् राजञ् शरशक्तिभिराहताः
कङ्कगृध्रसृगालानां तुमुले निस्स्वनो महान्
आसीद्बलक्षयो घोरस् तव पुत्रस्य पश्यतः
नराश्वकायैस्सञ्छन्ना भूमिरासीद्विशां पते
रुधिरोदकचित्रा च भीरूणां भयवर्धिनी
असिभिः पट्टसैश्शूलैस् तक्षमाणाः परस्परम्
तावकाः पाण्वेयांश्च नात्यवर्तन्त भारत
प्रहरन्तो यथाशक्ति यावत् प्राणस्य धारणा
योधाः परिपतन्ति स्म वमन्तो रुधिरं मुखैः
शिरो गृहीत्वा केशेषु कबन्धः स प्रत्यदृश्यत
उद्यम्य निशितं खड्गं रुधिरेण समुक्षितम्
उत्थितेषु कबन्धेषु युद्धे तस्मिन् जनाधिप
तदा रुधिरगन्धेन योधाः कश्मलमाविशन्
मन्दीभूते ततश्शब्दे पाण्डवानां महद्बलम्
अल्पावशिष्टैस्तुरगैर् अभ्यवर्तत सौबलः
ततोऽभ्यधावंस्त्वरिताः पाण्डवा जयगर्धिनः
पदातयश्च नागाश्च सादिनश्चोद्यतायुधाः
कोष्ठीकृत्य तदा ह्येनं परिक्षिप्य च सर्वशः
शस्त्रैर्नानाविधैर्जघ्नुर् युद्धपारं तितीर्षवः
त्वदीयास्तां तु सम्प्रेक्ष्य सर्वशस्समभिद्रुतम्
साश्वपत्तिद्विपरथाः पाण्डवानभिदुद्रुवुः
केचित् पदातयः पद्भिर् मुष्टिभिश्च परस्परम्
निजघ्नुस्समरे शूराः क्षीणशस्त्रास्ततोऽपतन्
रथेभ्यो रथिनः पेतुर् द्विपेभ्यो हस्तिसादिनः
विमानेभ्यः परिभ्रष्टास् सिद्धाः पुण्यक्षये यथा
एवमन्योन्यमायत्ता योधा जघ्नुर्महामृधे
पितॄन् भ्रातॄन् वयस्यांश्च पुत्रानपि तथाऽपरे
एवमासीदमर्यादं युद्धं भरतसत्तम
प्रासासिबाणकलिले वर्तमाने सुदारुणे