सञ्जय उवाच
सञ्जयः-
तस्मिंस्तु निहते साल्वे शूरे समितिशोभने
पातिते युधि दुर्धर्षे मद्रराजे महारथे
तवाभज्यद्बलं वेगाद् वातेनेव महाद्रुमः
हतप्रवीरा विध्वस्ता निकृत्ता निशितैश्शरैः
तत् प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथः
तावकास्तव पुत्राश्च प्रायशो विमुखा भवन्
दधार समरे शूरश् शत्रुसेनां महाबलः
वणिजो नावि भिन्नायां यथाऽगाधे महार्णवे
सन्निवृत्तास्तु ते वीरा दृष्ट्वा सात्वतमाहवे
अपारे पारमिच्छन्तो हते शूरे महात्मनि
शैलोपमं स्थिरं राजन् विकिरन्तं शरान् युधि
मद्रराजे महाराज वित्रेसुश्शरविक्षताः
ततः प्रववृते युद्धं कुरूणां पाण्डवैस्सह
अनाथा नाथमिच्छन्तो मृगास्सिंहार्दिता इव
निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम्
वृषा यथा भग्नशृङ्गाश् शीर्णदन्ता गजा इव
तत्राश्चर्यमभूद्युद्वं सात्वतस्य परैस्सह
मध्याह्ने प्रत्यपायाता निर्जिता धर्मसूनुना
यदेको वारयामास पाण्डुसेनां दुरासदाम्
न सन्धातुमनीकानि न च राजन् पराक्रमे
तेषामन्योन्यसुहृदां कृते कर्मणि दुष्करे
आसीद्बुद्धिर्हते शल्ये तव योधस्य कस्य चित्
सिंहनादः प्रहृष्टानां दिविस्पृक् सुमहानभूत्
भीष्मे द्रोणे च निहते सूतपुत्रे च भारत
तेन शब्देन वित्रस्तान् पाञ्चालान् भरतर्षभ
यद्दुःखं तव योधानां भयं चासीद्विशां पते
शिनेर्नप्ता महाबाहुर् अन्वपद्यत संयुगे
तद्भयं स च नश्शोको भूय एवाभ्यवर्धत
स समासाद्य राजानं क्षेमधूर्तिं महाबलम्
निराशाश्च जये तस्मिन् हते शल्ये महारथे
सप्तभिर्निशितैर्बाणैर् अनयद्यमसादनम्
हतप्रवीरा विध्वस्ता निकृत्ता निशितैश्शरैः
मद्रराजे हते राजन् योधास्ते प्राद्रवन् भयात्
तमायान्तं महाबाहुं प्रवर्षन्तं शरान् बहून्
अश्वानन्ये गजानन्ये रथानन्ये महारथाः
जवेनाभ्यपतद्धीमान् हार्दिक्यश्शिनिपुङ्गवम्
आरुह्य जवसम्पन्नाः पादाताः प्राद्रवन् भयात्
अन्योन्यमभ्यधावेतां शस्त्रप्रवरधारिणौ
तौ सिंहाविव नर्दन्तौ धन्विनौ रथिनां वरौ
द्विसाहस्रं च मातङ्गा गिरिरूपाः प्रहारिणः
सम्प्राद्रवन् हते शल्ये अङ्कुशाङ्गुष्ठचोदिताः
पाण्डवास्सह पाञ्चालैर् योधाश्चान्ये नृपोत्तमाः
ते रणाद्भरतश्रेष्ठ तावकाः प्राद्रवन् दिशः
प्रेक्षकास्समपद्यन्त तयोर्घोरे समागमे
धावन्तश्चाप्यदृश्यन्त श्वसमानाश्शरातुराः
नाराचैर्वत्सदन्तैश्च वृष्ण्यन्धकमहारथौ
तान् प्रभग्नान् द्रुतान् दृष्ट्वा हतोत्साहान् पराजितान्
अभिजघ्नतुरन्योन्यं प्रहृष्टाविव कुञ्जरौ
अभ्यद्रवन्त पाञ्चालाः पाण्डवाश्च जयैषिणः
चरन्तौ विविधान् मार्गान् हार्दिक्यशिनिपुङ्गवौ
बाणशब्दरवाश्चापि सिंहनादश्च पुष्कलः
मुहुरन्तर्दधाते तौ बाणवृष्ट्या परस्परम्
शङ्खशब्दश्च शूराणां दारुणस्समपद्यत
चापवेगबलोद्धूतान् मार्गणान् वृष्णिसिंहयोः
दृष्ट्वा तु तावकं सैन्यं भयत्रस्तं प्रविद्रुतम्
आकाशे समपश्याम पतङ्गानिव शीघ्रगान्
अन्योन्यं समभाषन्त पाञ्चालाः पाण्डवै्ससह
पाञ्चालाः-
तमेकं सत्यकर्माणम् आसाद्य हृदिकात्मजः
अद्य राजा सत्यधृतिर् हतामित्रो युधिष्ठिरः
अविध्यन्निशितैर्बाणैश् चतुर्भिश्चतुरो हयान्
अद्य दुर्योधनो हीनो दीप्तया नृपतिश्रिया
स दीर्घबाहुस्सङ्क्रुद्धस् तोत्रार्दित इव द्विपः
अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरः
अष्टाभिः कृतवर्माणम् अविध्यत् परमेषुभिः
निस्सञ्ज्ञः पतितो भूमौ कश्मलं प्रतिपत्स्यते
ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलामुखैः
अद्य जानाति कौन्तेयं समर्थं सर्वधन्विनाम्
सात्यकिं त्रिभिराहत्य धनुरेकेन चिच्छिदे
अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत्
निकृत्तं तद्धनुश्श्रेष्ठम् अपास्य शिनिपुङ्गवः
अद्य क्षत्तुर्वचस्सत्यं स्मरतां ब्रुवतो हितम्
अन्यदादत्त वेगेन शैनेयस्सशरं धनुः
तदादाय धनुश्श्रेष्ठं वरिष्ठः सर्वधन्विनाम्
अद्यप्रभृति पार्थस्य प्रेष्यभूतो ह्युपाचरन्
आरोप्य च महावीर्यो महाबुद्धिर्महाबलः
विजानातु नृपो दुःखं यत् प्राप्तं पाण्डुनन्दनैः
अमृष्यमाणो धनुषश् छेदनं कृतवर्मणा
अद्य कृष्णस्य माहात्म्यं जानातु स महीपतिः
कुपितोऽतिरथश्शीघ्रं कृतवर्माणमभ्ययात्
अद्यार्जुनधनुर्घोषं घोरं जानातु संयुगे
अस्त्राणां च बलं सर्वं बाह्वोश्च बलमाहवे
ततस्स दशभिर्बाणैर् निशितैश्शिनिपुङ्गवः
पुत्राणां च वधं घोरं भीमेन श्रोष्यते नृपः
जघान चाश्वान् सूतं च ध्वजं च कृतवर्मणः
ततो राजन् महेष्वासः कृतवर्मा महारथः
अद्य ज्ञास्यति भीमस्य बलं घोरं महात्मनः
हताश्वसूतं सम्प्रेक्ष्य रथं हेमपरिष्कृतम्
हते दुर्योधने युद्धे शक्रेणेव तु शम्बरे
रोषेण महताऽऽविष्टश् शूलमुद्यम्य मारिष
यत् कृतं भीमसेनेन दुश्शासनवधे तदा
चिक्षेप भुजवेगेन जिघांसुश्शिनिपुङ्गवम्
कोऽन्यः कर्ताऽस्ति तल्लोके ऋते भीमं महाबलम्
तच्छूलं सात्वतोऽप्याजौ निर्भिद्य निशितैश्शरैः
जानीतामद्य ज्येष्ठस्य पाण्डवस्य पराक्रमम्
चूर्णितं पातयामास मोहयन्निव माधवः
मद्रराजं हतं श्रुत्वा दैवैरपि सुदुस्सहम्
ततोऽपरेण भल्लेन हृद्येनं समताडयत्
स युद्धे युयुधानेन हताश्वो हतसारथिः
अद्य ज्ञास्यति सङ्ग्रामे माद्रीपुत्रौ महाबलौ
कृतवर्मा कृतास्त्रेण धरणीमन्वपद्यत
निहते सौबले वीरे गान्धारेषु च सर्वशः
तस्मिन् सात्यकिना वीरे द्वैरथे विरथीकृते
कथं तेषां जयो न स्याद् येषां योद्धा धनञ्जयः
समपद्यत सर्वेषां सैन्यानां सुमहद्भयम्
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः
द्रौपद्यास्तनयाः पञ्च माद्रीपुत्रौ च पाण्डवौ
पुत्रस्य तव चात्यर्थं विषादस्समपद्यत
शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः
हतसूते हताश्वे च विरथे कृतवर्मणि
येषां च जगतो नाथो नाथः कृष्णो जनार्दनः
हताश्वं च समालक्ष्य हतसूतमरिन्दमम्
कथं तेषां जयो न स्याद् येषां धर्मो व्यपाश्रयः
अभ्यधावत् कृपो राजन् जिघांसुश्शिनिपुङ्गवम्
तमारोप्य रथोपस्थे मिषतां सर्वधन्विनाम्
लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः
अपोवाह महाराज तूर्णमायोधनादपि
येषां नाथो हृषीकेशस् सर्वलोकविभुर्हरिः
शैनेयेन स्थते राजन् विरथे कृतवर्मणि
भीष्मं द्रोणं च कर्णं च मद्रराजानमेव च
दुर्योधनबलं सर्वं पुनरासीत् पराङ्मुखम्
तथाऽन्यान् नृपतीन् वीराञ् शतशोऽथ सहस्रशः
कोऽन्यश्शक्तो रणे जेतुम् ऋते पार्थां युधिष्ठिरम्
तत् परे नान्वबुध्यन्त सैन्ये च रजसा वृते
यस्य नाथो हृषीकेशश् सदा सत्ययशोनिधिः
तावद्विप्रद्रुतं राजन् दुर्योधनमृते नृप
सञ्जयः-
दुर्योधनस्तु सम्प्रेक्ष्य भग्नं स्वबलमन्तिकात्
इत्येवं वदमानास्ते हर्षेण महता युताः
जवेनाभ्यपतत् तूर्णं सर्वांश्चैको न्यवारयत्
प्रभन्नांस्तावकान् राजन् सृञ्जयाः पृष्ठतोऽन्वयुः
पाण्डवान् समरे क्रुद्धो धृष्टद्युम्नं च पार्षतम्
धनञ्जयो रथानीकम् अभ्यवर्तत वीर्यवान्
शिखण्डिनं द्रौपदेयान् पाञ्चालानां च ये गणाः
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महारथः
तान् प्रेक्ष्य द्रवतस्सर्वान् भीमसेनभयार्दितान्
केकयान् सोमकांश्चैव योधयामास मारिष
दुर्योधनस्तदा सूतम् अब्रवीद्विस्मयन्निव
दुर्योधनः-
असम्भ्रमं दुराधर्षश् शितैरस्त्रैरवाकिरत्
न माऽतिक्रमते पार्थो धनुष्पाणिमवस्थितम्
अतिष्ठदाहवे यत्तः पुत्रस्तव महाबलः
जघने सर्वसैन्यानां शनैरश्वान् प्रचोदय
यथा यज्ञे महानग्निर् मन्त्रपूतः प्रकाशते
तं परे नात्यवर्तन्त मर्त्या मृत्युमिवाहवे
जघने युध्यमानं हि कौन्तेयो मां धनञ्जयः
अथान्यं रथमास्थाय हार्दिक्यस्समवर्तत
नोत्सहेत व्यतिक्रान्तुं वेलामिव महोदधिः
पश्य सैन्यं महत् सूत पाण्डवैस्समभिद्रुतम्
सैन्यरेणुं समुद्धूतं पश्य चैनं समन्ततः
सिंहनादांश्च बहुशश् शृणु घोरान् भयानकान्
तस्माद्याहि शनैस्सूत जघनं परिपालय
मयि स्थिते च समरे निरुद्धेषु च पाण्डुषु
पुनरावर्तते तूर्णं मामकं बलमोजसा
सञ्जयः-
तच्छ्रुत्वा तव पुत्रस्य भाषतो मधुरं वचः
सारथिर्हेमसञ्छन्नाञ् शरैरश्वानचोदयत्
गजाश्वरथिभिर्भिन्नास् त्यक्तात्मानः पदातयः
एकविंशतिसाहस्रास् संयुगायावतस्थिरे
नानादेशसमुद्भूता नानारञ्जितवाससः
अवस्थितास्तदा योधाः प्रार्थयन्तो महद्यशः
तेषामापततां तत्र संसृष्टानां परस्परम्
सम्मर्दस्तु महाञ्चज्ञे घोररूपो भयाङ्करः
भीमसेनं तदा राजन् धृष्टद्युम्नं च पार्षतम्
बलेन चतुरङ्गेण नानादेश्या न्यवारयन्
भीममेवाभ्यवर्तन्त रणेऽन्ये तु पदातयः
प्रक्ष्वेल्यास्फोट्य संहृष्टा वीरलोकमियासवः
आसाद्य भीमसेनं तु सङ्क्रुद्धा युद्धदुर्मदाः
धार्तराष्ट्रास्तदा नेदुर् नान्यामकथनयन् कथाम्
परिवार्य रणे भीमं निजघ्नुस्ते समन्ततः
स वध्यमानस्समरे पदातिगणसंवृतः
न चचाल रथोपस्थे मैनाक इव पर्वतः
ते तु क्रुद्धा महाराज पाण्डवस्य महारथाः
निग्रहीतुं प्रचक्रुर्हि योधाश्चान्ये न्यवारयन्
अक्रुध्यत रणे भीमस् तैस्तदा पर्यवस्थितैः
सोऽवतीर्य रथात् तूर्णं पदातिस्समवस्थितः
जातरूपप्रतिच्छन्नां प्रगृह्य महतीं गदाम्
अवधीत् तावकान् योधान् दण्डपाणिरिवान्तकः
विप्रहीणरथाश्वांस्तान् नरान् स पुरुषर्षभः
एकविंशतिसाहस्रान् पदातीनवपोथयत्
हत्वा तत् पुरुषानीकं भीमस्सत्यपराक्रमः
धृष्टद्युम्नं पुरस्कृत्य नचिरात् प्रत्यदृश्यत
पादाता निहता भूमौ शिश्यिरे रुधिरोक्षिताः
प्रभग्ना इव वातेन कर्णिकारास्सुपुष्पिताः
नानाशस्त्रसमायुक्ता नानाकुण्डलधारिणः
नानाजात्या हतास्तत्र नानादेशसमागताः
पताकाध्वजसम्पन्नं पदातीनां महद्बलम्
निकृत्तं विबभौ तत्र छिन्नं तालवनं यथा
युधिष्ठिरपुरोगाश्च सहसैन्या महारथाः
अभ्यधावन् महात्मानः पुत्रं दुर्योधनं तव
ते सर्वे तावकान् दृष्ट्वा महेष्वासान् पराङ्मुखान्
नात्यवर्तन्त ते पुत्रं वेलामिव महोर्मयः
तदद्भुतमपश्याम तव पुत्रस्य विक्रमम्
यदेकं सहिताः पार्था न शेकुरतिवर्तितुम्
नातिदूरेऽपयातं तं कृतबुद्धिं पलायने
दुर्योधनस्स्वकं सैन्यम् अब्रवीद्भृशविक्षतम्
दुर्योधनः-
न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु वा
यत्र यातान् न वो हन्युः पाण्डवाः किं द्रुतेन वः
अल्पं च बलमेतेषां कृष्णौ च भृशदुःखितौ
यदि सर्वे प्रतिष्ठामो ध्रुवं नो विजयो भवेत्
विप्रयातांस्तु वो भिन्नान् पाण्डवाः कृतकिल्बिषान्
अनुव्रज्य हनिष्यन्ति श्रेयो नस्समरे स्थितिः
शृण्वन्तु क्षत्रियास्सर्वे यावन्तस्स्थ समागताः
यदा शूरं च भीमं च मारयत्यन्तकस्सदा
को नु मूढो न युध्येत पुरुषः क्षत्रियब्रुव
श्रेयो नो भीमसेनस्य क्रुद्धस्य प्रमुखे स्थितिः
मुख्यस्साङ्ग्रामिको मृत्युर् दुःखो व्याधिजरादिभिः
मर्त्येनावश्यमर्तव्यं गृहेष्वपि कदाचन
युध्यतः क्षत्रधर्मेण मृत्युरेष सनातनः
जित्वा वा सुखमाप्नोति हतः प्रेत्य महद्यशः
न युद्धधर्माच्छ्रेयान् वै पन्थास्स्वर्गस्य कौरवाः
अचिरेण जिताँल्लोकान् हतो युधि समश्नुते
सञ्जयः-
श्रुत्वा तु वचनं तस्य पूजयित्वा तु पार्थिवाः
पुनरेवाभ्यवर्तन्त पाण्डवानाततायिनः
तानापतत एवाशु व्यूढानीकाः प्रहारिणः
प्रत्युद्ययुस्तदा पार्था जयगृद्ध्राः प्रमन्यवः
धनञ्जयो रथेनाजावभ्यवर्तत वीर्यवान्
विश्रुतं त्रिषु लोकेषु गाण्डिवं विक्षिपन् धनुः
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः
जवेनाभ्यपतन् हृष्टा यत्ता वै तावकं बलम्