सञ्जयः-
सञ्जयः
सन्निवृत्ते बलौघे तु साल्वो म्लेच्छगणाधिपः
शल्ये तु निहते राजन् मद्रराजपदानुगाः
अभ्यवर्तत सङ्क्रुद्धः पाण्डूनां सुमहद्बलम्
रथास्सप्तशतं वीरा निर्ययुर्महतो बलात्
आस्थाय च महानागं प्रभिन्नं पर्वतोपमम्
दुर्योधनस्तु द्विरदम् आरुह्याचलसन्निभम्
दृप्तमैरावतप्रख्यम् अमित्रगणमर्दनम्
छत्रेण ध्रियमाणेन वीज्यमानश्च चामरैः
न गन्तव्यं न गन्तव्यम् इति मद्रानवारयत्
योऽसौ महापद्मकुलप्रसूतः प्रपूजितो धार्तराष्ट्रेण नित्यम्
दुर्योधनेन ते वीरा वार्यमाणाः पुनः पुनः
सुकल्पितश्शास्त्रविनिश्चयज्ञैस् सदौपवाह्यस्समरेषु राज्ञः
युधिष्ठिरं जिघांसन्तः पाण्डूनां प्राविशन् बलम्
ऐरावतं दैत्यगणान् विमृद्नञ् शक्रो यथा सञ्जनयन् भयानि
ते तु शूरा महाराज कृतचित्तास्स्म योधने
तमास्थितो राजवरो बभूव यथोदयस्थस्सविता क्षपान्ते
धनुश्शब्दं महत् कृत्वा सहायुध्यन्त पाण्डवैः
स तेन नागप्रवरेण राजन्नभ्युद्ययौ पाण्डुसुतान् समेतान्
दृष्ट्वा तु निहतं शल्यं धर्मपुत्रं च पीडितम्
शितैः पृषत्कैर्विददार चापि महेन्द्रवज्रप्रतिमैस्सुघोरैः
मद्रराजप्रिये युक्तैर् मद्रकाणां महारथैः
ततश्शरान् वै सृजतो महारणे योधांश्च राजन्नयतो यमक्षयम्
आजगाम ततः पार्थो गाण्डीवं विक्षिपन् धनुः
नास्यान्तरं ददृशुस्स्वे परे वा यथा पुरा वज्रधरस्य दैत्याः
पूरयन् रथघोषेण दिशस्सर्वा महारथः
ते पाण्डवास्सृञ्जयास्सोमकाश्च तमेव नागं ददृशुस्समन्तात्
ततोऽर्जुनश्च भीमश्च माद्रीपुत्रौ च पाण्डवौ
सहस्रशो वै विचरन्तमेकं यथा महेन्द्रस्य गजं समीके
सात्यकिश्च नरव्याघ्रो द्रौपदेयाश्च सर्वशः
सन्द्राव्यमाणं तु बलं परेषां परेतकल्पं विबभौ समन्तात्
धृष्टद्युम्नश्शिखण्डी च पाञ्चालास्सहसोमकैः
नैवावतस्थे समरे भृशं भयाद् विमृद्यमानं तु परस्परं तदा
युधिष्ठिरं परीप्सन्तस् समन्तात् पर्यवारयन्
ततः प्रभग्ना सहसा महाचमूस् सा पाण्डवी तेन जनाधिपेन
ते समन्तात् परिवृताः पाण्डवैः पुरुषर्षभैः
दिशश्चतस्रस्सहसा विधाविता गजेन्द्रवेगं तमपारयन्ती
क्षोभयन्ति स्म तां सेनां मकरास्सागरं यथा
दृष्ट्वा तु तां वेगवता प्रभग्नां सर्वे त्वदीया युधि योधमुख्याः
पुरोवातेन गङ्गेव क्षोभ्यमाणा महानदी
अपूजयंस्तत्र नराधिपं तं दध्मुश्च शङ्खाञ् शशिसन्निकाशान्
अक्षोभ्यत महाराज पाण्डूनां ध्वजिनी पुनः
श्रुत्वा निनादं त्वथ कौरवाणां हर्षाद्विमुक्तं सह शङ्खनादैः
प्रस्कन्द्य महतीं सेनां त्यक्तात्मानो महारथाः
सेनापतिः पाण्डवसृञ्जयानां पाञ्चालपुत्रो ममृषे न रोषात्
वृक्षानिव महावाताः कम्पयन्ति स्म तावकाः
ततस्तमेव द्विरदं महात्मा प्रत्युद्ययौ त्वरमाणो जयाय
बहवश्चुक्रुशुस्तत्र क्व स राजा युधिष्ठिरः
जम्भो यथा शक्रसमास्थितं वै नागेन्द्रमैरावणमिन्द्रवाह्यम्
भ्रातरो वाऽस्य ते शूरा दृश्यन्ते नेह केचन
तमापतन्तं सहसा तु दृष्ट्वा पाञ्चालपुत्रं युधि राजसिंहम्
पाञ्चालाश्च महावीर्याश् शिखण्डी च महारथः
तं वै द्विपं प्रेषयामास तूर्णं वधाय राजन् द्रुपदात्मजस्य
स तं द्विपं सहसाऽभ्यापतन्तं ह्यविध्यदर्कप्रतिमैः पृषत्कैः
धृष्टद्युम्नोऽथ शैनेयो द्रौपदेयाश्च सर्वशः
तं तैलधौतैर्निशितैर्ज्वलद्भिर् नाराचमुख्यैस्त्रिभिरुग्रहस्तम्
एवं तान् वादिनश्शूरा द्रौपदेया महारथाः
अभ्यघ्नन् युयुधुश्चैव मद्रराजपदानुगान्
ततोऽपरान् पञ्चशतान् महात्मा नाराचमुख्यान् विससर्ज कुम्भे
चक्रैर्विमथितैः केचित् केचिच्छिन्नैर्महारथैः
स तैस्तु विद्धः परमद्विपो रणे नदन् परावृत्य भृशं प्रदुद्रुवे
प्रादृश्यन्तैव समरे तावका निहताः परैः
तं नागराजं सहसा प्रणुन्नं विद्राव्यमाणं च निगृह्य साल्वः
आलोक्य पाण्डवान् युद्धे योधा राजन् समन्ततः
तोत्राङ्कुशैः प्रेषयामास तूर्णं पाञ्चालराजस्य सुतं प्रदर्श्य
वार्यमाणा ययुस्सर्वे तव पुत्रेण भारत
दृष्ट्वाऽऽपतन्तं सहसा गजेन्द्रं धृष्टद्युम्नस्स्वरथाच्छीघ्रमेव
दुर्योधनस्तु तान् वीरान् वारयामास सान्त्वयन्
गदां गृहीत्वा सुजवेन वीरो भूमिं प्रपन्नो भयविह्वलाङ्गः
न चास्य शासनं केचित् तत्र चक्रे महारथः
स तं रथं हेमविभूषिताङ्गं साश्वं ससूतं सहसा विमृद्य
ततो गान्धारराजस्य पुत्रश्शकुनिरब्रवीत्
उत्क्षिप्य हस्तेन तदा महाद्विपस् तं पोथयामास वसुन्धरातले
दुर्योधनं महाराज वचनं वचनक्षमम्
शकुनिः-
पाञ्चालराजस्य सुतं च दृष्ट्वा तदाऽर्दितं नागवरेण तेन
किं नस्सम्प्रेक्षमाणानां मद्राणां हन्यते बलम्
तमभ्यधावत् सहसा जवेन भीमश्शिखण्डी च शिनेश्च नप्ता
न युक्तमेतत् समरे त्वयि तिष्ठति भारत
शरैश्च वेगं सहसा निगृह्य तस्याभितो ह्यापततो गजस्य
सहितैर्नाम योद्धव्यम् इत्येष समयः कृतः
स सङ्गृहीतो रथिभिर्गजो वै चचाल तैर्वार्यमाणश्च सङ्ख्ये
अथ कस्मात् परानेवं घ्नतो मर्षयसेऽनघ
दुर्योधनः-
ततः पृषत्कान् प्रववर्ष राजा सूर्यो यथा रश्मिजालं समन्तात्
वार्यमाणा मया पूर्वं नैते कुर्वन्ति शासनम्
तैराशुगैर्वध्यमाना रथौघाः प्रदुद्रुवुस्तत्र ततस्स सर्वे
एते हि निहतास्सर्वे प्रस्कन्तोऽरिवाहिनीम्
शकुनिः-
तत् कर्म साल्वस्य समीक्ष्य सर्वे पाञ्चालमत्स्या नृप सृञ्जयाश्च
न भर्तुश्शासनं वीरा रणे कुर्वन्त्यमर्षिताः
हाहाकारैर्नादयन्तस्तु युद्धे द्विपं समन्ताद् रुरुधुर्नराग्र्याः
अलं रोद्धुं तवैतेषां नायं काल उपेक्षितुम्
पाञ्चालपुत्रस्त्वरितस्तु शूरो गदां प्रगृह्याचलशृङ्गकल्पाम्
यामस्सर्वेऽत्र सम्भूय सवाजिरथकुञ्जराः
असम्भ्रमं भारत शत्रुघाती जवेन वीरोऽनुससार नागम्
परित्रातुं महेष्वासान् मद्रराजपदानुगान्
ततोऽथ नागं धरणीधराभं मदं स्रवन्तं जलदप्रकाशम्
अन्योन्यं परिरक्षामो यत्नेन महता नृप
गदां समाविध्य भृशं जघान पाञ्चालराजस्य सुतो महात्मा
एवं सर्वे तु सञ्चिन्त्य प्रयामो यत्र सैनिकाः
सञ्जयः-
स भिन्नकुम्भस्सहसा विनद्य मुखात् प्रभूतं क्षतजं विमुञ्चन्
एवमुक्तस्ततो राजा सैन्येन महता वृतः
पपात नागो धरमीधराभः क्षितिप्रकम्पाच्चलितो यथाऽद्रिः
प्रययौ सिंहनादेन कम्पयानो वसुन्धराम्
निपात्यमाने तु तदा गजेन्द्रे हाहाकृते तव पुत्रस्य सैन्ये
घ्नत गृह्णीत युध्यध्वं प्रहरध्वं निकृन्तत
साल्वस्य राज्ञस्तु शिनिप्रवीरो जहार भल्लेन शिरश्शितेन
इत्यासीत् तुमुलश्शब्दस् तव सैन्यस्य भारत
हृतोत्तमाङ्गो युधि सात्वतेन पपात भूमौ सहनागराज्ञा
पाण्डवाश्च रणे दृष्ट्वा मद्रराजपदानुगान्
यथाऽद्रिशृङ्गं सुमहत् प्रणुन्नं वज्रेण देवाधिपचोदितेन
सहितास्सन्न्यवर्तन्तं गुल्ममास्थाय मध्यमम्
ते मुहूर्ताद्रणे वीरा हतदर्पा विशां पते
निहताः प्रत्यदृश्यन्त मद्रराजपदानुगाः
ततो नस्सम्प्रयातानां हतामित्रास्तरस्विनः
हृष्टाः किलकिलाशब्दम् अकुर्वन् सहिताः परे
अथोत्थितानि मुण्डानि समदृश्यन्त भारत
पपात महती चोल्का मध्येनादित्यमण्डलात्
रथैर्भग्नैर्युगाक्षैश्च निहतैश्च महारथैः
अश्वैर्निपातितैश्चैव दृश्यन्ते स्म समन्ततः
वातायमानैस्तुरगैर् युगासक्तैस्समन्ततः
अकृष्यन्त महाराज योधास्तत्र रणाजिरे
भग्नचक्रान् रथान् केचिद् अवहंस्तुरगा रणे
रथार्धं केचिदादाय दिशो दश विबभ्रमुः
तत्र तत्र दृश्यन्ते योक्त्रैश्श्लिष्टास्स्म वाजिनः
रथिनः पात्यमानाश्च व्यदृश्यन्त नरोत्तमाः
गगनात् प्रच्युतास्सिद्धाः पुण्यानामिव सङ्क्षये
निहतेषु च शूरेषु मद्रराजानुगेषु च
अस्मानापततश्चापि दृष्ट्वा पार्था महारथाः
अभ्यवर्तन्त वेगेन जयगृध्राः प्रहारिणः
बाणशब्दरवान् कृत्वा विमिश्राञ् शङ्खनिस्स्वनैः
अस्मांस्तु पुनरासाद्य लब्धलक्षाः प्रहारिणः
शरासनानि धुन्वानास् सिंहनादान् प्रचुक्रिरे
ततो हतमभिप्रेक्ष्य मद्रराजबलं महत्
मद्रराजं च समरे दृष्ट्वा शूरं निपातितम्
दुर्योधनबलं सर्वं पुनरासीत् पराङ्मुखम्
वध्यमानं महाराज पाण्डवैर्जितकाशिभिः
दिशो भेजे च सम्भ्रान्तं त्रासितं दृढधन्विभिः