सञ्जयः-
ततो निपतितो भूमिविन्द्रध्वज इवोच्छ्रितः
बाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट्
शक्त्या विभिन्नहृदयो विप्रयुक्तायुधध्वजः
हतो निपतितो भूमाविन्द्रध्वज इव स्थितः
स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः
प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुङ्गवः
प्रियया कान्तया कान्तः पतमान इवोरसि
चिरं भुक्त्वा वसुमतीं प्रियां कान्तामिव प्रभुः
सर्वैरङ्गैस्समाश्लिष्य प्रसुप्त इव सोऽभवत्
धर्म्ये धर्मात्मना युद्धे निहतो धर्मसूनुना
सम्यग्घुत इवोत्सृष्टः प्रशान्तोऽग्निरिवाध्वरे
तं शान्तमपि मद्रेशं लक्ष्मीर्नैव व्यमुञ्चत
ततो युधिष्ठिरश्चापम् आदायेन्द्रधनुष्प्रभम्
व्यधमद्द्विषतस्सङ्ख्ये खगराडिव पन्नगान्
देहांस्तु निशितैर्भल्लै रिपूणां नाशयत् क्षणात्
ततः पार्थस्य बाणौघैर् आवृतास्सैनिकास्तव
निमीलिताक्षाः कूजन्ति भृशमन्योन्यकर्शिताः
सन्तप्ता बभ्रमुश्चैव विशस्तायुधजीविताः
ततश्शल्ये निपतिते मद्रराजानुजो युवा
भ्रातुस्सर्वैगुणैर्युक्तो रथी पाण्डवमभ्ययात्
विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन्
हतस्यापचितिं भ्रातुश् चिकीर्षन् युद्धदुर्मदः
तं विव्याधाशुगैष्षड्भिर् धर्मराजस्त्वरन्निव
कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च
ततोऽस्य दीप्यमानेन सुदृढेन शितेन च
प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः
सकुण्डलं तद्ददृशे पतमानं शिरो रणे
पुण्यक्षयमिव प्राप्य पुनस्स्वर्गादिव च्युतः
तस्यापकृष्टशीर्षं तच् छरीरमपद्रथात्
रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यमभज्यत
विचित्रकवचे तस्मिन् हते मद्राधिपानुजे
हाहाकारं विकुर्वाणाः कुरवो विप्रदुद्रुवुः
शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताः
वित्रेसुः पाण्डवभयात् सर्वे ध्वस्तास्तदा भृशम्
तांस्तथा भज्यमानांस्तु कौरवान् भरतर्षभ
शिनेर्नप्ता किरन् बाणैर् अभ्यवर्तत सात्यकिः
तमायान्तं महेष्वासम् अप्रमत्तं दुरासदम्
हार्दिक्यस्त्वरितो राजन् प्रत्यगृह्णादभीतवत्
तौ समेतौ महात्मानौ वार्ष्णेयावरपराजितौ
हार्दिक्यस्सात्यकिश्चैव सिंहाविव बलोत्कटौ
इषुभिर्विमलाभासैश् छादयन्तौ परस्परम्
अर्चिर्भिरिव सूर्यस्य दिवाकरसमप्रभौ
चापमार्गबलोद्धूतान् मार्गणान् वृष्णिसिंहयोः
आकाशे समपश्याम पतङ्गानिव शीघ्रगान्
सात्यकिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिश्शरैः
चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा
तन्निकृत्तं धनुश्श्रेष्ठम् अपास्य शिनिपुङ्गवः
अन्यदादत्त वेगेन धनुर्जलदनिस्स्वनम्
तदादाय धनुश्श्रेष्ठम् वरिष्ठस्सर्वधन्विनाम्
हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत् स्तनान्तरे
ततो युगं रथेषां च भित्वा भल्लैस्सुसंशितैः
अश्वांश्चस्यावधीत् तूर्णं तथोभौ पार्ष्णिसारथी
हार्दिक्यं विरथं दृष्ट्वा कृपश्शारद्वतः प्रभो
अपोवाह ततः क्षिप्रं रथमारोप्य वीर्यवान्
मद्रराजे हते राजन् विरथे कृतवर्मणि
दुर्योधनबलं सर्वं पुनरासीत् पराङ्मुखम्
स्वे परे नावबुध्यन्त सैन्ये तु रजसा वृते
बलं तु हतभूयिष्ठं त्रस्तमासीत् पराङ्मुखम्
ततो मुहूर्तात्तेऽपश्यन् रजो भौमं समुत्थितम्
विविधैश्शोणितस्रावैः प्रशान्तं भरतर्षभ
ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात्
जवेनापततः पार्थान् एकस्सर्वानवारयत्
ततो मुहूर्तात् तेऽपश्यंस् तव योधास्समागतान्
पाण्डवान् सरथान् दृष्ट्वा धृष्टद्युम्नं च पार्षतम्
आनर्तं च दुराधर्षं शितैर्बाणैरवारयत्
तं परे नात्यवर्तन्त मर्त्या मृत्युमिवागतम्
अथान्यं रथमास्थाय हार्दिक्योऽपि न्यवर्तत
ततो युधिष्ठिरो राजा त्वरमाणो महारथः
चतुर्भिर्निजघानाश्वान् पत्रिभिः कृतवर्मणः
विव्याध गौतमं चापि षड्भिर्भल्लैस्सुतेजनैः
अश्वत्थामा ततो राज्ञा हताश्वं विरथीकृतम्
समपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात्
ततश्शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम्
विव्याध चाश्वान् निशितैस् तस्याष्टाभिश्शिलीमुखैः
एवमेतन्महाराज युद्धशेषमवर्तत
तव दुर्मन्त्रिते घोरं तव पुत्रस्य भारत
तस्मिन् महेष्वासधरे विशस्ते सङ्ग्राममध्ये कुरुपुङ्गवेन
पार्थास्समस्ताः परमप्रहृष्टाश् शङ्खाश्च दध्मुर्हतमीक्ष्य शल्यम्
युधिष्ठिरं च प्रशशंसुराजौ सुराः पुरा वृत्रवधे यथेन्द्रम्
चक्रुश्च नानाविधवाद्यशब्दान् निनादयन्तो वसुधां समन्तात्